SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, दीव० २३९ वृ. 'से केणटेणं भंते! एवं वुछइ' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह–'गोयमे'त्यादि, गौतम! विजयेद्वारे विजयोनाम, प्राकृतत्वाद् अव्ययत्वाच्च नामशब्दात्परस्य टावचनस्य लोपस्ततोऽयमर्थः-प्रवाहतोऽनादिकालसन्ततिपतितेन विजय इति नाम्ना देवः 'महर्द्धिकः' महती ऋद्धिः-भवनपरिवारादिकायस्यासौ महर्द्धिकः महाद्युतिकः' महतीधुतिशरीरगताआभरणगता च यस्यासौ महाद्युतिकः तथा महद् बलं-शारीरः प्राणो यस्य स महाबलः, तथा महद् यशःख्यातिर्यस्यासौ महायशाः, महेश इत्याख्या-प्रसिद्धिर्यस्य स महेशाख्यः, अथवा ईशनमीशो भावे धप्रत्ययः एश्वर्यमित्यर्थ 'ईश एश्वर्ये' इति वचनात् तत ईशनमैश्वर्य आत्मनः ख्याति अन्तर्भूतण्यर्थतया ख्यापयति-प्रथयति यः स ईशाख्यः महांश्चासावीशाख्यश्च महेशाख्यः । क्वचित् महासोक्खे' इतिपाठस्तत्रमहत् सौख्यंप्रभूतसद्वेद्योदयवशायस्यसमहासौख्यः पल्योपमस्थितिकः परिवसति,सचतत्रचतुर्णांसामानिकसहस्राणांचतसृणाग्रमहिषीणांसपरिवाराणां प्रत्येकमेकैकसहस्रसङ्ख्यपरिवारसहितानां तिसृणां अभ्यन्तरमध्यमबाह्यरूपाणां यथाक्रममष्टदशद्वादशदेवसहस्रसङ्ग्यकानां पर्षदांसप्तानामनीकानां-हयानीकगजानीकरथानीकपदात्यनीकमहिषानीकगन्धर्वानीकनाट्यानीकरूपाणां सप्तानामनीकाधिपतीनांषोडशानामात्रक्षसहस्राणां विजयस्य द्वारस्य विजयायाराजधान्याअन्येषांचबहूनां विजयराजधानीवास्तव्यानां देवानां देवीनां च आहेवच्चंति आधिपत्यम् अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यारक्षकेणेव क्रियतेतत आह-पुरस्यपतिपुरपतिस्तस्य कर्म पौरपत्यंसर्वेषामग्रेसरत्वमिति भावः, तयाग्रसरत्वंनायकत्वमन्तरेणापिस्वनायकनियुक्ततथाविधगृहचिन्तकसामान्यपुरुषस्येव (स्यात्) ततो नायकत्वप्रतिपत्यर्थमाह __'स्वामित्वं स्वमस्यास्तीति स्वामी तद्भावः स्वामित्वं नायकत्वमित्यर्थ, तदपिचनायकत्वं कदाचित्पोषकत्वमन्तरेणापि भवतियथाहरिणयूथाधिपतेर्हरिणस्यतत आह-भर्तृत्वं-पोषकत्वं 'डुमृञ्धारणपोषणयोः' इति वचनात्, अत एव महत्तरकत्वं, तदपिचेहमहत्तरकत्वंकस्यचिदाज्ञाविकलस्यापि भवति यथा कस्यचिद्वणिजः स्वदासदासीवर्ग प्रति तत आह आणाईसरसेनावच्चं' आज्ञयाईश्वर आज्ञेस्वरः सेनायाःप्रति सेनापतिआज्ञेश्वरश्वासौ सेनापतिश्च आज्ञेश्वरसेनापतिस्तस्यकर्म आज्ञेश्वरसेनापत्यं स्वसैन्यंप्रत्यद्भुतमाशाप्राधान्यमिति भावः ‘कारयन्' अन्यैर्नियुक्तैः पुरुषैः पालयन्स्वयमेव, महता रवेणेतियोगः 'अहय'त्तिआख्यानकप्रतिबद्धानि यदिवा 'अहतानि' अव्याहतानि नित्मयानि नित्यानुबन्धीनीतिभावः,ये नाट्यगीते नाट्यं नृत्यंगीतं-गानंयानिचवादितानि 'तन्त्रीतलतालत्रुटितानि' तन्त्री-वीणातली-हस्ततली तालः कसिलात्रुटितानि-वादित्राणि, तथायश्च धनमृदङ्गः पटुना पुरुषेण प्रवादितः, तत्र धनमृदङ्गो नाम धनसमानध्वनिर्यो मृदङ्गस्तत एतेषां द्वन्द्वस्तेषां रवेण 'देव्यान्' प्रधानान् भोगार्हा भोगाः-शब्दादयो भोगभोगास्तान् भुञ्जानः 'विहरति' आस्ते। ‘से एएणतुण'मित्यादि, तत एतेन 'अर्थेन' कारणेन गौतम ! एवमुच्यते-विजयद्वारे विजयद्वारमिति, विजयाभिधानदेवस्वामिकत्वाद् विजयमिति भावः।। -"विजया राजधानी" अधिकार:मू. (१७३) कहि णं भंते ! विजयस्स देवस्स विजया नाम रायहाणी पन्नता?, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy