SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १७० अपरोत्तरस्यं' वायव्यकोणे उत्तरस्यामुत्तरपूर्वस्यांचविजयदेवस्य संबन्धिनां चतुर्णां सामानिकसहस्राणां चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य पूर्वस्यामत्र विजयस्य देवस्य चतुसृणामग्रमहिषीणां चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणपूर्वस्यामाग्नेयकोण इत्यर्थः । अत्र विजयदेवस्य 'अभ्यन्तरपर्षदाम् अभ्यन्तरपर्षद्रूपाणामष्टानां देवसहस्राणां योग्य अष्ट भद्रासन सहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणस्यां दिशि अत्र विजयदेवस्य मध्यपर्षदो दशानां देवसहस्राणां योग्यानि दश भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणापरस्यां दिशि नैऋतकोण इत्यर्थ अत्र विजयदेवस्य बाह्यपर्षदो द्वादशानांदेवसहस्राणां योग्यानि द्वादश भद्रासनसहस्राणि प्रज्ञप्तानि । २३८ 'तस्स णं सीहासणस्से' त्यादि, तस्य सिंहासनस्य पश्चिमायां दिशि अत्र विजयस्य देवस्य सम्बन्धिनां सप्तानामनीकाधिपतीनां योग्यानि सप्त भद्रासनानि प्रज्ञप्तानि, तस्य सिंहासनस्य 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन अत्र विजयस्य देवस्य संबन्धिनां षोडशानामात्मरक्षदेवसहस्राणां योग्यानि षोडश भद्रासनसहस्राणि प्रज्ञप्तानि, अवशेषेषु प्रत्येकं प्रत्येकं सिंहासनमपरिवारं सामानिकादिदेवयोग्यभद्रासनरूपपरिवाररहितं प्रज्ञप्तम् ॥ मू. (१७१) विजयस्स णं दारस्स उवरिमागारा सोलसविहेहिं रतणेहिं उवसोभिता, तंजहा- रयणेहिं वयरेहिंवेरुलिएहिं जाव रिट्टेहिं । विजयस्स णं दारस्स उप्पिं बहवे अट्ठट्ठगलगा पण्णत्ता, तंजहा- सोत्थितसिरिवच्छ जाव दप्पणा सव्वरयणामया अच्छा जाव पडिरूवा । विजयस्स णं दारस्स उप्पिं बहवे कण्हचामरज्झया जाव सव्वरयणामया अच्छा जाव पडिरूवा । विजयस्स णं दारस्स उप्पं बहवे छततातिच्छत्ता तहेव ।। वृ. 'विजयस्स णमित्यादि, विजयस्य द्वारस्य 'उवरिमाकारा' इति उपरितन आकारःउत्तरङ्गादिरूपः षोडशविधै रत्नैरुपशोभितः, तद्यथा - रत्नैः सामान्यतः कर्केतनादिभि १ वज्रः २ वैडूर्यं ३ लोहिताक्षैः ४ मसारगल्लैः ५ हंसगर्भे ६ पुलकैः ७ सौगन्धिकैः ८ ज्योतीरसैः ९ अर्कैः १० अञ्जनैः ११ रजतैः १२ जातरूपैः १३ अञ्जनपुलकैः १४ स्फटिकैः १५ रिष्ठैः १६ । 'विजयस्स ण'मित्यादि, विजयस्य द्वारस्य उपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्र०, तद्यथेत्यादिना तान्येवोपदर्शयति- 'सव्वरयणामया' इत्यादि प्राग्वत् ॥ मू. (१७२) से केणट्टेणं भंते! एवं बुच्चति ? - विजए णं दारे २, गोयमा ! विजए णं दारे विजए नाम देवे महिडीए महज्जुतीए जाव महाणुभावे पलिओवमट्ठितीए परिवसति । सेणं तत्थ चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयस्स णं दारस्स विजयाए रायहाणीए अन्नेसिं च बहूणं विजयाए रायहाणीए वत्थव्वगाणं देवाणं देवीणय आहेवच्चं जाव दिव्वाई भोगभोगाई भुंजमाणे विहरइ । से तेणट्टेणं गोयमा ! एवं वुञ्चति-विजये दारे विजये दारे, [ अदुत्तरं च णं गोयमा ! विजयस्स णं दारस्स सासए नामधेज्जे पन्नत्ते जन्न कयाइ नत्थि न कयाइ न भविस्सति जाव अवट्ठिए निचे विजए दारे ] ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy