________________
प्रतिपत्तिः - ३, दीव०
२९९
केवलं छोटिता अपि तथास्वभावतया शाल्मलीबोण्डाकारवद् घननिचिता अवतिष्ठन्ते तत एतद्विशेषणोपादानं, तथा मृदवः - अकर्कशा विशदा - निर्मलाः प्रशस्ताः - प्रशंसास्पदीभूताः सूक्ष्माः - लक्ष्णाः लक्षणा - लक्षणवन्तः सुगन्धाः परमगन्धकलिता अत एव सुन्दराः, तथा भुजमोचको - रत्नविशेषः भृङ्गः प्रतीतः नीलो - मरकतमणि कज्जलं - प्रतीतं प्रहृष्टः - प्रमुदितो भ्रमरगणः प्रहृष्टभ्रमरगणः प्रहृष्टो हि भ्रमरगणस्तारुण्यावस्थायां भवति तदानीं चातिकृष्ण इति प्रह्वष्टग्रहणं, तद्वस्निग्धा भुजमोचक भृङ्गनीलकज्जलप्रह्वष्टभ्रमरगणस्निग्धाः, तथा निकुरम्बानिकुरम्बीभूताः सन्तो निचिता न तु विस्तृताः सन्तः परस्परसंहता निकुरम्बनिचिता ईषत्कुटिलाः प्रदक्षिणावर्त्ताश्च मूर्द्धनि शिरोजा-वाला येषां ते साल्मलीबोण्डधननिचितच्छोटितमृदुविशदप्रशस्तसूक्ष्मलक्षणसुगन्धसुन्दरभुजमोचकभृङ्गनीलकज्जलप्रह्वष्टभ्रमरगणस्निग्ध निकुरम्बिनिचितप्रदक्षिणावर्त्तमूर्दधशिरोजाः, 'लक्खणवंजणगुणोववेया' लक्षणानि - स्वस्तिकादीनि व्यञ्जनानिमषतिलकादीनि गुणाः - क्षान्त्यादयस्तैरुपपेता-युक्ता लक्षणव्यञ्जनगुणोपपेताः 'सुजायसविभत्तसुरूवगा' सुजातं - सुनिष्पन्नं जन्मदोषरहितत्वात् सुविभक्तं- अङ्गप्रत्यङ्गोपाङ्गानां यतोक्तवैविक्त्यभावात् सुरूपं - शोभनं समुदायगतं येषां ते सुजातसुविभक्तसुरूपकाः 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ।
'उत्तरकुराए णं भंते! कुराए' इत्यादि, उत्तरकुरुषु भदन्त ! कुरुषु मनुजीनां कीदृश आकाभावप्रत्यवतारः स्वरूपसम्भव इति भावः प्रज्ञप्तः ?, भगवानाह - गौतम ! ता मनुष्यः सुजातसर्वाङ्गसुन्दर्य-सुजातानि - यथोक्तप्रमाणोपेततया शोभनजन्यानि यानि सर्वाण्यङ्गानि - उदरप्रभृतीनि तैः सुन्दर्य - सुन्दराकाराः सुजातसर्वाङ्गसुन्दर्य - सुजातानि - यथोक्तप्रमाणोपेततया शोभनजन्यानि यानि सर्वाण्यङ्गानि - उदरप्रभृतीनि तैः सुन्दर्य-सुन्दराकाराः सुजातसर्वाङ्गसुन्दर्य 'पहाणमहेलागुणजुत्ताओ' प्रधाना- अतिशायिनो ये महेलागुणाः - प्रियंवदत्वभर्तृचित्तानुवर्त्तकत्वप्रभृतयस्तैर्युक्ताः उपपेताः प्रधानमहेलागुणयुक्ताः 'कंतविसयमिउसुकुमाल - कुम्मसंठिवियसिट्ठचलणा' कान्ती - कमनीयौ विशदौ-निर्मलौ मृदू - अकठिनौ सुकुमारौ - अकर्कशो कूर्मसंस्थितौ - कूर्मवदुन्नतौ विशिष्टौ - विशिष्टलक्षणोपेतौ चरणौ यासां ताः कान्तविशदमृदुसुकुमारकूर्मवदुन्नतसंस्थितविशिष्टचरणाः 'उज्जुमउयपीवरपुट्टसाहयंगुलीओ' ऋजवः अवका मृदवःअकठिनाः पीवरा - अकृशाः पुष्टा - मांसलाः संहताः - सुश्लिष्टा अङ्गुलयो यासां ता ऋजुमृदुकपीवरपुष्टसंहताङ्गुलयः । 'उन्नयरतियतलिनतंबसुइनिद्धनखा' उन्नता - ऊर्द्धनता रतिदा- रमणीयास्तलिनाः- प्रतलास्ताम्रा - ईषद्रक्ताः शुचयः - पवित्राः स्निग्धाः स्निग्धच्छाया नखा यासां ता उन्नतरतिदतलिन- ताम्रशुचिस्निग्धनखाः 'रोमरहियवट्टलट्ठसंठियअजहन्नपसत्थलक्खणजंघाजुयला' रोमरहितं वृत्तं वर्त्तुलं लष्टसंस्थितं - मनोज्ञसंस्थानं क्रमेणोर्द्ध स्थूरस्थूरतरमिति भाव, अजघन्यप्रशस्तलक्षणं - जघन्यपदरहित शेषप्रशस्तलक्षणाङ्कितं जङ्घायुगलं यासां ता रोमरहित वृत्तलष्टसंस्थिता जघन्यप्रशस्तलक्षणजङ्घायुगलाः 'सुनिम्मियगूढजाणुमंडलसुबद्धा' सुष्ठु अतिशयेन निर्मितः सुनिर्मितः एवं सुगूढं - मांसलतयाऽनुपलक्ष्यमाणं जानुमण्डलं सुबद्धं स्नायुभिरतीव बद्धं यासां ताः सुनिर्मितसुगूढजानुमण्डलसुबद्धाः, सुबद्धशब्दस्य निष्ठान्तस्य परनिपातः सुखादिदर्शनात् प्राकृतत्वाद्वा ।
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org