________________
२४
जीवाजीवाभिगमउपाङ्गसूत्रम् १/-१४
कइसमइए पन्नत्ते?, गोयमा ! असंखेजसमइए अंतमुहुत्ते, एवं जाव आहारगसमुग्घाए ।
केवलिसमुग्धाए णं भंते! कइसमइए पन्नते?, गोयमा ! अट्ठसमइए पन्नत्ते ।।" इति, तदेवमनेकसमुद्घातसम्भवे सूक्ष्मपृथिवीकायिकानां तान् पृच्छति-'तेसिणं भंते' इत्याद सुगम, नवरं वैक्रियाहारकतैजसकेवलिसमुद्घातभावो वैक्रियादिलब्ध्यभावात् ।। गतं समुद्घातद्वारं, सम्प्रति संज्ञाद्वारमाह-'ते णं भंते' इत्यादि, 'ते' सूक्ष्मपृथिवीकायिकाः णमिति वाक्यालङ्कारे भदन्त ! किं संज्ञानोऽसंज्ञानो वा?, संज्ञानं संज्ञा-भूतभवद्भाविभावस्वभावपर्यालोचनं सा विद्ये येषां ते संज्ञनः-विशिष्टस्मरणादिरूपमनोविज्ञानभाज इत्यर्थ, यथोक्तमनोविज्ञानविकला असंज्ञनः?,अत्र भगवानिर्वचनमाह-गौतम! नो संज्ञानः, किन्त्वसंज्ञानः, विशिष्टमनोलब्ध्यभावात्, हेतुवादोपदेशेनापिनसंज्ञानः, अभिसंधारणपूर्विकायाः करणशक्तेर-भावात्, इहासंज्ञा इत्येव सिद्धे नो संज्ञान इति प्रतिषेधः प्रतिषेधप्रधानो विधिरयमिति ज्ञापनार्थ, प्रतिपाद्यस्य प्रकृतिसावधत्वादिति । गतं संज्ञाद्वारं, वेदनाद्वारमाह।
तेणंभंते!' इत्यादि । इस्थिवेयगा' इतिस्त्रियाः वेदो येषांते स्त्रीवेदकाः, एवं पुरुषवेदका नपुंसकवेदका इत्यपि भावनीयं, तत्र स्त्रियाः पुंस्यभिलाषः मवेदः, पुंसः स्त्रियामभिलाषः पुंवेदः, उभयोरप्यभिलाषोनपुंसकवेदः, भगवानाह-गौतम! नास्त्रिवेदकानपुरुषवेदकाः, नपुंसकवेदकाः संमूर्छिमत्वात्, ‘नारकसंमूर्छिमा नपुंसका' इति भगवद्वचनम् ।। पर्याप्तिद्वारमाह-"तेसिणं मंते' इत्यादि, सुगम, पर्याप्तिप्रतिपक्षाअपर्याप्तिस्तन्निरूपणार्थमाह
'तेसि णं भंते !' इत्यादि पाठसिद्धं, नवरं चतस्प्रेऽप्यपर्याप्तयः करणापेक्षया द्रष्टव्याः, लब्ध्यपेक्षया त्वेकैव प्राणापानापर्याप्ति, यस्मादेवमागमः-इह लब्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव नियन्ते नार्वाक्, यत आगामिभवायुर्बद्धा नियन्ते सर्व एव देहिनः, तच्चाहारशरीरेन्द्रियपर्याप्तानामेव बन्धमायातीति ।। सम्प्रति दृष्टिद्वारमाह
'तेणंभंते!' इत्यादि सुगम, नवगं सम्यग्-अविपरीता दृष्टि-जिनप्रणीतवस्तुतत्वप्रतिपत्तिर्येषां ते सम्यग्दृष्टयः, मिथ्या-विपर्यस्ता दृष्टिर्येषां भक्षितह्यत्पूरपुरुषस्य सितेपीतप्रतिपत्तिवत् मिथ्याध्ष्टयः, एकान्तसम्यग्रूपमिथ्यारूपप्रतिपत्तिविकलाः सम्यग्मिथ्यादृष्टयः, निर्वचनसूत्र-- 'गोयमे त्यादि, सुगम, नवरं सम्यग्दृष्टित्वप्रतिषेधः सासादनसम्यक्त्वस्यापि तेषामसम्भवात्, सासादनसम्यक्त्ववतां तन्मध्ये उत्पादाभावात्, ते ह्यतिसंलिष्टपरिणामाः, सास्वादनसम्यक्त्वपरिणामस्तुमनाशुभ इतितन्मध्ये सासादनसम्यक्त्ववतामुत्पादाभावः, अत एव सदा संक्लिष्टपरिणाभत्वात्तेषां सम्यग्मिथ्याष्टित्वपरिणामोऽपिन भवति, ज्ञापि सम्यग्मिथ्याष्टि सन्तन्मध्ये उत्पद्यते, “न सम्ममिच्छो कुणइ कालं" इति वचनात् । गतं दृष्टिद्वारमधुना दर्शनद्वारमाह
दर्शनं नाम सामान्यविशेषात्मके वस्तुनि सामान्यावबोधः, तच्चतुर्धा, तद्यथा-चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं च, तत्र सामान्यविशेषात्मके वस्तुनि चक्षुषा दर्शनरूपसामान्यपरिच्छेदश्चक्षुर्दर्शनम्, अचक्षुषा-चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शन- मचक्षुर्दर्शनम्, अवधिरेव दर्शनं रूपिसामान्यग्रहणमवधिदर्शनं, केवलमेव दर्शन-सकलजगद्भावि-वस्तुसामान्यपरिच्छित्तिरूपं केवलदर्शनं, तत्र किमेषां दर्शनमिति जिज्ञासुः पृच्छति
'तेणंभंते' इत्यादि पाठसिद्ध, नवरमचक्षुर्दर्शनित्वंस्पर्शनेन्द्रियापेक्षया, शेषदर्शनप्रतिषेधः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org