________________
प्रतिपत्तिः - 9, 119 11
२३
“पंचेंदिओ उ बउल नरो व्व सव्वविस ओवलंभाओ । तहवि न भण्णइ पंचिंदिउ त्ति बज्झिंदियाभावा ॥" - ततो द्रव्येन्द्रियमधिकृत्य निर्वचनसूत्रमाह - 'गोयमे' त्यादि सुगमम् । गतमिन्द्रियद्वारमधुना समुद्घातद्वारं, तत्र समुद्घाताः सप्त तद्यथा-वेदनासमुद्घातः १ कषायसमुद्घातः २ मारणसमुद्घातः ३ वैक्रियसमुद्घातः ४ तैजसमुद्घातः ५ आहारकसमुद्घातः ६ केवलिसमुद्घातश्च ७, तत्र वेदनायाः समुद्घातो वेदनासमुद्घातः, स चासातवेदनीयकर्माश्रयः १, कषायेण - कषायोदयेन समुद्घातः कषायसमुद्घातः, स च कषायचारित्रमोहनीयकर्माश्रयः २, मरणे भवो मारणः, स चासौ समुद्घातश्च मारणसमुद्घातः ३, वैक्रिये प्रारभ्यमामे समुद्घातो वैक्रियसमुद्घातः, स च वैक्रियशरीरनामकर्माश्रयः ४, ( तैजसेन हेतुभूतेन समुद्घातस्तैजसमुद्घातः तैजसशरीरनामकर्माश्रयः) ५, आहारके प्रारभ्यमाणे समुद्घात आहारकसमुद्घातः, स चाहारकशरीरनामकर्माश्रयः ६, केवलिनि अन्तर्मुहूर्तभाविपरमपदे समुद्घातः केवलिसमुद्घातः ७ ।
अथ समुद्घात इति कः शब्दार्थ ?, उच्यते-समिति - एकीभावे उत्- प्राबल्ये एकीभावेन प्राबल्येन घातः समुद्घातः, केन सह एकीभावगमनम् ? इति चेद्, उच्यते, अर्थाद्वदनादिभिः, तथाहि--यदा आत्मा वेदनादिसमुद्घातगतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवति नान्यज्ञानपरिणतः, प्राबल्येन घातः कथम् ? इति चेद्, उच्यते, इह वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मपुद्गलान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदयावलिकायां प्रक्षिप्यानुभूयानुभूय निर्जरयति, आत्मप्रदेशेभ्यः शातयतीति भावः, तत्र वेदनासमुद्घातगत आत्म वेदनीयकर्मपुद्गलपरिशातं करोति, तथाहि - वेदनाकरालितो जीवः स्वप्रदेशानन्तानन्तकर्मपरमाणुवेष्टितान् शरीराद्बहिरपि विक्षिपति, तैश्च प्रदेशैर्वदनजघनादिरन्ध्राणि कर्णस्कन्धाद्यन्तरालानि चापूर्यायामतो विस्तरतश्च शरीरमात्रं क्षेत्रमभिव्याप्यान्तर्मुहूर्त्त यावदवतिष्ठते, तस्मिंश्चान्तहूर्ते प्रभूतासात वेदनीयकर्मपुद्गलपरिशातं करोति, कषायसमुद्घातसमुद्धतः कषायाख्यचारित्रमोहनीयकर्मपुद्गलपरिशातां करोति ।
तथाहि कषायोदयसमाकुलो जीवः स्वप्रदेशान् बहिर्विक्षिप्य तैर्वदनोदरादिरन्ध्राणि कर्णस्कन्धायन्तरालानि चापूर्यायामविस्तराभ्यां देहमात्रं क्षेत्रमभिव्याप्य वर्त्तते, तथाभूतश्च प्रभूतकषायकर्मपुद्गलपरिशातं करोति, एवं मरणसमुद्घातगत आयुः कर्मपुद्गलपरिशातं करोति, वैक्रियसमुद्घातगतः पुनर्जीवः स्वप्रदेशान् शरीराद्बहिर्निष्काश्य शरीरविष्कम्भबाहल्यमानमायामतः सङ्घयेययोजनप्रमाणं दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति, तथा चोक्तम् - "वेउव्वियसमुग्धाए णं समोहणइ २ त्ता संखिज्जाई जोयणाई 'दंड निसिरइ, निसिरित्ता अहाबायरे पुग्गले परिसाडेइ" इति ।
तैजसाहारकसमुद्घातौ वैक्रियसमुद्घातवदवसायी, केवलं तैजससमुद्घातगतस्तैजशरीरनामकर्मपुद्गलपरिशातं करोति, आहारकसमुद्घातगत आहारकशरीरनामकर्मपुद्गलपरिशातं करोति, केवलिसमुद्घातसमुद्धतस्तु केवली सदसद्वेदनीयशुभाशुभनामोच्चनीचैर्गोत्रकर्मपुद्गलपरिशातं (करोति), केवलिसमुद्घातवर्जा शेषाः षडपि समुद्घातः प्रत्येकमान्तमौहूर्त्तिकाः, केवलिसमुद्घातः पुनरष्टसामयिकः, उक्तं च प्रज्ञापनायाम् - "वेयमासमुग्धाए णं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org