SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २१५ प्रतिपत्तिः-३, दीव० अलङ्काराः पूर्वान्तर्गते स्वरप्राभृते सम्यगभिहिताः, तानि च पूर्वाणि सम्प्रति व्यवच्छिन्नानि ततः पूर्वेभ्यो लेशतो विनिर्गतानि यानि भरतविशाखिलप्रभृतीनितेभ्योवेदितव्याः, छद्दोसविप्पमुक्कति षड्भिर्दोषर्विप्रमुक्तंषडदोषविप्रमुक्तं,तेचषड् दोषाअमी-भीयंदुयमुप्पिच्छंउत्तालं कागस्सरमणुणासंच' । उक्तञ्च॥१॥ “भीयं दुयमुष्पिच्छस्थमुत्तालं च कमसो मुणेयव्वं । काकस्सरमणुनासं छद्दोसा होति गेयस्स ।।" तत्र भीतम्' उत्रस्तं, किमुक्तंभवति? यदुत्रस्तेन मनसा गीयते तद्भीतपुरुषनिबन्धनधानुवृत्तत्वाभीतमुच्यते, “द्रुतं' यत्वरितंगीयते, उप्पिच्छं' नामआकुलम्, उक्तञ्च-"आहित्थं उपिच्छंचआउलं रोसभरियंच" अस्यायमर्थ-आहित्यमुप्पिच्छंच प्रत्येकमाकुलं रोषभृतं वोच्यत इति,आकुलताचश्वासेन द्रष्टव्यातथा पूर्वसूरिभिव्यार्खयानात्, उक्तञ्चमूलटीकायाम्-“उप्पिच्छे श्वासयुक्त"मिति, तथाउत्-प्राबल्येनातितालमस्थानतालंवा उत्तालं, श्लक्ष्णस्वरेण काकस्वरं, सानुनासिकमनुनासं, नासिकाविनिर्गतस्वरानुगतमिति भावः, तथा 'आद्वगुणोववेय'मिति अष्टभिर्गुणैरुपेतमष्टगुणोपेतं, ते चाष्टावमी गुणाः-पूर्ण रिक्तमलङ्कृतं व्यक्तमविपु(घ)ष्टं मधुरं समं सललितंच, तथा चोक्तम्॥१॥ "पुण्णं रत्तं च अलंकियंच वत्तं तहेव अविपु(घु)हूँ। महुं समंसललियं अट्ठ गुणा होति गेयस्स ॥" तत्र यत्स्वरकलाभिः पूर्ण गीयते तत्पूर्ण, गेयरागानुरक्तेन यद् गीयते तद्रक्तम्, अन्योऽन्यस्वरविशेषकरणेन यदलङ्कृतमेव गीयते तदलङ्कृतम्, अक्षरस्वरस्फुटकरणतो वयक्तं, विस्वरं क्रशतीव विपु(घ)ष्टंन विघुष्टमविपु(ोष्टं, मधुरस्वरेण गीयमानं मधुरं कोकिलारुतवत्, तालवंशस्वरादिसमनुगतंसमं,तथा यत्स्वरघोलनाप्रकारेण ललतीव तत्सह ललितेनेतिसललितं, यदिवा यच्छ्रोत्रेन्दिरयस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत् ___ इदानीमेतेषामेवाष्टानां गुणानां मध्ये कियतो गुणान् अन्यच्च प्रतिपिपादयिषुराह--'रत्तं तिट्ठाणकरणसुद्ध'मित्यादि, रक्तं पूर्वोक्तस्वरूपंतथाच 'त्रिस्थानकरणशुद्धं त्रीणिस्थानानिउरःप्रभृतीनि तेषु करणेन-क्रियया शद्धं त्रिस्थानकरणशुद्धं, तद्यथा-उरःशुद्धं कण्ठशुद्धं शिरोविशुद्धं च, तत्र यदि उरसि स्वरः स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्धं, स एवयदिकण्ठे वर्तितोभवतिअस्फुटितश्चततःकण्ठविशुद्धं, यदिपुनः शिरःप्राप्तः सन्सानुनासिको भवति ततः शिरोविशुद्ध, यदिवा यद् उरःकण्ठशिरोभि श्लेष्मणाऽव्याकुलितैर्विशुद्धैर्गीयते तद् उरःकण्ठशिरोविशुद्धत्वात्रिस्थानकरणविशुद्धं, तथा सकुहरो गुञ्जन् यो वंशो यत्र तन्त्रीतलताललयग्रहसुसंप्रयुक्तं भवति सकुहरेवंशे गुञ्जति तन्त्र्यांच वाधमानायां यत्तन्त्रीस्वरेणाविरुद्धं तत् सकुहरगुञ्जद्वंशतन्त्रीसुसंप्रयुक्त। तथा परस्पराहतहस्ततालस्वरानुवर्तियद् गीतंतत्तालसुसंप्रयुक्तं, यत् मुरजकंसिकादीनामातोद्यानागाहताना यो ध्वनिर्यश्च नृत्युन्त्या नर्तक्याः पादोत्क्षेपस्तेन समं तत्तालसुसंप्रयुक्तं, तथा श्रृङ्गमयो दारुमयो वंशमयो वाऽङ्गुलिकोशस्तेनाहतायास्तभ्याः स्वरप्रकारो लयस्तमनुसरद् गेयं लयसुसंप्रयुक्तं, तथा यः प्रथमं वंशतव्यादिभि स्वरो गृहीस्तन्मार्गानुसारि ग्रहसुसंप्रयुक्तं, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy