________________
२२
जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/१४
स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्त्तते ॥"
॥१॥
साच षोढा, तद्यथा - कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या च, आसां च स्वरूपं जम्बूफलाखादकषट्पुरुषषध्यन्तेनैवावसातव्यम्"पंथाओ परिभट्ठा छप्पुरिसा अडविमज्झयारंमि । जंबूतरुस्स हेट्ठा परोप्परं ते विचिंतेति ॥ निम्मूलखंधसाला गोच्छे पक्के य पडियसडियाई । जह एएसिं भावा तह लेसाओवि नायव्वा ॥
अमीषां च सूक्ष्मपृथिवीकायिकानामतिसंक्लिष्टपरिणामत्वाद्देवेभ्यः सूक्ष्मेष्वनुत्पादाच्चाद्या एव तिस्रः कृष्णनीलकापोतरूपा लेश्याः, न शेषा इति ।
गतं लेश्याद्वारमिदानीमिन्द्रियद्वारमाह- 'तेसिण' मित्यादि, इन्द्रियं नाम 'इदु परमैश्वर्ये' 'उदितः' इति नम्, इन्दनादिन्द्रः - आत्मा सर्वोपलब्धिरूपपरमैश्वर्ययोगात् तस्य लिङ्गं चह्नमविनाभावि इन्द्रियम्, 'इन्द्रिय' मिति निपातनसूत्राद्रूपनिष्पत्ति, तत्पञ्चधा, तद्यथा-श्रोत्रेन्द्रियं चक्षुरिन्द्रियं जिह्वेन्द्रियं घ्राणेन्द्रियं स्पर्शनेन्द्रियं च, एकैकमपि द्विधा - द्रव्येन्द्रियं भावेन्द्रियं च द्रव्येन्द्रियं द्विधा- निर्वृत्तिरूपमुपकरणरूपंच, तत्र निर्वृत्तिर्नाम प्रतिविशिष्टः संस्थानविशेषः, साऽपि द्विधाबाह्याऽभ्यन्तरा च, तत्र बाह्या कर्णपर्पटिकादिरूपा, सा च विचित्रा न प्रतिनियतरूपतया निर्देष्टुं शक्यते, तथाहि - मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्श्वतोभाविनी ध्रुवावुपरितन श्रवणबन्धापेक्षया समे, वाजिनो नेत्रयोरुपरि तीक्ष्णे चाग्रभागे इत्यादि, अभ्यन्तरा तु निर्वृत्ति सर्वेषामप्येकरूपा, तामेवाधिकृत्य चामूनि सूत्राणि प्रावर्त्तिषत
"सोइंदिए णं भंते किंसंठाणसंठिए पन्नत्ते ?, गोयमा ! कलंबुयासंठाणसंठिए पन्नत्ते, चक्खिदिए णं भंते! किंसंठाणसंठिए पन्नत्ते ?, गोयमा ! मसूरचंदसंठाणसंठिए पन्नत्ते, घाणिंदिए णं भंते! किंसंठाणसंठिए पन्नत्ते ?, गोयमा ! अइमुत्तसंठाणसंठिए पन्नत्ते, जिब्भिदिए णं भंते ! किंसंठाणसंठिएपन्नत्ते ?, गोयमा ! खुरप्पसंठाणसंठिए पन्नत्ते, फार्सिदिए गं भंते! किंसंठाणसंठिए पन्नत्ते ?, गोयमा ! नाणासंठाणसंठिए पन्नत्ते ॥” इति ।
॥१॥
इह स्पर्शनेन्द्रियनिर्वृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, तत्वार्थमूलटीकायामनभ्युपगमात्, उपकरणं नाम खड्गस्थानीयाया बाह्यनिर्वृत्तेर्या खड्गधारास्थानीया स्वच्छतरपुद्गलसमूहात्मिकाऽभ्यन्तरा निर्वृत्तिस्तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात्, कथञ्चिद्भेदश्च सत्यामपि तस्यामान्तरनिर्वृत्तः द्रव्यादिनोपकरणस्योपघातसम्भवात्, तथाहि - सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तराय निर्वृत्तौ महाकठोरतरघनगर्जितादिना शक्त्युपघाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति, भावेन्द्रियमपि द्विधा- लब्धिरुपयोगश्च तत्र लब्धिः श्रोत्रेन्द्रियादिविषयस्तदावरणक्षयोपशमः, उपयोगः स्वस्वविषये लब्ध्यनुसारेणात्मनः परिच्छेदव्यापारः, तत्र यद्यपि द्रव्यरूपं भावरूप चेत्थमिन्द्रियमनेकप्रकारं तथाऽपीह बाह्यनिर्वृत्तिरूपमिन्द्रियं पृष्टमवगन्तव्यं, तदेवाधिकृत्य व्यवहारप्रवृत्तेः, तथाहि-- बकुलादयः पञ्चेन्द्रिया इह भावेन्द्रियपञ्चकविज्ञानसमन्विता अनुमानत प्रतीयन्ते तथाऽपि न ते पञ्चेन्द्रिया इथि व्यवह्रियन्ते, बाह्येन्द्रियपञ्चकासम्भवात् उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org