________________
प्रतिपत्ति:- १,
बन्ध एव केवलस्तन्नाराचसंज्ञं तृतीयं संहननं ३, यत्र पुनरेकपार्श्वे मर्कटबन्धो द्वितीये च पार्श्वे कीलिका तदर्द्धनाराचं चतुर्थं संहननं ४, तथा यत्रास्थीनि कीलिकामात्रबद्धानि तत्कीलिकाख्यं पञ्चमं संहननं ५, तथा यत्रास्थीनि परस्परं छेदेन वर्त्तन्ते न कीलिकामात्रेणापि बन्धस्तत् षष्ठं छेदवर्त्ति, तच प्रायो मनुष्यादीनां नित्यं स्नेहाभ्यङ्गादिरूपां परिशीलानामपेक्षते ६ ।
इत्थं षोढा संहननसम्भवे संशयः - तेषां शरीराणि किंसंहननानि प्रज्ञप्तानि ? इति, भगवानाह गौतम ! छेदवर्त्तिसंहननानि प्रज्ञप्तानि, अयमन्त्राभिप्रायः - यद्यपि सूक्ष्मपृथिवीकायिकानामस्थ्यभावस्तथाऽप्यौदारिकशरीरिणामस्थ्यात्मकेन संहननेन यः शक्तिविशेष उपजायते सोऽप्युपचारात्संहननमिति व्यवहियते, शक्तिविशेषश्चात्यन्तमल्पीयान् सूक्ष्मपृथिवीकायिकानामप्यत्योदारिकशरीरित्वात्, जघन्यश्च शक्तिविशेषश्छेदवर्त्तिसंहननविषय इति तेषामपि छेदवर्त्तिसंहननमुक्तम् ॥ गतं संहननद्वारं सम्प्रति संस्थानद्वारमाह
'तेसिणं भंते!' इत्यादि सुगमं, नवरं 'मसूरगचंदसंठिया' इति, मसूरकाख्यस्य- धान्यविशेषस्य यच्चन्द्राकृति दलं स मसूरकचन्द्रस्त्वदनुसंस्थितानि मसूरकचंद्रसंस्थितानि, अत्रायं भावार्थ - इह जीवानां षट् संस्थानानि तानि च समचतुरनादीनि वक्ष्यमाणलक्षणानि तेषामाद्यानि पञ्च संस्थानानि मसूरचन्द्रकाकारे न संभवन्ति, तल्लक्षणायोगात्, तत इदं मसूरचन्द्रकाकारं संस्थानं हुण्डं प्रतिपत्तव्यं, सर्वत्रासंस्थितत्वरूपस्य तल्लक्षणस्य योगात्, जीवनां संस्थानान्तराभावाच्च, आह च मूलटीकाकारः–“संस्थानं मसूरचन्द्रकसंस्थितमपि हुण्डं, सर्वत्रासंस्थितत्वेन तल्लक्षणयोगात्, जीवानां संस्थानान्तराभावाच्चे' 'ति ।। गतं संस्थानद्वारमधुना कषायद्वारमाह
'तेसि णं भंते!' इत्यादि, तेषां भदन्त ! सूक्ष्मपृथ्वीकायिकानां कति कषायाः प्रज्ञप्ताः ?, तत्र कषाया नाम कष्यन्ते - हिंस्यन्ते परस्परमस्मिन् प्राणिन इति कषः - संसारस्तमयन्ते - गच्छन्त्येभिजन्तव इति कषायाः -- क्रोधादयः परिणामविशेषाः, तथा चाह - 'गोयमे' त्यादि सुगमं, नवरं क्रोधःअप्रतीपरिणामः मानो - गर्वपरिणामः माया - निकृतिरूपा लोभो-गार्द्धर्यलक्षणः, एते च क्रोधादयोऽमीषां मन्दपरिणामतयाऽनुपदर्शितबाह्य शरीरविकारा एवानाभोगतस्तथा तथा वैचित्र्येण भवन्तः प्रतिपत्तव्याः । गतं कषायद्वारं संज्ञाद्वारमाह
२१
'तेसिण' मित्यादि सुगमं, नवरं संज्ञानं सज्ञा, सा च द्विधा - ज्ञानरूपाऽनुभवरूपा च तत्र ज्ञानरूपा मतिश्रुतावधिमनः पर्यायकेवलभेदात्पञ्चप्रकारा, तत्र केवलसंज्ञा क्षायिकी शेषास्तु क्षायोपशमिक्यः, अनुभवसंज्ञा - स्वकृतासातवेदनीयादिकर्मविपाकोदयसमुत्था, इह प्रयोजनम नुभवसंज्ञया, ज्ञानसंज्ञायास्तद्दारेण परिगृहीतत्वात्, तत्राहारसंज्ञाञा नाम आहारा भिलाषः क्षुद्वेदनीयप्रभवः स्वल्वात्मपरिणामविशेषः, एषा चासात वेदनीयोदयादुपजायते, 'भयसंज्ञा' भयवेदनीयोदयजनितत्रासपरिणामरूपा, 'परिग्रहसंज्ञा' लोभविपाकोदयसमुत्थ- मूर्च्छापरिणामरूपा, 'मैथुसंज्ञा' वेदोदयजनिता मैथुनाभिलाषः, एताश्चतनोऽपि मोहनीयोदय- प्रभवाः, एता अपि सूक्ष्मपृथ्वीकायिकानामव्यक्तरूपाः प्रतिपत्तव्याः ।
गतं संज्ञाद्वारमधुना लेश्याद्वारमाह- 'तेसिणमित्यादि सुगमं, नवरं लिश्यति - श्लिष्यते आत्मा कर्मणा सहानयेति लेश्या - कृष्णादिद्रव्यसाचिव्यादात्मनः शुभाशुभपरिणामः, उक्तं च"कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः ।
119 11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org