________________
प्रतिपत्तिः- १,
कोबा (
३८.२००९
सुज्ञानः ।। गतं दर्शनद्वारे, ज्ञानद्वारमाह- 'ते णं भंते जीवा' इत्यादि, अज्ञानत्वं मिथ्याष्टित्वात्, तदपि चाज्ञानत्वं मत्यज्ञानश्रुताज्ञानापेक्षया, तथा चाह- 'नियमा दुअन्नाणी' त्यादि पाठसिद्धं, नवरं तदपि मत्यज्ञानं श्रुताज्ञानं च शेषजीवबादरादिराश्यपेक्षयाऽत्यन्तमल्पीयः प्रतिपत्तव्यं, यत उक्तम्119 11
“सर्वनिकृष्टो जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदापर्याप्तानां स च भवति विज्ञेयः ॥ तस्मात्प्रभृति ज्ञानविवृद्धिर्दृष्टा जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रियवाग्मनोऽग्भिः ॥
योगद्वारमाह-‘तेणं भंते' इत्यादि पाठसिद्धम् ।। गतं योगद्वारमधुनोपयोगद्वारं, तत्रोपयोगी द्विविधः - साकारोऽनाकारश्च तत्राकारः - प्रतिवस्तु प्रतिनियतो ग्रहणपरिणाः “आगारो उ विसेसो" इति वचनात्, सह आकारो यस्य येन वा स साकरो ज्ञानपञ्चकमज्ञानत्रिकं, यथोक्ताकारविकलोऽनाकारः, स चक्षुर्दर्शनादिको दर्शनचतुष्टयात्मकः, उक्तं च"ज्ञानाज्ञाने पञ्च त्रिविकल्पे सोऽष्टधा तु साकारः । चक्षुरचक्षुरवधिकेवलग्विषयस्त्वनाकारः ।। "
119 11
॥२॥
२५
तत्र क एषामुपयोगः ? इति जिज्ञासुः पृच्छति - 'ते णं भंते!' इत्यादि निगदसिद्धं, नवरं साकारोपयोगोपयुक्ता मत्यज्ञानश्रुताज्ञानोपयगापेक्षया, अनाकारोपयोगोपयुक्ता अचक्षुर्दर्शनोपयोगापेक्षयेति ।। साम्प्रतमाहारद्वारमाह- 'ते णं भंते इत्यादि, 'ते' सूक्ष्मपृथिवीकायिकाः णमिति वाक्यालङ्कारे भदन्त! जीवाः किमाहारमाहारयन्ति ?, भगवानाह - गौतम ! 'द्रव्यतो' द्रव्यस्वरूपपर्यालोचनायामनन्तप्रादेशिकानि द्रव्याणि, अन्यथा ग्रहणासम्भवात्, न हि सङ्ख्यातप्रदेशात्मका असङ्ख्यातप्रदेशात्मका वा स्कन्धा जीवस्य ग्रहणप्रयोग्या भवन्ति, क्षेत्रतोऽसङ्ख्यातप्रदेशावगाढानि, कालतोऽन्यतरस्थितिकानि - जघन्यस्थितिकानि मध्यमस्थितिकानि उत्कृष्टस्थितिकानि चेति भावार्थ, स्थितिरिति चाहारयोग्यस्कन्धपरिणामत्वेऽवस्थानं प्रत्येतव्यम् ।
आह च मूलटीकाकारः-“कालतोऽन्यतरस्थितीनि तद्भावावस्थानेन जघन्यादिरूपां स्थितिमधिकृत्ये 'ति, भावतो वर्णवन्ति गन्धवन्ति रसवन्ति स्पर्शवन्ति च प्रतिपरमाण्वेकैकवर्णगन्धरसद्विसपर्शभावात्, “एवं जहा पन्नवणाए" इत्यादि, 'एवम्' उक्तेन प्रकारेण यथा प्रज्ञापनायामष्टाविंशतितमे आहारपदे प्रथमोद्देशके तावद्वक्तव्यं यावत् "सिय तिदिसिं सिय चउदिसिं सिय पंचदिसि' मिति, तच्चैवम्- "जाई भावतो वण्णमंताई आहारेति ताई किं एगवण्णाई आहारेंति जाव पंचवण्णाई आहारेति ?, गोयमा ! ठाणमग्गणं पडुच्च एगवण्णाईपि आहारेंति जाव पंचवण्णाई पि आहारेंति, विहाणमग्गणं पडुच्च कालवण्णाइंपि आहारेति जाव सुक्किल्लवण्णाइंपि आहारेति, जाई कालवण्णाइंपि आहारेति ताई किं एगगुणकालाई आहारेति जाव दसगुणकालाई आहारेति संखिजगुणकालाई आहारेंति असंखेजगुणकालाई आहारेति अनंतगुणकालाई आहा०?, गोयमा ! एगगुणकालाईपि आहारेंति जाव अनंतगुणकालाईपि आहारेंति एवं जाव सुकिल्लाइंपि आहारेति, एवं गंधतोवि रसतोवि ।
जाई भावतो फासमंताई आहारेति ताइं किं एगफासाई आहारेति दुफासाई आहारेंति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International