________________
जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/१४
एतच्चाहारकं कदाचनापि लोके सर्वथाऽपि न भवति, तच्चाभवनं जघन्यत एकं समयमुत्कर्षतः षण्मासान् यावत्, उक्तं च
॥१॥
" आहारगाइ लोगे छम्मासा जा न होंतिवि कयाई । उक्कोसेणं नियमा एक्कं समयं जहन्त्रेणं ॥"
२०
आहारकं च शरीरं वैक्रियशरीरापेक्षयाऽयन्मशुभं स्वच्छस्फटिकशिलेव शुभ्रपुद्गलसमूहात्मकं ३, तथा तेजसां - तेजः पुद्गलानां विकारस्तैजसं 'विकार' इत्यण्, तत् औष्मलिङ्गं भुक्ताहारपरिणमनकारणं, ततश्च विशिष्टतपः समुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमः, उक्तंच" सव्वस्स उम्हसिद्धं रसाइआहारपाकजणगं च । तेयगलद्धिनिमित्तं च तेयगं हइ नायव्वं ॥ ४ ॥
119 11
तथा कर्मणो जातं कर्मजं, किमुक्तं भवति ? - कर्मपरमाणव एवात्मप्रदेशैः सह क्षीरनीरवदन्योऽन्यानुगताः सन्तः शरीररूपतया परिणताः कर्मजं शरीरमिति, अत एवैतदन्यत्र कार्मणमित्युक्तं, कर्मणो विकारः कार्मणमिति, तथा चोक्तम्
119 11
"कम्मविकारो कम्मणमट्ठविहविर्चित्तकम्मनिष्पन्नं । सव्वेसिं सरीराणं कारणभूयं मुणेयव्वं ॥
अत्र 'सव्वेसि' मति सर्वेषामौदारिकादीनां शरीराणां कारणभूतं - बीजभूतं कार्मणं शरीरं, न खल्वामूलमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषिशेषशरीरप्रादुर्भावः, इदं च कर्मजं शरीरं - बीजभूतं कार्मणं शरीरं, न खल्वामूलमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावः, इदं च कर्मजं शरीरं जन्तोर्गत्यन्तरसङ्क्रान्तौ साधकतमं कारणं, तथाहिकर्मजेनैव वपुषा तैजससहितेन परिकरितो जन्तुर्मरणदेशमपहायोत्पत्तिदेशमभिसर्पति, ननु यदि तैजस सहित कार्मण वपुः परिकरितो गत्यन्तरं संक्रमति तर्हि स गच्छन्नागच्छन् कस्मान्न दृष्टिपथमवतरति ?, उच्यते, कर्मपुद्गलानां तैजसपुद्गलानां चातिसूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात्, तथा च परतीर्थिकैरप्युक्तम्
119 11
"अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलभ्यते ।
निष्क्रामन् प्रविशन् वाऽपि नाभावोऽनीक्षणादपि ॥"
एतेषां पञ्चानां शरीराणां मध्ये यानि त्रीणि शरीराणि सूक्ष्मपृथिवीकायिकानां तानि नामग्राहमुपदर्शयति - तंजहा - ओरालिए तेयए कम्मए, वैक्रियाहारके तु तेषां न संभवतो, भवस्वभावत एव तल्लब्धिशून्यत्वात् । अघुनाऽवगाहनाद्वारमाह-- 'तेसिणं भंते!' इत्यादि सुगमं, नवरं जधन्यपदोत्कृष्टपदयोस्तुल्यश्रुतावपि जघन्यपदादु- त्कृष्टपदमधिकमवसातव्यम् ।
संहननद्वारमाह- तेसिणमित्यादि, तेषां भदन्त ! जीवानां शरीरकाणि किंसंहननानि प्रज्ञप्तानि ?, संहननं नामास्थिनिचयरूपं तच्च षोढा, तद्यथा-वज्रऋषभनाराचं ऋषभनाराचं नाराचमर्द्धनाराचं कीलिका छेदवर्त्तिच, तत्र वज्रं - कीलिका ऋषभः परिवेष्टनपट्टः नाराचस्तूभयतो मर्कटबन्धः ततश्च द्वयोरस्थोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृति गच्छता तृतीयेनास्था परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाख्यं वज्रनामकमस्थि यत्र भवति तद्वऋषभनाराचसंज्ञं प्रथमं संहननं १, यत्पुनः कीलिकारहितं संहननं तत् ऋषभनाराचं द्वितीयं संहननं २, तथा यत्रास्थोर्मर्कट
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
,