SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, दीव० २३५ यार्थभया' आदर्शकगण्डप्रतिबन्धप्रदेशाः, आदर्शकगण्डानां मुष्टिग्रहणयोग्याः प्रदेशा इति भावः, वज्ररलमयावरङ्गागण्डाइत्यर्थः, 'नानामणिमयावलक्षाः' वलक्षणोनाम श्रृङ्खलादिरूपमवलम्बनम्, आमयानि-अङ्करलमयानिमण्डलानियत्र प्रतिबिम्बसंभूति 'अणोहसियणिम्मला छायाए' इति, अवघर्षणमवघर्षितं, भावेक्तप्रत्ययः, भूत्यादिना निमज्जनमित्यर्थः, अवघर्षितस्याभावोऽनवघर्षितं तेन निर्मलाअनवघर्षितनिर्मला तयाछायया समनुबद्धाः 'चंदमंडलपडिनिकासा इतिचन्द्रमण्डलसांशाः 'महयामहया' अतिशयेन महान्तः 'अर्द्धकायसमानाः' द्रष्टुःशरीरार्द्धप्रमाणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! । 'तेसिण मित्यादि, तेषां तोरणानां पुरतो वे द्वे वज्रनामे स्थाले प्रज्ञप्ते, तानि च स्थालानि तिष्ठन्ति] 'अच्छतिच्छडियसालितंदुलनहसंदट्ठपडिपुण्णा इव चिहृति' अच्छा-निर्मलाः शुद्धस्फटिकवत्रिच्छटिताअतएव नखसंदष्टाः-नखाःसंदष्टा मुसलादिभिधुम्बिता येषां ते तथा, भार्यादिदर्शनात्परनिपातो निष्ठान्तस्य, अच्छस्त्रिच्छटितैः शालितन्दुलै खसंदष्टैः परिपूर्णानीव अच्छत्रिच्छटितशालितन्दुलनखसंदष्टपरिपूर्णानीवपृथिवीपरिमाणरूपाणि तानि तथा स्थितानि केवलमेवमाकाराणीत्युपमा, तथा चाह-'सव्वजंबूनदमया' सर्वात्मना जम्बूनदमयानि 'अच्छा सण्हा' इत्यादि प्राग्वत् 'महयामहया' इतअतिशयेन महान्ति रथचक्रसमानानिप्रज्ञप्तानि हे श्रमण ! हे आयुष्मन् !। _ 'तेसिण'मित्यादि, तेषां तोरणानां पुरतो वे द्वे पाईओ' इति पाठ्यौ प्रज्ञप्ते, ताश्च पात्र्यः 'अछोदकपडिहत्थाओं इति स्वच्छपानीयपरिपूर्णाः 'नानाविहस्स फलहरियस्स बहुपडिपुण्णाओ विवे'ति अत्र षष्ठी तृतीयार्थे बहुवचन चैकवचनंप्राकतत्वात्, नानाविधैः ‘फलहरितैः' हरितफलैर्बहु-प्रभूतंप्रतिपूर्णाइवतिष्ठन्ति, नखलुतानि फलानि जलंवा किन्तु तथारूपाः शाश्वतभावमुपगताः पृथिवीपरिणामास्तत उपमानमिति, सव्वरयणामईओ इत्यादिप्राग्वत्, ‘महयामहया' इति अतिशयेन महत्यो गोकलिञ्ज चक्रसमानाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !। तेसिण'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ सुप्रतिष्ठको आधारविशेषौ प्रज्ञप्ती, तेच सुप्रतिष्ठकाः सुसौषधिप्रतिपूर्णा नानाविधैः पञ्चवर्णप्रसाधनामाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, अत्रापितृतीयार्थेषष्ठी बहुवचने चैकवचनंप्राकृतत्वात्, उपमानभावनामाग्वत्, सब्बरयणामया' इत्यादि तथैव ।। 'तेसिण'मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे मनोगुलिके प्रज्ञप्ते, मनोगुलिका नाम पीठिका, उक्तं च मुलटीकायां-“मनोगुलिका पीठिके"ति, ताश्च मनोगुलिकाः सर्वात्मना 'वैडूर्यमय्यो' वैडूर्यरत्नात्मिकाः 'अच्छा' इत्यादि प्राग्वत्। _ 'तासुणंमनोगुलियासुबहवे' इत्यादि, तासुमनोगुलिकासुबहूनि स्वर्णमयानिरूप्यमयानि चफलकानिप्रज्ञप्तानि, तेषु सुवर्णरूप्यमयेषु फलकेषुबहवो वज्रमयाः ‘नागदन्तकाः' अङ्गुटकाः प्रज्ञप्ताः, तेषुनागदन्तकेषुबहूनि रजतमयानि' रूप्यमयानि सिक्ककानिप्रज्ञप्तानि, तेषुचरजतमयेषु सिक्ककेषुबहवो 'वातकरकाः' जलशून्याः करका इत्यर्थ प्रज्ञप्ताः ।। तेण'मित्यादि ते वातकरकाः 'कृष्णसूत्रसिक्कगवस्थिताः' इति,आच्छादनंगवस्थाः (ता.) संजाता एष्वितिगवस्थिताः कृष्णसूत्रैःकृष्णसूत्रमयैर्गवस्थैरिति गम्यते, सिक्केषु गवस्थिताः कृष्णसूत्रसिक्कगवस्थिताः, एवं नीलसूत्रसिक्कगवस्थिता इत्याद्यपि भावनीयं, तेच वातकरकाः सर्वात्मना वैडूर्यमया अच्छा इत्यादि प्राग्वत् । 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ 'चित्रौ' चित्रवर्णोपेतावाश्चर्यभूतौ वा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy