SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्ति:- ३, दीव० २२१ लघवः कचित् 'खडखडगा' इति लघव आयताश्च, तथा अन्दोलकाः पक्ष्यन्दोलकाञ्च तत्र यत्रागत्य मनुष्या आत्मानमन्दोलयन्ति ते अन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगत्यात्मानमन्दोलयन्ति ते पक्ष्यन्दोलकाः, ते चान्दोलकाः पक्ष्यन्दोलकाश्च तस्मिन् वनषण्डे तत्र तत्र प्रदेशे वानमन्तरदेवदेवीक्रडायोग्या बहवः सन्ति, ते चोत्पातपर्वतादयः कथम्भूताः ? इत्याह-'सर्वरत्नमया: ' सर्वात्मना रत्नमयाः, 'अच्छा सण्हा' इत्यादि विशेषणजातं पूर्ववत् । 'तेसु ण' मित्यादि, तेषु उत्पातपर्वतेषु यावत्पक्ष्यन्दोलकेषु, यावत्करणान्नियतिपर्वतकादिपरिग्रहः, बहूनि हंसासनानि तत्र येषामासानामधोभागे हंसा व्यवस्थिता यथा सिंहासने सिंहाः तानि हंसासनानि, एवं क्रोञ्चासनानि गरुडासनानि च भावनीयानि, उन्नतासनानि नाम यानि उच्चासनानि प्रणतासनानि - निम्नासनानि दीर्घासनानि श्ययारूपाणि भद्रासनानि येषामघोभागे पीठिकाबन्धः पक्ष्यासनानि येषामधोभागे नानास्वरूपाः पक्षिणः, एवं मकरासनानि सिंहासननानिच भावनीयानि, पद्मासनानि - पद्माकाराणि आसनानि 'दिसासोबत्थियासणाणि' येषामधोभागे दिक्सौवस्तिका आलिखिताः सन्ति, अत्र यथाक्रममासनानां सङ्गाहिका सङ्ग्रहणिगाथा - ॥ १ ॥ "हंसे १ कोंचे २ गरुडे ३ उण्णय ४ पणए य ५ दीह ६ भद्दे य७ । पक्खे ८ मयरे ९ उसले १० सीह ११ दिसासोवृत्थि १२ बारसमे ।।" एतानि सर्वाण्यपि कथम्भूतानि ? इत्यत आह- 'सव्वरयणामया' इत्यादि प्राग्वत् । 'तस्स णं वनसंडस्से' त्यादि, प्राग्वत् तस्य वनखण्डस्य मध्ये तत्र तत्र प्रदेशे तस्यैव देशस्य तत्र तत्रैकदेशे बहूनि 'आलिगृहकाणि' आलि-वनस्पतिविशेषस्तन्मयानि गृहकाणि मालिरपिवनस्पतिविशेषस्तन्मयानि गृहकाणि मालिगृहकणि कदलीगृहकाणि लतागृहकाणि प्रतीतानि 'अच्छणघरका' इति अवस्थानगृहकाणि येषु यदा तदा चाऽऽ गत्य बहवः सुखासिकयाऽवतिष्ठन्ते, प्रेक्षणकगृहाणि यत्रागत्य प्रेक्षणकानि विदधति निरीक्षन्ते च, मज्जनकगृहकाणि यत्रागत्य स्वेच्छया मज्जनं कुर्वन्ति प्रसाधनगृहकाणि यत्रागत्य स्वं परं च मण्डयन्ति गर्भगृहकाणि-- गर्भगृहाकाराणि, 'मोहनघरगा' इति मोहणं - मैथुनसेवा "रमियमोहणरयाई” इति नाममालावचनात्, तठप्रधानानि गृहकाणि मोहनगृहकाणि वासभवनानीति भावः, 'शालागृहकाणि' पट्टशालाप्रधानानि गृहकाणि 'जाल गृहकाणि' जालकयुक्तानि गृहकाणि 'कुसुमगृहकाणि' कुसुमप्रकरोपचितानि गृहकाणि 'चित्रगृहकाणि' चित्रप्रधानानि गृहकाणि 'गन्धर्वगृहकामि' गीतनृत्याभ्यासयोग्यानिगृहकाणि 'आदर्शगृहकाणि' आदर्शमयानीव (आदर्श) गृहकाणि, एतानि च कथम्भूतानि ? इत्यत आह'सव्वरयणामया' इत्यादिविशेषणकदम्बकं प्राग्वत् । 'तेसु ण'मित्यादतेषु आलिगृहकेषु यावच्छब्दान्मालिगृहकादिपरिग्रहः, बहूनि हंसासनानि इत्यादि प्राग्वत् ॥ 'तस्स ण' मित्यादि, तस्य वनखण्डस्य मद्ये तत्र देशे तस्यैव देशस्य तत्र तत्रैकदेशे बहवो जातिमण्डपका यूथिकामण्डपका मल्लिकामण्डपका नवमालिकामण्डपका वासन्तीमण्डपका दधिवासुका नाम वनस्पतिविशेषस्तन्मया मण्डपका दधिवासुकमण्डपकाः, सूरिल्लिरपि वनस्पतिविशेषस्तन्मया मण्डपकाः सूरिल्लिमण्डपकाः, ताम्बूली - नागवल्ली तन्मया मण्डप कास्ताम्बूलीमण्डपकाः, नागो- द्रुमविशेषः स एव लता नागलता, इह यस्य तिर्यक् तथाविधा शाखा प्रशाखा न प्रसृता सा लतेत्यभिधीयते, नागलताम For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy