________________
२९४
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० /१८५
सम्यक् पाठशुद्धरपि कर्तुमशक्तत्वात्, वस्त्रविधयो बहुप्रकारा भवेयुर्वरपट्ट- नोद्गताःप्रसिद्धतत्तत्पत्तनविनिर्गता 'विविधवर्णरागकलिता' विविधैर्वणैर्विविधै रागैः - मञ्जिष्ठारागादिभि कलिताः, तथैवानग्नका अपि द्रुमगणा अनेकबहुविविधविसापरिणतेन वस्त्रधिनोपपेताः, कुशिकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपाः १० ।
'उत्तरकुराए णं भंते! कुराए मणुयाण 'मित्यादि, उत्तरकुरुषु कुरुषु भदन्त ! 'मनुजानां' मनुष्याणां कीदृशः कीदृश आकारभाव:, प्रत्यवतारस्वरूपसम्भव इति भावः, प्रज्ञप्तः ?, भगवानाह-- गौतम ! 'ते ण' मिति पूर्ववत् मनुष्या 'अतीव' अतिशयेन सोमं द्दष्टिसुभगं चारु रूपं येषां तेऽतीवसो मचारुरूपाः 'भोगुत्तमगयलक्खणा' इति उत्तमशब्दस्य विशेषणस्यापि परनिपातः प्राकृतत्वात्, उत्तमाश्च ते भोगाश्च उत्तमभोगास्तद्गतानि - तत्संसूचकानि लक्षणानि येषां ते उत्तमभोगगतलक्षणाः, तथा भोगैः सश्रीकाः - सशोभाका भोगस श्रीकाः, तथा सुजातानि - यथोक्तप्रमाणोपपन्नत्वेन शोभनजन्मानि यानि सर्वाणि उरःशिरः प्रभृतीन्यङ्गानि तैः सुन्दरमङ्ग- समग्रं वपुर्येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः ।
'सुपइट्ठियकुम्मचारुचरणा' इति सुष्ठु - शोभनं यथा भवति एवं प्रतिष्ठिताः कूर्म्मवदुन्नतत्वेन चारवश्चरणाः- पादा येषां ते सुप्रतिष्ठितकूर्मचारुचरणाः, 'रत्तुप्पलपत्तमउयसुकुमालकोमलतला' इति रक्तं - लोहितमुत्पलपत्रवत् मृदु-मार्दवोपेतमकर्कशमिति भावः तच्चासुकुमारमपि संभवति यथा धृष्टमृष्टपाषाणप्रतिमा तत आह-सुकुमारं - शिरीषकुसुमवदकठिनं कोमलं - मनोज्ञं चरणतलं येषां ते रक्तोत्पलपत्रमृदुसुकुमारकोमलतलाः, तथा 'नगनगरमगरसागरचक्कं कहरंकलक्खणंकियचलणा' नगः - पर्वतः नगरमकरसागरचक्राणि - प्रतीतानि अङ्कारः - चन्द्रमा अङ्कः - तस्यैव लाञ्छनं मृगः एवंरूपाणि यानि लक्षणानि तैरङ्कितौ चरणौ येषां ते नगनगरमकरसागरचक्राङ्कधराङ्कलक्षणाङ्कितचरणाः, 'अणुपुव्वसुसाहयंगुलीया' इति पूर्वस्याः पूर्वस्या अनु लघव इति गम्यते अनुपूर्वा, किमुक्तं भवति ? - पूर्वस्याः पूर्वस्या उत्तरोत्तरा नखं नखेन हीनाः “नहं नहेण हीणाओ" इति सामुद्रिकशाश्त्रवचनात् सुसंहताः- सुश्लिष्टा अङ्गुलयो येषां ते अनुपूर्वसुसंहताङ्गुलीकाः । 'उन्नयतणुतंबनिद्धनखा' उन्नता - ऊर्द्ध नतास्तनवस्ताम्राः 'स्निग्धाः ' स्निग्धच्छाया नखाः पादगा इति सामर्थ्यलभ्यं तद्वर्णनाधिकाराद् येषां ते उन्नततनुताम्रस्निग्धनखाः, 'संठियसुसिलिठ्ठगूढगुप्पा' सम्यक्स्वरूपप्रमाणतया स्थितौ संस्थितौ सुलिष्टौ - मांसली गुल्फौ - गुलुकौ येषां ते संस्थितसुलिष्टगूढगुल्फाः, 'एणीकुरुविंदवत्तवट्टाणुपुब्वजंघा' इति एण्या इव- हरिण्या इव कुरुविन्दस्येव वर्त्त - सूत्रवलनकं तस्येव वृत्ते वर्त्तुले आनुपूव्येर्ण- क्रमेण ऊर्ध्वं स्थूरे स्थूरतरे इति गम्यं जङ्घे येषां ते एणीकुरुविन्दवर्त्तवृत्तानुपूर्वजङ्घाः 'समुग्गनिमग्गगूढजाणू' समुद्गकस्येवसमुद्गकपक्षिण इव निमग्ने अन्तः प्रविष्टे गूढे मांसलत्वादनुद्धते जानुनी - अष्ठीवन्ती येषां ते समुद्गनिमग्नगूढजानवः, 'गयससणसुजायसन्निभौरू' गजो- हस्ती श्वसिति - प्राणित्यनेनेति श्वसनः - शुण्डादण्डः गजस्य श्वसनो गजश्वसनस्तस्य सुजातस्य सुनिष्पन्नस्य सन्निभौ ऊरू येषां ते गुजातशब्दस्य विशेषणस्यापि सतः परनिपातः प्राकृतत्वात्
'चरवारणमत्ततुल्लविक्मविलासियगई' अत्रापि मत्तशब्दस्य विशेष्यात्परनिपातः प्राकृतत्वात् मत्तो - मदोन्मत्तो यो वरः - प्रधानो भद्रजातीयो वारणो- हस्ती तस्य तुल्यः- सध्शी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org