________________
२१४
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१६४
नार्या वासुष्टु-अतिशयेन सम्यग् गृहीतायाः, तथा चन्दनस्य सारः चन्दनसारस्तेन निर्मापितो यः कोणोवादनदण्डस्तेन परिघट्टितायाः-संस्पृष्टायाः ‘पञ्चूसकालसमयंसि इति प्रत्यूषकालसमये' प्रभातवेलायां, कवचित् 'पुव्वरत्तावरत्तकाल०' इति पाठस्तत्र प्रदोषसमये प्रातःसमये चेत्यर्थः _ 'मन्दं मन्दं शनैः शनैः ‘एजिताया' चन्दनसारकोणेन मनाक् कम्पितायाः 'व्येजितायाः' विशेषतः कम्पितायाः, एतदेव पर्यायेणव्याचष्टे-चालितायास्तथा घट्टितायाः, ऊधिोगच्छता चन्दनसारकोणेन गाढतरंवीणादण्डेन सह तन्त्रयाः स्पृष्टाया इत्यर्थः, तथा 'स्पन्दितायाः' नखाग्रेण स्वरविशेषोत्पादनार्थमीषच्चालितायाः क्षोभितायाः' मूर्छा प्रापिताया ये 'उदारा' मनोज्ञाः कर्णमनोनिवृतिराः सर्वतः समन्ताच्छब्दा अभिनिस्सरन्ति, 'स्यात्' कथञ्चिद् भवेदेतद्रूपस्तेषां तृणानांमणीनांचशब्द?,भगवानाह-नायमर्थः समर्थः, पुनरपिगौतमः प्राह-सयथा नामकःकिंनराणां वा किंपुरुषाणां वा महोरगाणां वा गन्धर्वाणां वा, वाशब्दाः सर्वेऽपि विकल्पार्थाः, किंनरादयो व्यन्तरविशेषाः, तेषां कथम्भूतानाम् ? इत्याह
'भद्रशालवनगतानां वा' इत्यादि, तत्र मेरोः समन्ततो भूमौ भद्रशालवनं प्रथममेखलायां नन्दनवनं शिरसि चूलिकायाः पार्वेषु सर्वतः पण्डकवनं 'महाहिमवंतमलयमन्दरगिरिगुहासमन्नागयाणं' इति महाहिमवान्-हैमवतक्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतः, उपलक्षणं शेषवर्षधरपर्वतानां, मलयपर्वतस्य मन्दरगिरेश्च-मेरुपर्वतस्य च गुहा समन्वागताना, वाशब्दा विकल्पार्थाः, एतेषु हिस्थानेषु प्रायः किंनरादयः प्रमुदिता भवन्ति तत एतेषामुपादानम्, 'एगतो सहियाणं'ति एकस्मिन् स्थाने सहितानां-समुदितानां 'समुहागयाणं'तिपरस्परसंमुखागतानांसंमुखं स्थितानां, नैकोऽपि कस्यापि पृष्ठं दत्वा स्थित इत्यर्थः, पृष्ठदाने हर्षविघातोत्पत्तेः, तथा 'समुविट्ठाणं' सम्यक् परस्परानाबाधया उपविष्टाः समुपविष्टास्तेषां समुपविष्टानां, तथा 'संनिविट्ठाण मिति सम्यक् स्वशरीरानाबाधया न तु विषमसंस्थानेन निविष्टाः संनिविष्टास्तेषां। ___“पमुइयपक्कीलियाणं'ति प्रमुदिता:-प्रहर्ष गताः प्रकीडिताः-क्रीडितुमारब्धवन्तस्ततो विशेषणसमासस्तेषां, तथा गीते रतिर्येषां ते गीतरतयो गन्धर्वं-नाटयादि तत्र हर्षितमनसो गन्धर्वहर्षितमनसस्ततः पूर्वपदेन विशेषणसमासस्तेषां गद्यादिभेदादष्टविधं गेयं, तत्र गद्यं यत्र स्वरसञ्चारेण गद्यं गीयते, यत्र तु पद्यं-वृत्तादि गीयते तत्पद्यं, यत्र कथिकादि गीयते तत्कथ्यं, पदबद्धं यदेकाक्षरादि यथा ते ते इत्यादि, पादबद्धं यद् वृत्तादिचतुर्भागमात्रे पदे बद्धम्, 'उक्खित्ताय मितिउक्षिप्तकंप्रथमतः समारभ्यमाणं, दीर्घत्वंककारात्पूर्वप्राकृतत्वात्, एवमुत्तरत्रापि द्रष्टव्यं, 'प्रवृत्तक प्रथमसमारम्भादूर्द्धमाक्षेपपूर्वकप्रवर्त्तमानं । 'मंदाय'मिति मन्दकं मध्यभागे सकलमूर्छनादिगुणोपेतंमन्दं मन्दंसंचरन्, तथा रोइया-वसाणंति रोचितंसम्यग्मावितमवसानं यस्य तद्रोचितावसानं, शनैः शनैः प्रक्षिप्यमाणस्वरं यस्य गेयस्यावसानं तद् रोचितावसानमिति भावः, तथा सप्तस्वरसमन्वागतं' सप्त स्वराः षडजादयः, उक्तञ्च
"सज्जे रिसह गंधारे, मज्झिमे पंचमे सरे ।
धेवए चेव नेसाए, सरा सत्त वियाहिया ॥" तेच सप्त स्वराः पुरुषस्य नया वा नाभीतः समुद्भवन्ति सत्त सरा नाभीतो' इति पूर्वमहर्षिवचनात्, तथाऽष्टमी रसैः-श्रृङ्गारादिभि सम्यक्प्रकर्षणयुक्तमष्टरससंप्रयुक्तं, तथा एकादश
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org