________________
२४५
प्रतिपत्तिः-३, दीव० स्पर्श, तस्यच बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्रमहद् एकमुपकारिकालयनं प्रज्ञप्तं, राजधानीस्वामिसत्कप्रासादावतंसकादीन् उपकरोति-उपष्टभ्नातीत्युपकारिकाराजधानीस्वामिसत्कप्रासादावतंसकादीनां पीठिका, अन्यत्रत्वियमुपकार्योपकारकेति प्रसिद्धा, उक्तञ्च--"गृहस्थानं स्मृतंराज्ञामुपकार्योपकारका" इति, उपकारिकालयनमिव उपकारिकालयनं तद् द्वादश योजनशतानि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्यां, त्रीणि योजनसहस्राणि सप्त योजनशतानि पञ्चनवतानि-पञ्चनवत्यधिकानि किञ्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तानि, परित्रेपपरिमाणंचेदं प्रागुक्तकरणवशात्स्वयमानेतव्यम्, अर्द्धक्रोशं-धनुःसहस्रपरिमाणंबाहल्येन 'सव्वजंबूणयामए' इति सर्वात्मना जाम्बूनदमयम्, 'अच्छे' इत्यादि विशेषणजातं प्राग्वत् ।।
'से णमित्यादि, 'तद्' उपकारिकालयनम् एकया पद्मवरवेदिकया तत्पृष्ठविन्या एकेन च वनषण्डेन ‘सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तं, पद्मवरवेदिकावर्णको वनषण्डवर्णकः प्राग्वन्निरवशेषो वक्तव्यो यावत् 'तत्य बहवे वाणमंतरा देवा य देवीओ य आसयंति सयंतिजावविहरंति' इति ॥ तस्सण मित्यादि, तस्य उपकारिकालयनस्य चउदिसिंति चतुर्दिशि चतसृषु दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि-- प्रतिविशिष्टरूपाणि त्रिसोपानानि प्रज्ञप्तानि, त्रिसोपानवर्णकः पूर्ववद्वक्तव्यः, तेषां च त्रिसोपानप्रतिरूपकाणांपुरतः प्रत्येकंप्रत्येकं तोरणं प्रज्ञप्तं, तेषां चतोरणानां वर्णनंगाग्वद्वक्तव्यम्
___'तस्सण मित्यादि, तस्य' उपकारिकालयनस्य उपरिबहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'से जहानामए' इत्यादि भूमिभागवर्णनं प्राग्वत्तावद्वाच्यं यावन्मणीनां स्पर्श, तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्येशभागेऽत्र महानेको मूलप्रासादावतंसकः प्रज्ञप्तः, स च द्वाषष्टिोजनानिअर्द्धचयोजनमूर्द्धमुच्चैस्त्वेन, एकत्रिंशतं योजनानिक्रोशं चायामविष्कम्भाभ्याम्, 'अब्बुग्गयमूसियपहसियाविवे' त्यादि, तस्य वर्णनं मध्येभूमिभागवर्णनं सिंहासनवर्णनं शेषाणि च भद्रासनानि तत्परिवारभूतानि विजयद्वारबहिस्थितप्रासादवद्भावनीयानि । _ 'तस्स णमित्यादि, तस्य मूलप्रासादावतंसकस्य बहुमध्यदेशभागेऽत्र महती एका मणिपीठिका प्रज्ञप्ता, सा चैकं योजनमायामविष्कम्माभ्यामर्द्धयोजनं बाहल्येन 'सव्वमणिमयी' इति सर्वात्मना मणिमयी 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'तीसेण मित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेकं सिंहासनं प्रज्ञप्तं, तस्य च सिंहासनस्य परिवारभूतानि शेषाणि भद्रासनानि प्राग्वद्वक्तव्यानि ।। ‘से णमित्यादि, स च मूलप्रासादावतंसकोऽन्यैश्चतुभिर्मूलप्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रैः-मूलप्रासादावतंसकार्बोच्चत्वप्रमाणैः सर्वतः समन्तात्संपरिक्षिप्तः, तदर्बोच्चत्वप्रमाणमेवदर्शयति-एकत्रिंशतं योजनानिक्रोशंचैकमूर्द्धमुच्चैस्त्वेन, पञ्चदश योजनानि अर्द्धतृतीयांश्चक्रोशान्आयामविष्कम्भाभ्यां, तेषामपि अब्भुग्गयमूसियपहसियाविवे' त्यादि स्वरूपवर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं च प्राग्वत्
'तेसि णमित्यादि, तेषां प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं प्राग्वत्, नवरमत्र सिंहासनानां शेषाणि परिवारभूतानि न वक्तव्यानि ।। तेणं पासायवडेंसया' इत्यादि,ते प्रासादावतंसका अन्यैश्चतुर्भि प्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रैः-मूलप्रासादावतंसकपरिवारभूतप्रासादावतंसकार्बोच्चत्वप्रमाणमात्रैर्मूलप्रासादा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org