SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २३६ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१६९ रलकरण्डकौ प्रज्ञप्तौ, ‘से जहा नामए' इत्यादि, सयथा नाम-राज्ञश्चतुरन्तचक्रवर्तिनः, चतुर्युपूर्वापरदक्षिणोत्तररूपेषु पृथ्वीपर्यन्तेषु चक्रेण वर्तितुं शीलं यस्य तस्य 'चित्रः' आश्चर्यभूतो नानामणिमयत्वेन नानावोवा वेरुलियमणिकालियपडलपञ्चोयडे' इति बाहुल्येन वैडूर्यमणिमयः, तथा ‘स्फाटिकपटलप्रयवतटः' स्फाटिकपटलमयाच्छादनः 'सायपभाए' इति स्वकीयया प्रभया 'तान्' प्रत्यासन्नान् प्रदेशान् ‘सर्वतः' सर्वासु दिक्षु ‘समन्ततः' सामस्त्येनावभासयति, एतदेव पर्यायत्रयेण व्याचष्टे-उद्योतयति तापयति प्रभासि, ‘एवमेवे'त्यादि सुगमम् ।। _ 'तेसि णं तोरणाण'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ 'हयकण्ठौ' हयकण्ठप्रमाणौ रलविशेषौ," एवं सर्वेऽपि कण्ठावाच्या इति, तथा चाह ‘सव्वरयणामया' सर्वे 'रलमयाः' रलविशेषरूपा 'अच्छा' इत्यादिप्राग्वत् ।। तेसि णमित्यादि, तेषांतोरणानांपुरतो द्वे द्वेपुष्पचङ्गे? प्रज्ञप्ती, एवं माल्यचूर्णगन्धवस्त्रभरणसिद्धार्थकलोमहस्तकचङ्गेर्योऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रलमय्यः, 'अच्छा' इत्यादि प्राग्वत् । एवं पुष्पादीनामष्टानां पटलकान्यपि द्विद्विसङ्ख्याकानि वाच्यानि । 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे सिंहासने प्रज्ञप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यो यावद्दामवर्णनम् । "तेसिण'मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे 'रूप्यच्छदे' रूप्याच्छादने छत्रेप्रज्ञप्ते, तानि चछत्राणि वैडूर्यरत्नमयविमलदण्डानि जाम्बूनदकर्णिकानि 'वज्रसन्धीनि वज्ररत्नापूरितदण्डशलाकासन्दीनि मुक्ताजालपरिगतानि अष्टौ सहस्राणि-अष्टसहनसङ्ख्याका वरकाञ्चनशलाकावरकाञ्चनमय्यः शलाका येषुतानि अष्टसहस्रवरकञ्चनशलाकानि दद्दरमलयसुगन्धिसव्वोउयसुरहिसीयलच्छाया' इति दर्दरः-चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्वा वा ये मलय इति-मलयोद्भवं श्रीखण्डं तत्सम्बन्धिनः सुगन्धयो गन्धवासास्तद्वत्सर्वेषु ऋतुषु सुरभिः शीतला च छाया येषां तानि, तथा ‘मंगलभत्तिचित्ता' तेषां अष्टानां मङ्गलानां भक्त्याविच्छित्या चित्रं-आलेखो येषां तानि मङ्गलभक्तिचित्राणि, तथा 'चंदागारोवमा' इति चन्द्राकारः-चन्द्राकृति स उपमा येषां तानि तथा चन्द्रमण्डलवद्धत्तानीति भावः । 'तेसिण'मित्यादि, तेषांतोरणानांपुरतोद्वेद्वे चामरेप्रज्ञप्ते, तानिचचामरामि 'चंदप्पभवइरवेरुलियनाणामणिरयणखचियदंडा' इति चन्द्रप्रभः-चन्द्रकान्तो वज्रं वैडूर्यं च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषुदण्डेषुते तथा, एवंरूपाश्चित्रानानाकारा दण्डा येषांचामराणांतानितथा, सूत्रेस्त्रत्वंप्राकृतत्वात्, तथा सुहुमरययदीहवालाओ' इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, 'संखंककुंददगरयअमयमहियफेणपुंजसंनिकासाओ इति शङ्खः-प्रतीतोऽङ्को-रलविशेषः कुन्देति-कुन्दपुष्पं दकरजः-उदककणाः अमृतमथितफेनपुञ्जः-क्षीरोदजलमथनसमुत्थफेनपुञ्जस्तेषामिव संनिकाशः-प्रभा येषां तानि तथा, अच्छा इत्यादि प्राग्वत्। _ 'तेसिण'मित्यादि, तेषां तोरणानांपुरतो द्वौ द्वौ 'तैलसमुद्गको सुगन्धितैलाधारविशेषौ, उक्तं च जीवाभिगममूलटीकायां-“तैलसमुद्गको सुगन्धितैलाधारौ" एवं कोष्ठादिसमुद्गका अपि वाच्याः, अत्र सङ्ग्रहणिगाथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy