SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २८४ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८३ व्यतिव्रज्येति वाच्यम् । सम्प्रति विजयादिद्वाराणां परस्परमन्तरं प्रतिपिपादयिषुरिदमाह_ 'जंबुद्दीवस्स ण'मित्यादि, प्राग्वत् भदन्त ! द्वीपस्य सम्बन्धिनो द्वारस्य च द्वारस्य चैतत् कियटप्रमाणा-बाधया-अन्तरित्वा प्रतिघातेनान्तरं प्रज्ञप्तम्?, भगवानाह-गौतम! एकोनाशीति र्योजनसहस्राणि द्विपञ्चाशद्योजनानिदेशोनंचाईयोजनं द्वारस्य च द्वारस्यचाबाधयाऽन्तरं प्रज्ञप्तं, तथाहि-चतुर्णामपि द्वाराणां प्रत्येकमेकैकस्य कुड्यस्य द्वारशाकापरपर्यायस्य बाहल्यं गव्यूतं द्वाराणां च विस्तारः प्रत्येकं २ चत्वारि २ योजनानि, ततश्चतुर्ध्वपि द्वारेषु सर्वसङ्ख्यया कुडयद्वारप्रमाणमष्टादश योजनानि, जम्बूद्वीपस्य च पिरिधिस्तिस्र लक्षाः षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके क्रोशत्रयं अष्टाविंशं धनुःशतं त्रयोदशाङ्गुलानि एकमर्धाङ्गुल मिति। अस्माच्च जम्बूद्वीपपरिधेः सकाशात्तानि कुडयद्वारपरिमाणभूतान्यष्टादश योजनानि शोध्यन्ते, शोधितेषुचतेषु परिधिसत्को योजनराशिरेवंरूपोजातः-तिम्रोलक्षाः षोडशसहस्राणि द्वेशतेनवोत्तरे शेषं तथैव, ततो योजनराशेश्चतुर्भिर्भागो ह्रियते, लब्धानियोजनानामेकोनाशीति सहस्राणि द्विपञ्चाशदधिकानि गव्यूतं चैकं क्रोशं १, यानि च परिधिसत्कानि त्रीणि गव्यूतानि तानिधनुसत्वेन क्रियन्ते लब्धानि धनुषांषट् सहस्राणि, यदपिच परिधिसत्कमष्टाविंशं धनुःशतं तदप्येतेषु धनुःषु मध्ये प्रक्षिप्यते, ततो जातो धनराशिरेकषष्टि शतान्यष्टाविंशत्यधिकानि एषां चतुर्भिर्भागो हियते, लब्धानि धनुषांपञ्चदश शतानि द्वात्रिंशदधिकानि यान्यपिच त्रयोदशाङ्गुलानि तेषामपि चतुर्भिर्भागो हियते, लब्धानि त्रीणि अङ्गुलानि, एतदपि सर्वं देशोनमेकं गव्यूतमिति लब्धं देशोनमर्द्धयोजनं, उक्तंच॥१॥ "कुड्डदुवारपमाणं अट्ठारस जोयणाइं परिहीए। सोहिय चउहि विभत्तं इणमो दारंतरं होइ ।। ॥२॥ अउणासीइ सहस्सा बावन्ना अद्धजोयणं नूनं । दारस्स य दारस्स य अंतरमेयं विनिद्दिई ।। मू. (१८४) जंबुद्दीवस्स णं भंते ! दीवस्स पएसा लवणं समुदं पुट्ठा?, हंता पुट्ठा । तेणं भंते ! किं जंबुद्दीवे २ लवणसमुद्दे ?, गोयमा ! जंबुद्दीवे दीवे नो खलु ते लवणसमुद्दे । लवणस्स णं भंते ! समुदस्स पदेसा जंबूद्दीवं दीवं पुट्टा ?, हंता पुट्ठा । ते णं भंते ! किं लवणसमुद्दे जंबूद्दीवे दीवे ?, गोयमा! लवणे णं ते समुद्दे नो खलु ते जंबुद्दीवे दीवे । जंबुद्दीवेणं भंते ! देवी जीवा उद्दाइत्ता २ लवणसमुद्दे पच्चायंति?, गोयमा! अत्थेगतिया पञ्चायंति अत्यंगतिया नो पञ्चायति । लवणे णं भंते ! समुद्दे जीवा उद्दाइत्ता २ जंबुद्दीवे २ पन्चायंति?, गोयमा! अत्थेगतिया पञ्चायति अत्यंगतिया नो पञ्चायति ।। वृ. जंबूद्दीवस्स गंभंते!' इत्यादि, जम्बूद्वीपस्यणमितिपूर्ववत् भदन्त! द्वीपस्य प्रदेशाः' स्वसीमागतचरमरूपा लवणं समुद्रं 'स्पृष्टाः ?' कतरिक्तप्रत्ययः, स्पृष्टवन्तः, काक्वा पाठ इति प्रश्नार्थत्वावगति, पृच्छतश्चायमभिप्रायः यदि स्पृष्टास्तर्हि वक्ष्यमाणं पृच्छयते नो चेत्तर्हि नेति भावः, भगवानाह-हंतेत्यादि, 'हन्त' इति प्रत्वधारणे स्पृष्टाः । एवमुक्ते भूयः पृच्छति-'ते ण'मित्यादि, ते भदन्त ! स्वसीमागतचरमरूपाः प्रदेशाः किं जम्बूद्वीपः ? किं वा लवणसमुद्रः ?, इह यद् येन संस्पृष्टं तत्किञ्चित्तद्वयपदेशमश्नुवानमुपलब्ध www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy