________________
२९२
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८५ 'वनमालाकयग्गए चेवेति वनमाला-चन्दनमाला कृताऽग्रे यस्य तद् वनमालाकृताग्रं तथाभूतं सद्दीप्यमानं, यथैव चित्राङ्गका अपिनामद्रुमगणा अनेकबहुविविधविसापरिणतेन ग्रन्थिमवेष्टिमपूरिसङ्घातिमने चतुर्विधेन माल्यविधिनोपपेताः कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि यावत्प्रतिरूपकाः६
___'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे चित्ररसा नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !, यथा तत्परमानं-पायसं भवेदिति सम्बन्धः, किंविशिष्टमित्याह-ये सुगन्धाः-प्रवरगन्धोपेताः, समासान्तविधेरनित्यत्वादत्रैतद्रूपस्य समासान्तस्याभावो यथा सुरभिगन्धेन वारिणा इत्यत्र, वराः-प्रधाना दोषरहितक्षेत्रकालादिसामग्रीसंपादितात्मलाभा इति भावः, कमलशालितन्दुलाः, यच विशिष्टं विशिष्टगवादिसम्बन्धि निरुपहतमिति-पाकादिभिराविनाशितं दुग्धं तै राद्धं-पक्वंपरमकलशालिभिः परमदुग्धेन च यथोचितमात्रापाकेन निष्पादितमित्यर्थ, तथा शारदं घृतं गुडः खण्डं मधु वा शर्करापरपर्यायं मेलितंयत्र तत् शारदधृतगुडखण्डमधुमेलितं, निष्ठान्तस्य परनिपातः प्राकृतत्वात् सुखादिदर्शनाद्वा, अत एवातिरसमुत्तमवर्णगन्धवत्, यथा वा राज्ञश्चक्रवर्तिनो भवेत् कुशलै सूपपुरुषैः-सूपकारः पुरुषैः सज्जितो-निष्पादितःचतुष्कल्पसेकसिक्त इवादनः, चत्वारश्च कल्पाः सेकविषया रसवतीशास्त्रभिज्ञेभ्यो भावनीयाः,स चौदनः किंविशिष्टः ? इत्याह
कलमशालिनिवर्तितः-कलमशालिमयो विपको-विशिष्टपरिपाकमागतः, 'सबाप्फमिउविसयसकलसित्थे' इति सबाष्पानि-बाष्पं मुञ्चवन्ति मृदूनि-कोमलानि चतुष्कल्पसेकादिना परिकर्मितत्वात् विशदानि सर्वथा तुषादिमलापगमात् सकलानि-परिपूर्णानि सित्थूनि यत्र स सवाष्पमृदुविशदसकलसित्युः, अनेकानि यानि शालनकानि-पुष्पफलप्रभृतीनि तैः संयुक्तःसमुपेतोऽनेकशालनकसंयुक्तः, तथा चामोदक इति सम्बन्धः, किंविशिष्टः ? इत्याह -
परिपूर्णानि-समस्तानि द्रव्याणि-एलानभृतीनि उपस्कृतानि-नियुक्तानि यत्र स परिपूर्णद्रव्योपस्कृतः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, सुसंस्कृतो-यथोक्तमात्राग्निपरितापादिना परमसंस्कारमुपनीतः, वर्णगन्धरसस्पर्शयुक्तबलवीर्यपरिणाम इतिवर्णगन्धरसस्पर्शे सामथ्यादतिशायिभिर्युक्ताः-सहिता बलवीर्यहेतवः परिणामा यस्य स तथा, अतिशायिभिर्वर्णादिभिर्बलवीयहतुपरिणामैश्चोपपेताइतिभावः,तब बलं-शारीरंवीर्यं आन्तरोत्साहः, 'इंदियबलपुद्विवद्धणे' इति, इन्द्रियाणां-चक्षुरादीनां बलं-स्वस्वविषयग्रहणपाटवमिन्द्रियबलं तस्य पुष्टि अतिशायी पोष इन्द्रियबलपुष्टिसतांवर्द्धयति, नन्द्यादित्वादनः, इन्द्रियबलपुष्टिबर्द्धनः, तथा क्षुच पिपासा च क्षुत्पिपासे तयोर्मथनः क्षुत्पिपासामथनः, तथा प्रधानः-कथितो यो गुडो यद्वा कथितं-प्रधानं खण्डं यदिवा कथिता प्रधाना मत्स्यण्डी-खण्डशर्करा यच्च प्रधानं धृतं तानि उपनीतानि-योजितानि यस्मिन्सप्रधानकथितगुडखण्डमत्स्यण्डीधृतोपनी तः,निष्ठान्तस्य परनिपातोऽत्रापिसुखादिदर्शनात्, सइव मोदकः श्लक्ष्णसमितिगर्भ-अतिश्लक्ष्णकणिश्चमूलदलः प्रज्ञप्तः, तथैव चित्ररसा अपि दुमगणा अनेकबहुविविधविसापरिणतेन भोजनविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्तो यावप्रतिरूपाः ७)
'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे ता ता देशमा नत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org