SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १८५ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहव उद्दालाः कोद्दाला मोद्दालाः कृतमाला नृत्तमाला वृत्तमाला वृत्तमाला दन्तमालाः श्रृङ्गमालाः शङ्खमालाः श्वेतमाला नाम 'द्रुमगणाः' द्रुमजातिविशेषसमूहाः प्रज्ञप्ताः तीर्थकरगणधरैः हे श्रमण ! हे आयुष्मन् !, ते च कथम्भूताः ? इत्याह-- कुशविकुशविशुद्धवृक्षमूला इत्यादि प्राग्वद् यावत् 'पडिमोयणा सुरम्मा' इति । 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवस्तिलका लवकाः छत्रोपगाः शिरीषाः सप्तपर्णा लुब्धाः धवाः चन्दनाः अर्जुनाः नीपाः कुटजाः कदम्बाः पनसाःशालाः तमालाः प्रियालाः प्रियङ्गवः पारापता राजवृक्षा नन्दिवृक्षाः, तिलकादयो लोकप्रतीताः, एते कथम्भूताः ? इत्याहकुशविकुशविशुद्धवृक्षमूला इत्यादि सर्वं प्राग्वद् यावत् 'पडिमोयणा सुरम्मा' इति । 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बह्वयः पद्मलता नागलता अशोकलताश्चम्पकलताश्चूतलता वनलता वासन्तिकलताअतिमुक्तकलताः कुन्दलताः श्यामलताः, एताः सुप्रतीताः, 'निच्चं कुसुमियाओ' इत्यादि विशेषणजातं प्राग्वत् 'जाव पडिरूवाओ' इति । 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य देशस्य तत्र तत्र प्रदेशे बह्वयो वनराजयः प्रज्ञप्ताः, इहैकानेकजातीयानां वृक्षाणां पङ्कयो वनराजयस्ततः पूर्वोक्तसूत्रेभ्योऽस्य भिन्नार्थतेति न पौनरुक्तयं, ताश्च वनराजयः प्रज्ञप्ताः कृष्णाः कृष्णावभासा इत्यदि विशेषणजातं प्राग्वत् तावद्वक्तव्यं यावत् 'अनेगरहजाणजुग्गगिल्लिथिल्लिसीयसंद- माणियजाव पडिरूवाओ' इति । ૨૮૮ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो मत्ताङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !, किंविशिष्टास्ते ? इत्याह-यथा 'से चंदप्पभमणिसलाग' इत्यादि, यता चन्द्रप्रभादयो मद्यविधयो बहुप्रकारास्तत्र चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा, मणिशलाकेव मणिशलाका, वरं च तत् सीधुच वरसीधु, वराच सा वारुणीच वरवारुणी 'सुजायपुन्नपुप्फफलचोयनिज्जाससार बहुदव्वजुत्तिसंभारकालसंधिय आसव' इति इहासवः - पत्रादिवासकद्रव्यभेदादनेकप्रकारः । - तथा चोक्तं प्रभापनायां लेश्यापदे रसचिन्तावसरे - 'पत्तासवेइ वा पुप्फासवेइ वा फलासवेइ वाचोयासवेइ वा' ततोऽत्र निर्याससारशब्दः पत्रादिभि सह प्रत्येकमभिसम्बन्धनीयः, पत्रनिर्याससारः पुष्पनिर्याससारः फलनिर्यास सारश्चोयनिर्याससारः, तत्र पत्रनिर्यासो - धातकीपत्ररसस्त - व्यधान आसवः पत्रनिर्याससारः, एवं पुष्पनिर्याससारः फलनिर्याससारश्च परिभावनीयः, चोयोगन्धद्रव्यं तन्निर्याससारश्चोयनिर्याससारः, सुजाताः - सुपरिपाकागताः, 'बहुद्रव्ययुक्तिसंभारा' इति बहूनां द्रव्याणामुपबृंहकाणां युक्तयो - मीलनानि तासां संभारः - प्राभूत्यं येषु ते बहुद्रव्ययुक्तिसंभाराः, पुनः कथम्भूताः ? इत्याह- 'कालसंधिय' इति कालसन्धिताः सन्धानं सन्धा काले- स्वस्वोचिते सन्धा कालसन्धा सा संजातैषामिति कालसन्धिता, तारकादिदर्शनादितप्रत्ययस्ततः पदद्वयपदद्वयमीलनेन विशेषणसमासः, सुजातपत्रपुष्पफलचोयनिर्याससारबहुद्रव्ययुक्तिसम्भारकालसन्धितासवाः, मधुमेरकौ - मद्यविशेषी, 'रिष्ठरत्नवर्णाभा' रिष्ठा या शास्त्रन्तरे जम्बूफलकलिकेति प्रसिद्धा, दुग्धजाति - आस्वादतः क्षीरसद्दसी, प्रसन्ना सुराविशेषः, नेल्लकोऽपि For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy