________________
प्रतिपत्तिः - ३, दीव०
- स्निग्धं-मनोहरं तेजो यासां ताः स्निग्धतेजसः, तथा दीप्यमानो- रजन्यां भास्वान् विमलोऽत्र धूत्याद्यपगमेन ग्रहगणो-- ग्रहसमूहस्तेन समा प्रभा यासां ता दीप्यमानविमलग्रहणसमप्रभाः, ततः पदद्वयपदद्वयमीलनेन कर्म्मधारयसमासः, सहसाप्रज्वालितोत्सर्पितस्निग्धतेजोदीप्यमान- विमलग्रहगणसमप्रभास्ताभि, तथा वितिमिराः करा यस्यासौ वितिमिरकरः सचासौ सूरश्च वितिमिरकरसूरस्तस्येव यः प्रसरति उद्योतः - प्रभासमूहस्तेन 'चिल्लियाहिं' ति देशीपदमेतद् दीप्यमानाभिरित्यर्थ, ज्वाला एव यदुज्ज्वलं प्रहसितमिव प्रहसितं तेनाभिरामा - अभिरमणीया ज्वालोज्ज्वलप्रहसिताभिरामास्ताभि, अत एव सोभमानाभि शोभमानाः, तथैव दीपशिखा अपि द्रुमगणा अनेकबहुविविधविश्वसापरिणतोद्योतविधिनोपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वदं यावत् प्रतिरूपा इति ४
'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो ज्योतिषिका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! यथा तद् अचिरोद्गतं शरदि र्यमण्डलं यदिवा यथैतद् उल्कासहं यथा वा दीप्यमाना विद्युत् अथवा यथा निर्धूसज्वलितं उज्वलः-उद्गता ज्वाला यस्य स तथा हुतवहः, सूत्रे च पदोपन्यासव्यत्ययः प्राकृतत्वात्, ततः सर्वेषामेषां द्वन्द्वः समासः, कथम्भूता एते ? इत्याह- 'निद्धंतधोये त्यादि, निर्मातेन-नितरामग्निसंयोगेन यद् धौतं-शोधितं तप्तं च तपनीयं ये च किंशुकाशोकजपाकुसुमानां विमुकुलितानांविकसितानां पुआः ये च मणिरत्नकिरणाः यश्च जात्याहिङ्गुलकनिकरस्तद्रूपेभ्यो प्यतिरेकेणअतिशयेन यथायोगं वर्णतः प्रभयाच रूपं-स्वरूपं येषां ते निर्ध्यातधौततप्ततपनीयकिंशुकाशीकमापाकुसुमविमुकुलितपुञ्जमणिरत्न-किरणजात्यहिङ्गुलकनिकररूपातिरेकरूपाः, ततः पूर्वपदेन विशेषणसमासः, तथैव ते ज्योतिषिका अपि द्रुमगणा अनेकबहुविविधविश्रसा परिणतेनोद्या'तविधिनोपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् ५ ।
-
'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवश्चित्राङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! यथा तत् प्रेक्षागृहं विचित्रं नानाविधचित्रोपेतम्, अतएव रम्यं रमयति मनांसि द्रष्टणामिति रम्यं, बाहुलकात् कर्तरि यप्रत्ययः, वराश्च ताः कुसुमदाममालाश्च - ग्रथितकुसुममाला वरकुसुमदाममालास्ताभिरुज्वलं देदीप्यमानत्वाद् वरकुसुमदाममालोज्वलं, तथा भास्वान् विकसिततया मनोहरतया च देदीप्यमानो मुक्तो यः पुष्पपुञ्जोपचारस्तेन कलितं भास्वन्मुक्तपुष्पपुञ्जपचारकलितं, ततः पूर्वपदे विशेषणसमासः, तथा विरल्लितानि - विरलीकृतानि विचित्राणि यानि माल्यानि ग्रथितपुष्पमालास्तेषां यः श्रीसमुदयस्तेन प्रगल्भं अतीव परिपुष्टं विरल्लितविचित्रमाल्यश्रीसमुदयप्रगल्भं, तथा ग्रन्थिमंयत् सूत्रेण ग्रथितं वेष्टिमं यत्पुष्पमुकुट इवि उपर्युपरिशिखराकृत्या मालास्थापनं पूरिमं यल्लधुच्छिद्रेषु पुष्पनिवेशेन पूर्यते सङ्घातिमं यत्पुष्पं पुष्पेण परस्परं नालप्रवेशेन संयोज्यते ।
-
२९१
--
Jain Education International
- ग्रन्थिमं च वेष्टिमं च पूरिमं च सङ्घातिमं चेति समाहारो द्वन्द्वस्तेन माल्येन छेकशिल्पिनापरमदक्षेण शिल्पिना विभागरहितेन यद्यत्र योग्यं ग्रन्थिमं पूरिमं सङ्घातिमं च तत्र तेन सर्वतः - सर्वासु दिक्षु समनुबद्ध, तथा प्रविरलै - लम्बमानैः, तत्र विरलत्वं मनागप्यसंहतत्वमात्रेण भवति ततो विप्रकृष्टत्वप्रतिपादनार्थमाह- विप्रकृष्टैः - बृहदन्तरालैः पञ्चवर्णे कुसुमदामभि शोभमानं
For Private & Personal Use Only
www.jainelibrary.org