SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, दीव० २९३ तत्र प्रदेशे बहवो मण्यङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !, यथा ते हारोऽर्द्धहारो वेष्टनं मुकुटः कुण्डलं वामोत्तको हेमजालं मणिजालं कनकजालं सूत्रकमुचीकटकं खुडकाम (डुका ए) कावलि कण्ठसूत्रं मकरिका उरस्कन्धग्रैवेयकं श्रोणीसूत्रकं चूडामणि कनकतिलकं फुल्लकं सिद्धार्थकं कर्णपाली शशी सूर्यो वृषभश्चक्रकं तलभङ्गकं तुडितं हस्तमालकं हर्षकं केयूरं वलयं प्रालम्बमङ्गुलीयकं वलक्षं दीनारमालिका काञ्ची मेखला कलापः प्रतरं प्रातिहार्यकं पादोज्वलं घण्टिका किङ्किणी रत्नोरुजालं वरनूपुरं चरणमालिका कनकनिगरमालिकेति भूषणविधयो बहुप्रकाराः, एते च लोकतः प्रत्येतव्याः, कथम्भूताः ? इत्याह- काञ्चनमणिरत्नभक्तिचित्राः, तथैव ते मण्यङ्गका अपि द्रुमगणा अनेकबहुविविधविश्सापरिणतेन भूषणविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला यावव्यतिरूपा इति ८ । " 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो गेहाकारा नाम द्रमुगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! यथा ते प्रकाराट्टालकचरिकाद्वारगोपुरप्रासादाकाशतलमण्डपैकशालकद्विशाकत्रिशालकचतुःशालकगर्भगृहमोहनगृहवलभीगृहचित्रशालमालिकभक्तिगृहवृत्तत्र्यचतुरन्द्यावर्त्तसंस्थितानि पाण्डुरतलहर्म्य मुण्डमालहर्म्य, अथवा धवलगृहाणि अर्द्धमागधविभ्रमाणि शैलसुस्थितानि अर्द्धशैलसुस्थितानि कूटाकाराद्यानि सुविधिकोष्ठकानि तथाऽनेकानि गृहाणि शरणानि लयनानि 'अप्पेगे' इति भवनविकल्पा अत्र बहुविकल्पाः, एतेषां च परस्परं विशेषो वास्तुविद्यातोऽवसातव्यः, कथम्भूता एते? इत्याह- 'विडंगे' त्यादि, विटङ्क:- कपोतपाली जालवृन्दं गवाक्षसमूहः निर्यूहो- गृहैकदेशविशेषः अपवरकः -- प्रतीतः चन्द्रशालिका-शिरोगृहं, एवंरूपाभिर्विभक्तिभि कलिताः, तथैव गृहाकारा अपि द्रुमगणा अनेकबहुविविधविश्रसापरिणतेन भवनविधिनेति सम्बन्धः, किंविशिष्टेन ? इत्याह- 'सुहारुहणसुहोत्ताराए' इति सुखेनारोहणं - ऊर्ध्व गमनं सुखेनोत्तारःअधस्तादवतरणं यस्य दर्दरसोपानपङ्क्त्यादिभिः सुखारोहसुखोत्तारस्तेन, तथा सुखेन निष्क्रमणं प्रवेशश्च यत्र स सुखनिष्क्रमणप्रवेशस्तेन, कथं सुखारोहसुखोत्तारः ? इत्याह- दर्दरसोपानपङ्किकलितेन हेतौ तृतीया, ततोऽयमर्थः - यतो दर्दरसोपानपङ्किकलितस्ततः सुखारोहसुखोत्तारः, 'पतिरिक्कसुहविहाराए' प्रतिरिक्ते - एकान्ते सुखविहारः - अवस्थानशयनादिरूपो यत्र प्रतिरिक्तसुखविहारस्तेनोपपेता, सर्वत्र स्त्रत्वनिर्देशः प्राकृतत्वात् कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपकाः ९ ॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवोऽनग्नका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 'जहा से' इत्यादि, आजिनकं नाम चर्ममयं वस्त्र क्षोमं - कर्पासिकं कम्बलः - प्रतीतः दुकूलं वस्त्र जातिविशेषः कौसेयं त्रसरितन्तुनिष्पन्नं कालमृगपट्टः - कालमृगचर्म अंशुकचीनांशुकानि - दुकूलविशेषरूपाणि पट्टानि प्रतीतानि आभरणचित्राणि आभरणैश्चित्राणि - विचित्राणि आभरणचित्राणि 'सण्ह' इति श्लक्ष्णानि कल्याणकानि - परमवस्त्रलक्षणोपेतानि गम्भीराणि निपुणशिल्पिनिष्पादिततयाऽलब्धस्वरूपमध्यानि 'नेहल' त्ति स्नेहलानि - स्निग्धानि 'गया (ज) लानि' उद्वेल्यमानानि परिधीयमानानि वा गर्जयन्ति, शेषं सम्प्रदायादवसातव्यं, तदन्तरेण For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy