________________
प्रतिपत्तिः - ३, दीव०
विक्रमः -पराक्रमो विलासिता - विलासः संजातोऽस्या विलासिता तारकादिदर्शनादितप्रत्ययः विलासवती गति--गमनं येषां ते वरवारणमत्ततुल्यविक्रमविलासितगतयः, पमुइयवरतुरगसीहवरवट्टियकडी' प्रमुदितो- रोगशोकाद्युपद्रवाभावात् कचित्पुनरेवं पाठः 'पमुइयवरतुरगसिंहअइरेगवट्टियकडी' तत्र प्रमुदितयो रोगकोशाद्युपद्रवरहितत्वेनातिपुष्टयोर्वरयोस्तुरगसिंहयोः कटयाः सकाशादतिशयेन वर्त्तिता - वृत्ति कटिर्येषां ते प्रमुदितवरतुरगसिंहातिरेकवर्त्तितकटयः ।
२९२
'वरतुरयसुजायगुज्झदेसा' वरतुरगस्येव सुजातः संगुप्तत्वेन सुनिष्पन्नो गुह्यदेशो येषां ते वरतुरगसुजातगुहयदेशाः, पाठान्तरं 'पसत्थवरतुरगगुज्झदेसा' व्यक्तं, 'आइण्णहयव्व निरुवलेवा' आकीर्णो-गुणैव्यार्पतः स चासौ हयश्च आकीर्णहयस्तद्वन्निरुपलेपा - लेपरहितशरीरमलाः, यथा जात्याश्चो मूत्रपुरीषाद्यनुलिप्तगात्रो भवति तता तेऽपीति भावः, 'साहयसोणंदमुसलदप्पणनिगरियवरकणगछरुसरिसवरवइरवलियमज्झा' संहृतसौनन्दं नाम ऊद्धर्वीकृतमुदूषलाकृति काष्ठं तच्च मध्ये तनु उभयोः पार्श्वयोर्बृहत् मुसलं - प्रतीतं, दर्पणशब्देनेहावयवे समुदायोपचाराद्दर्पणगण्डो गृह्यते, तथा यन्निगरितं - सारीकृतं वरकनकं तस्य तन्मयं त्सरु - खङ्गादिमुष्टिर्निगरितवरकनकत्सरुस्तैः सद्दशः तेषामिवेत्यर्थः, तता वरव्रस्येव क्षामो वलितो - वलयः संजाता अस्य वलितः चलियत्रयोपेतो मध्यो- मध्यभागो येषां ते संहृतसोनन्दमुसलदर्पणनिगरितवरकनकत्सरुसध्शवरवज्रवलितमध्या 'झसविहगसुजायपीणकुच्छी' झषो मत्स्यः पक्षी - प्रतीतस्तयोरिव सुजातौ - सुनिष्पन्नौ जन्मदोषरहिताविति भावः पीनौ - उपचितौ कुक्षी येषां ते मत्स्यपक्षिसुजातपीनकुक्षयः, 'झषोदरा' झषस्येवोदरं येषां ते झषोदराः, 'सुइकरणा' इति शुचीनि - पवित्राणि निरुपलेपानीति भावः करणानि चक्षुरादीनीन्द्रियाणि येषां ते शुचिकरणाः, कचिदेव 'पम्हवियडनाभा' इति पाठस्तत्र पद्मव विकटा - विस्तीर्णा नाभिर्यषां ते पद्मविकटनाभाः, अत एव निर्देशादनाभ्यपि समासान्तः एवमुत्तरपदेऽपि ।
'गंगावत्तयपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहियअ कोसायंतपउमगंभीरवियडनाभा' गङ्गावर्त्तक इव दक्षिणावर्त्ता तरङ्गैरिव तरङ्गैस्तिसृभिर्वलिभिर्भङ्गुरा तरङ्गभङ्गुरा रविकिरणैःसूर्यकरैस्तरुणं - नवं तत्प्रथमं तत्कालमित्यर्थः यद्बोधितं-उन्निद्रीकृतमत एव 'आकोसायंत' इत्याकोशायमानं विकचीभवदित्यर्थ पद्मं तद्वद् गम्भीरा च विकटा च नाभिर्येषां ते गङ्गावर्त्तकप्रदक्षिणावर्त्ततरङ्गभङ्गुररविकिरणतरुणबोधिताको शायमानपद्मगम्भीरविकटनाभाः, उज्जुयसमसहियसुजायजच्चतणुकसिणनिद्ध आइज्जलडहसुकुमालमिउरमणिञ्जरोमराई' ऋजुका- नवक्रा सम्मान काप्युद्दन्तुरा सहिता - सन्तता न त्वपान्तरलाव्यवच्छिन्ना सुजाता - सुजन्मा न तु कालादिवैगुण्यादुर्जन्मा अतएव जात्याप्रधाना तन्वी न तु स्थूरा कृष्णा न तु मर्कटवर्णा, कृष्णमपि किञ्चिन्निर्दीप्तिकं भवति तत आह- स्निग्धा आदेया- दर्शनपथमुपगता सती उपादेया सुभगा इति भावः एतदेव विशेषणद्वारेण समर्थयते - 'लडहा' सलवणिमा अत एव आदेया, सुकुमारा - अकठिना, तत्राकठिनमपि किञ्चित्कर्कशस्पर्श भवति तत आह-मृद्धी अत एव रमणीया - रम्या रोमराजि - तनूरुहपङ्क्तिर्येषां ते ऋजुकसमसहितसुजातजात्यतनुकृष्णस्निग्धादेयलटहसुकुमारमृदुरमणीय रोमराजयाः, 'सन्नयपासा' सम्यग् - अधोऽधः क्रमेण नतौ पार्श्वो येषां ते सन्नतपर्वाः अधोऽधः क्रमावनतपार्वा इत्यर्थः, तथा 'संगयपासा' इति संगतौ - देहप्रमा
तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org