SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, दीव० २५९ 'तीसे णमित्यादि, तस्या उपपातसभाया उत्तरपूर्वस्यां दिक्षि अत्र महानेको ह्रदः प्रज्ञप्तः, अर्द्धत्रयोदश योजनान्यायामेन षड्योजनानि शक्रोनि विष्कम्भेन दश योजनान्युद्वेधेन 'अच्छे सण्हे रययाकूले' इत्यादि नन्दापुष्करिणीवत्सनिरवशेषं वाच्यं, तथा चाह–'आयामुव्वेहेणं विक्खंभेणं वन्नओ जो चेवा नंदापुक्खरिणीण मिति । "तीसे ण'मित्यादि, स हद एकया पद्मवरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तासंपरिक्षिप्तः, पद्मवरवेदिकाया वर्णनं वनषण्डवर्णनं च तावद्द्यावत् 'तत्थणं बहवे वाणमंतरा देवायदेवीओयआसयंतिजावविहरंती'ति,तस्य हृदस्य त्रिदिशि तिसृषुदिक्षत्रिसोपानप्रतिरूपकाणि प्रज्ञाप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणांतोरणानांच (वर्णनं पूर्ववत्) तस्सण मित्यादि, तस्य हृदस्य उत्तरपूर्वस्यां दिशि अत्र महत्येकाऽभिषेकसभा प्रज्ञप्ता, साऽपि प्रमाणस्वरूपद्वारमुखमण्डपप्रेक्षागृहमण्डपचैत्यस्तूपवर्णनादिप्रकारेण सुधर्मासभावत्तावद्वक्तव्या यावद् गोमानसीवक्तव्यता, तदनन्तरं तथैबोल्लोकवर्णनं भूमिभागवर्णनं च तावद्द्यावन्मणीनां स्पर्श । _ 'तस्स ण'मित्यादि, तस्य बहुसमरमणीयस्य भमिभागस्य बहुमध्यदेशभागे अत्र महत्येका मणिपीठिका प्रज्ञप्ता योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन सर्वात्मना मणिमयी 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥'तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपरिअत्रमहदेक सिंहासनं प्रज्ञप्तं, सिंहासनवर्णकः प्राग्वत्, नवरमत्र परिवारबूतानि भद्रासनानि नवक्तव्यानि । 'तत्थणमित्यादि,तस्मिन सिंहासनेविजयस्यदेवस्ययोग्यं सुबह अभिषेकमाण्डम् अभिषेकोपस्करःसंनिक्षिप्त तिष्ठति, तस्याश्चाभिषेकसभाया उत्तरपूर्वस्यां दिशिअत्र महत्येकाऽ लक्षारसभाप्रज्ञप्ता, साच प्रमाणस्वरूपद्वारत्रयमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनप्रकारेणाभिषेकसभावतावद्वक्तव्या यावदपरिवारं सिंहासनम्। तत्थणमित्यादि, 'तत्र' सिंहासने विजयदेवस्ययोग्यं सुबहु आलङ्कारिकम् अलङ्कारयोग्यं भाण्डं संनिक्षिप्तं तिष्ठति ॥ 'तीसे णमित्यादि, तस्या अलङ्कारसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका व्यवसायसभा प्रज्ञप्ता, सा चाभिषेकसभावप्रमाणस्वरूपद्वारत्रयमुखमण्डपादिवर्णकप्रकारेण तावद्वक्तव्या यावदपरिवारं सिंहासनम्। 'एत्थणमित्यादि, अत्र' सिंहासने महदेकंपुस्तकरलंसंनिक्षिप्तंतिष्ठति, तस्य चपुस्तरक्नस्यायमेतद्रूपः 'वर्णावासः' वर्णकनिवेशःप्रज्ञप्तः-'रिष्ठमय्यौ' रिष्ठरलात्मिके कम्बिके पुष्टके इति भावः, रजतमयो(तपनीयमयो)दवरको यत्र पत्राणि प्रोतानि सन्ति, नानामणिमयो ग्रन्थिदेवरकस्यादौ येन पत्राणि न निर्गच्छन्ति 'अङ्कमयानि' अङ्करत्मयानि पत्राणि नानामणि (वैडूयीमयं लिप्पासनं-मषीभाजनमित्यर्थः, तपनीयमयी श्रृङ्खला मषीभाजनसत्का रिष्ठरलमयमुपरितनंतस्य छादनं 'रिष्ठमयी' रिष्ठरलमयी मषी वज्रमयी लेखिनी रिष्ठमयान्यक्षराणिधार्मिकंलेख्यं, तस्याश्च उपपातसभायाउत्तरपूर्वस्यादिशिमहदेकंबलिपीठंप्रज्ञप्तद्वेयोजने आयामविष्कम्भाभ्यांयोजनमेकं बाहल्येन 'अच्छे सण्हे' इत्यादि विशेषणजातं प्राग्वत्। 'तस्स ण' मित्यादि, तस्य बलिपीठस्य उत्तरपूर्वस्यां दिशिअत्रमहत्येका नन्दापुष्करिणी प्रज्ञप्ता, सा च हृदप्रमाणा, हृदस्येव च तस्या अपि त्रिसोपानवर्णनं तोरणवर्णनं च प्राग्वत्। तदेवं यत्र यागभूताच राजधानी विजयस्य देवस्य तदेतद् उपवर्णितं, सम्प्रति विजयो देवस्तत्रोत्पन्नस्तदा यदकरोद् यथा च तस्याभिषेकोऽभवत्तदुपदर्शयति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy