________________
२९०
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८५ शतिकापिरलीवच्चकपरिवादिनीवंशवेणुवीणासुघोषाविपञ्चीमहतीकच्छभीरिगसिका, तत्रालिङ्गय वाद्यत इतिआलिङ्गयः मुरवः-वाद्यविशेषः, एषयकारन्तशब्दः, मृदङ्गो लघुमर्दलः, पणवो-भाण्ड पडहोलघुपटहोवापटहः-प्रतीतः, दर्दरकोऽपितथैव, करटी-सुप्रसिद्धा, डिण्डिमः-प्रथमप्रस्तावनासूचकः पणवविशेषः, भम्मा ढक्का, होरम्मा-महाढक्क, कणिता-काचिद् वीणा, खरमुखीकाहला, मकुन्दो-मरुवाद्यविशेषो योऽभिलीनं प्रायो वाद्यते, शशिका-लघुशङ्करूपा तस्याः स्वरो मनाक्तीक्ष्णो भवतिनतुशङ्खस्येवातिगम्भीरः, पिप्लीवचकौतृणरूपवाद्यविशेषौ, परिवादिनीसप्ततन्त्रीवीणा वंशः-प्रतीतो वेणुः-वंशविशेषः सुघोषा-वीणाविशेषः, विपञ्ची-तन्त्री वीणामहतीशततन्त्रिका, कच्छभी रिगसिका च लोकतः प्रत्येतव्या, एताः कथम्भूताः ? इत्याह___'तलतालकंसतालसुसंपउत्ता' तलं-हस्तपुटं तालाः-प्रतीताः कांस्यतालाः-कंसालिया एतैः 'सुसंप्रयुक्ताः' सुष्टु-अतिशयेन सम्यग-यथोक्तनीत्या प्रयुक्ताःसंबद्धा आतोद्यविषयाआतोद्यभेदाः, पुनः कथम्भूताः ? इत्याह-निउणगंधव्वसमयकुसलेहि फंदिया' इति, निपुणं यता भवति एवं गन्धर्वसमये-नाटयसमये कुशलास्तैः स्पन्दिता-व्यापारिता इति भावः, पुनः किंविशिष्टाः? इत्याह-त्रिस्थानकरणशुद्धाः' आदिमध्यावसानरूपेषुत्रिषुस्थानेषुकरणेन-क्रयया यथोक्तवादनक्रयया शुद्धाअवदातानपुनरवस्थानव्यापारणरूपदोषलेशेनापिकलङ्कित्ताः, तथैव तेतुटिताङ्गकाअपिद्रुमगणा अनेकबहुविविधविनसापरिणतेन, अस्यव्याख्यानं प्राग्वत्, ततविततघनशुषिरेण' ततं-वीणादिकं विततं-पटहादिकं घनं-कांस्यतालादिशुषिरं-वंशादि, एतद्रूपेण चतुर्विधेनातोद्यविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूलाः मूलवन्त इत्यादि प्राग्वद् यावप्रतिरूपकाः३।
'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशेबहवोदीपशिखा नामद्रुमगणाः प्रज्ञप्ताहेश्रमण! हे आयुष्मन्! यतातत् सन्ध्याविरागसमये सन्ध्यारूपो विरुद्धस्तिमिररूपत्वाद्रागः सन्ध्याविरागस्तत्समये-तदवसरेनवनिधिपतेःचक्रवर्तिन इव दीपिकाचक्रवालवृन्द-हस्वो दीपो दिपीका तासां चक्रवालं-सर्वं परिमण्डलरूपं वृन्दंदीपिकाचक्रवालवृन्दं, कथम्भूतमित्याह-'प्रभूतवर्ति' प्रभूता-बहुसङ्ख्याकाः स्थूरा वा वर्तयो यत्रतत्तथा,तता पलित्तनेहंतिपर्याप्तः-प्रतिपूर्ण स्नेहातैलादिरूपोयस्य तत्पर्याप्तस्नेहं, 'धणिउजालिए' इति धणियं-अत्यर्थमुजवालितम्, अत एव तिमिरमर्दकं-तिमिरनाशकं, पुनः किंविशिष्टमित्याह :। 'कणगनिगरणकुसुमियपारियातगवणप्पवासे' कनकस्य निगरणं कनकनिगरणं गालितंकनकमिति भावः कुसुमितं च तत्पारिजातकवनंच कुसुमितपारिजातकवनं ततो द्वन्द्वसमास-स्तद्वत्प्रकाशः-प्रभा आकारोयस्य तत्कनकनिगरणपारिजातकुसुमवनप्रकाशम्, एतावता समुदायविशेषणमुक्तम्, इदानीं समुदायसमुदायिनोः कथञ्चिभेद इति ख्यापनयन समुदायविशेषणमेव विवक्षु समुदायिविशेषणान्याह-'कंचणमणिरयणे'त्यादि, दीपिकाभिः शोभमानमिति सम्बन्धः, कथम्भूताभिर्दीपिकाभि? अत आह-काञ्चनमणिरलानां काञ्चनमणिरत्नमया विमलाः-स्वाभाविकागन्तुकमलरहितामहार्हा-विचित्रा-विचित्र-वपिता दण्डा यासांताः काञ्चनमणिरलविमलमहार्हविचित्रदण्डास्ताभि, तथा सहसा-एककालं ज्वालिताश्च ता उत्सर्पिताश्च तयुत्सर्पणेन सहसाप्रज्वालितोत्सर्पिताः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org