________________
२२०
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१६५ तेषां यन्त्राणि-प्रपञ्चास्तैर्युक्तानीव, अर्चिषां सहस्रैर्मालनीयानि-परिवारणीयानिअर्चिसहनमालनीयानि, किमुक्तंभवति?-एवंनाम प्रभासमुदायोपेतानियेनैवं संभावनोपजायते यथा नूनमेतानि न स्वाभाविकप्रभासमदयोपेतानि किन्तु विशिष्टविद्याशक्तिमत्पुरुषविशेषप्रपञ्चयुक्तानीति, 'स्वगसहस्सकलिया' इतिरूपकाणांसहस्राणिरूपकसहस्राणितैः कलितानिरूपकसहनकलितानि 'भिसमाणा' इति दीप्यमानानि भिभिसमाणा' इति अतिशयेनदीप्यमानानि चक्खुल्लोयणलेसा' इतिचक्षुकर्तृलोकने-अवलोकने लिसतीव-दर्शनीयत्वातिशयतःश्लिष्यतीवयत्रतानिचक्षुर्लोकनलेसानि 'सुहफासा' इतिशुभस्पर्शानिसशोभाकानि रूपाणि यत्र तानिसश्रीकरूपाणि, पासाइया' इत्यादि विशेषणचतुष्टयं प्राग्वत्।
___'तेसिंतोरणामंउवरिअट्ठमंगले'त्यादि सुगम, नवरं जावपडिरूवा' इति यावत्करमात् 'घट्टा मट्ठा नीरया' इत्यादिपरिग्रहः । तेसिण'मित्यादि, तेषां तोरणानामुपरिबहवः 'कृष्णचामरध्वजः' कृष्णचामरयुक्ता ध्वजाः कृष्णचामरध्वजाःएवं बहवो नीलचामरध्वजा लोहितचामरध्वजा हारिद्रचामरध्वजाः शक्लचामरध्वजाः, कथम्भूता इत्याह एते सर्वेऽपि ? इति, अत आह-'अच्छा' आकाशस्फटिकवदतिनिर्मलाः ‘कृष्णाः' कृष्णपुद्गलस्क्धनिर्मापिता 'रूप्यपट्टा' इति स्वप्योरप्यमयोवज्रमयस्य दण्डस्योपरिपट्टेयेषांतेस्रूप्यपट्टाः वइरदंडा' इति वज्रो-वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते वज्रदण्डाः, तथा जलजानामिव-जलजकुसुमानां पद्मादीनामिवामलो-निर्मलोनतु कुद्रव्यगंधसम्मिश्रोयोगन्धः सविद्यतेयेषांतेजलजामलगन्धिका 'अतः अनेकस्वरा'दितीकप्रत्ययः,अतएव सुरम्याः, पासादीया' इत्यादि विशेषणचतुष्टयंप्राग्वत्
'तेसि णमित्यादि, तेषां तोरणानामुपरि बहूनि 'छत्रातिच्छत्राणि' छत्रात्-लोकप्रसिद्धादेकसङ्ख्याकादतिशायीनिद्विसङ्घयानि त्रिसङ्ख्या वाछत्रातिच्छत्राणि, बह्वयः पताकाभ्योलोकप्रसिद्धाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तारेण च पताकाः पताकातिपताकाः, बहूनिघण्टायुगलानि बहूनि चामरयुगलानि बहवः ‘उत्पलहस्तकाः' उत्पलाख्यजलजकुसुमसमूहविशेषाः, एवं पद्महस्तका बहवो निलनहस्तका बहवः सुभगहस्तका बहवः सौगन्धिकहस्तकाबहवः पुण्डरीकहस्तका बहवः शतपत्रहस्तकाः बहवः सहसरपत्रहस्तकाः, उत्पलादीनि प्रागेव व्याख्यातानि, एते च छत्रातिच्छत्रादयः सर्वेऽपि सर्वरत्नमयाः 'जाव पडिरूवा' इति यावतकरणात् 'अच्छा सहा लण्हा' इत्यादि विशेषणकदम्बकपरिग्रहः ।। ___'तासिण'मित्यादि, तासां क्षुल्लिकानां वापीनांयावद्विलपङ्कीनाम्, अत्र यावच्छब्दात् पुष्करिण्यादिपरिग्रहः, अपान्तरालेषु तत्र तत्र देशे तस्यैव देशस्य तत्र तत्रैकदेशे बहव उत्पातपर्वतायत्रागत्य बहवो व्यन्तरदेवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति 'नियइपव्वया' इतिनियत्या-नैयत्येन पर्वता नियतिपर्वताः, कचित् 'निययपव्वया' इति पाठस्तत्रनियताः-सदा भोग्यत्वेनावस्थिताः पर्वता नियपर्वताः, यत्र वानमन्तरा देवा देव्यश्च भवधारणीयेन वैक्रियशरीरेण प्रायः सदा रममाणा अवतिष्ठन्ते इति भावः, 'जगतीपर्वतकाः' पर्वतविशेषाः 'दारुप्रवर्तकाः' दारुनिर्मापिता इति पर्वतकाः 'दगमंडवगा' इति 'दकमण्डपकाः' स्फटिकमण्डपकाः, उक्तं च मूलटीकायां-“दकमण्डपकाः स्फाटिकमण्डपका" इति,एवंदकमञ्चका दकमालका दकप्रासादाः, एते च दकमण्डपादयः केचित् ‘ऊसडा' इति उत्सृता उच्चा इत्यर्थः, केचित् 'खुड्डा' इति क्षुल्ला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org