SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, दीव० २८९ सुराविशेषः, शतायुनर्नाम या शतवारान् शोधिताऽपि स्वस्वरूपं न जहाति, 'खजूरमुद्दियासार' इति अत्रापि सारशब्दः प्रत्येकमभिसंबध्यते, खजूरसारोमृद्वीकासारः, तत्र ण (मूलदलखर्जूरसारनिष्पन्न आसवविशेषः खजूरसारः, मृद्वीकाद्राक्षा तत्सारनिष्पन्नआसवविशेषोमृद्वीकासारः, कापिशायितं-मधिशेषः, सुष्कः-सुपरिपा-कागतोयः क्षोदरसःइक्षुरसस्तनिष्पन्नावरसुरा सुपक्चक्षोदरसवरसुरा, कथम्भूताएतेमधवशेषाः? इत्याह-वन्नगंधरसफासजुत्तबलविरियपरिणामा' वर्णेन सामथ्यादतिशायिनाएवंगन्धेन रसेनस्पर्शेनचयुक्ताः-सहिता बलवीर्यपरिणामा-बलहेतवो वीर्यपरिणामा येषां ते तथा, किमुक्तं भवति? परमाशितशयसंपन्नैर्वर्णगन्धरसस्पर्शर्बलहेतुभिर्वीर्यपरिणामैश्चोपेता इति, पुनः किंवि शिष्टाः? इत्याह-'बहुप्रकाराः' बहवः प्रकारा येषां जातिभेदेन ते बहुप्रकाराः, तथैव मत्ताङ्गका अपिद्रुमगणा मद्यविधिनोपपेता इतियोगः, किंविशिष्टेन मद्यविधिना? इत्यतआह-'अनेगबहुविविहवीससापरिणयाए इतिन एकः अनेकः, तत्रानेकः अनेकजातीयोऽपि व्यक्तिभेदाद्भवति ततआह-बहु-प्रभूतं विविधो-जातिभेदान्नानाप्रकारोबहुविविधःप्रभूतजातिभेदतो नानाविध इति भावः, सचकेनापि निष्पादितोऽपिसंभाव्यतेतत आहविश्रसयास्वभावेन तथा विधक्षेत्रादिसामग्रीविशेषजनितेन परिणतोनपुनरीश्वरादिना निष्पादितो विश्रसापरिणतः, ततः पदत्रयस्य पदद्वयपदद्वयमीलनेन कर्मधारयः, सूत्रे च स्त्रित्वनिर्देशः प्राकृतत्वात्, तेच मद्यविधिनोपपेता न ताडादिवृक्षा इहाङ्कुरादिषु किन्तु फलेषु तथा चाह-'फलेहिंपुण्णा बीसंदंति' अत्र सप्तम्यर्थे तृतीया व्यत्ययोऽप्यासा मितिवचनात्, फलेषुमद्यविधिभिरितिगम्यते पूर्णा संभृताः 'विष्यन्दन्ति' नवन्ति, सामथ्यार्ततानेवानन्तरोदितान्मद्यविधीन्, कचित् विसङ्गृति' इति पाठस्तत्रविकसन्तीति व्याख्येयं, किमुक्तं भवति?- तेषां फलानि परिपाकागतमद्यविधिभि पूर्णानि स्फुटित्वा तान् मद्यविधीन्मुञ्चन्तीति, कुशविकुशविशुद्धवृक्षमूलाः, मूलवन्त' इत्यादि प्राग्वद्यावत्प्रतिरूपका १। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो भृङ्गाङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! जहा से' इत्यादि, यथा ते करकघटककलशकर्करीपादकाचनिकाउदङ्कवार्धनीसुप्रतिष्टकविष्ठरपारीचषकभृङ्गारककरोटिकासरकपरकपात्रीस्थालम ल्लचपलितददकवारकविचित्रपट्टकशुक्तिचारुपीनका भाजनविधयः, एते प्रायः प्रतीताः, नवरं पादकाञ्चनिक-पादधावनयोग्या काञ्चनमयी पात्री उदको-येनोदकमुदच्यते वार्डानी-गलन्तिका सरो-वंशमयच्छिक्क शिक्काकृतिअप्रतीता लोकतो विशिष्ट संप्रदायाद्वाऽवसातव्याः, कथम्भूताः ? इत्याह-काञ्चनमणिरलभक्तिचित्राः, पुनः कथम्भूताः? इत्याह-बहुप्रकाराः, एकैकस्मिन् विधाववान्तरानेकभेदभावात, तथैवते भृङ्गाङ्गका अपिद्रुमगणाः ‘अनेगबहुविविधविस्ससापरिणयाए' इत्यस्य व्याख्यापूर्ववत्भाजनविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् द्यावप्रतिरूपाः२। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवस्तुटिताङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !, 'जहा से इत्यादि यथाते आलिङ्गय(मुरव)मृदङ्गपणवपटहदर्दरककरटिडिण्डिमभम्माहोरम्माकणिताखरमुखीमकुन्द. [9119 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy