________________
प्रतिपत्तिः-३, दीव०
२१९ विशेषणसमासः, एता वाप्यादयः सरस्सरःपङ्किापर्यवसानाः प्रत्येकं प्रत्येकमिति, एकमेकं प्रति प्रत्येकम्, अत्राभिमुख्ये प्रतिशब्दो न वीप्साविवक्षायां, पश्चाप्रत्येकशब्दस्य द्विवचनमिति, पद्मवरवेदिकया परिक्षिप्ताः प्रत्येकं वनषण्डपरिक्षिप्ताश्च, 'अप्पेगतियाओ' इत्यादि, अपि ढार्थे बाढमेककाः-काश्चन वाप्यादय आसवमिव-चन्द्रहासादिपरमासवमिव उदकं यासांता आसवोदकाः,अप्येककावारुणस्य वारुणसमुद्रस्येव उदकंयासांतावारुणोदकाः,अप्येककाःक्षीरमिदोदकंयासांताः क्षीरोदकाः, अप्येककाघृमिवोदकं यासांताघृतोदकाः,अप्येकका क्षेदइव-इक्षुरस इवउदकंयासांताः क्षोदोदकाः, अप्येकका अमृतरससमरसमुदकं यासांताअमृतरससमरसोदकाः, अप्येकका अमृतरसेन स्वाभाविकेन प्रज्ञप्ताः । _ 'पासाईया(ओ) इत्यादि विशेषणचतुष्टयं प्राग्वत्, तासां क्षुल्लिकानां यावद्विलपङ्क्तीनां प्रत्येकं २ चतुर्दिशिचत्वारि, एकैकस्यां दिशिएकैकभावात्, त्रिसोपानप्रतिरूपकाणि' प्रतिविशिष्टं रूपयेषांतानिप्रतिरूपकाणित्रयाणांसोपानानां समाहारस्त्रिसोपानं त्रिसोपानानि अयं वक्ष्यमाणः 'एतद्रूपः' अनन्तरं वक्ष्यमाणस्वरूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा
'वज्रमयाः' वजरलमया 'नेमाः' भूमेरुवं निष्कामन्तः प्रेशाः 'रिष्ठमयाः' रिठरलमयाः 'प्रतिष्ठानाः' त्रिसोपानमूलपादा वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि-त्रिसोपानागभूतानि वज्रमयानि वज्ररलापूरिताः सन्धयः-फलकद्वयापान्तरालप्रदेशाः लोहिताक्षमय्यः सूच्यः-फलकद्वयसम्बन्धविघटनाभावहेतु पादुकास्थानीयाः नानामणिमया अवलम्ब्यन्ते इति अवलम्बना--अवतरतामुत्तरतां चालम्बने हेतुभूता उवलम्बनबाहातो विनिर्गताः केचिदवयवाः 'अवलंबणबाहाओ' इति अवलम्बनबाहा अपि नानामणिमयाः, अवलम्बनबाहा नाम उभयोउभयोः पार्श्वयोरवलमबनाश्रयबूता भित्तयः, 'पासाईयाओ' इत्यादि पदचतुष्टयं प्राग्वत् ।
'तेसिण'मित्यादि,तेषां त्रिसोपानप्रतिरूपकाणांप्रत्येकंप्रत्येकं तोरणानि प्रज्ञप्तानि, तेषां चतोरणानामयमेतद्रूपो 'वर्णावासः' वर्णकनिवेशःप्रज्ञप्तः, तद्यथा तेणं तोरणा नानामणिमया' इत्यादि, तानि तोरणानि नानाणिमयानि, मणय:-चन्द्रकान्तादयः, विविधमणिमयानि, नानामणिमयेषु स्तम्भेषु उपविष्टानि' सामीप्येन स्थितानि, तानिच कदाचिच्चलानि अथवाऽपदपतितानि वाऽऽशङ्कयेरन्ततआह-सम्यग-निश्चलतयाऽपदपरिहारेणच निविष्टानि ततो विशेषणसमासः उपविष्टसन्निविष्टानि 'विविहमुत्तंतरोचिया' इति विविधा-विविधविच्छित्तिकलिता मुक्तामुक्ताफलानि 'अंतरे'ति अन्तराशब्दोऽगृहीतवीप्सोऽपि सामथ्यार्दवीप्सां गमयति, अन्तरा २ 'ओचिया' आरोपिता यत्रतानि तथा, 'विविहतारारूवोवचिया' इति विविधैस्तारारूपैः-तारिकारूपैरुपचितानि, तोरणेषु हि शोभार्थं तारका निबध्यन्ते इति लोकेऽपि प्रतीतं इति विविधतारारूपोपचितानि, 'ईहामिगउसभतुरगनरमगरविहगवालगकिंनररुरुसरगचमर-इति ईहामृगाःवृका व्याला:-श्वापदभुजगाः, ईहामृगऋषभतुरग- नरमकरविह- गव्यालकिंनररुरुसरभकुञ्जरवनलतापद्मलतानां भक्त्या विच्छित्या विचित्रं-आलेखो येषु तानि तथा।
स्तम्भोद्गताभिः-स्तम्भोपरिवर्तिनीभिर्वज्ररत्नमयीभिर्वेदिकाभिपरिगतानि सन्तियानि अभिरणीयानि तानि स्तम्भोद्गतवज्रवेदिकापरिगताभिरामाणि, तथा 'विज्ञाहरजंतजुत्ताविव अच्चीसहस्समालिणीया' इति विद्याधरयोर्य यमलं-समश्रेणीकंयुगलं-द्वन्द्वं विद्याधरयमलयुगलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org