________________
प्रतिपत्तिः - ३, दीव०
२१३
गुणैव्यार्पता ये वराः - प्रधानास्तुरगास्ते सुष्ठु अतिशयेन सम्यक् प्रयुक्ता - योत्रिता यस्मिन् स आकीर्णवरतुरसुसंप्रयुक्तः, प्राकृतत्वाद् बहुव्रीहावपि निष्ठान्तस्य परनिपातः, तथा सारथिकर्म्मणि ये कुशला नरास्तेषां मध्येऽतिशयेन छेको- दक्षः सारथिस्तेन सुष्ठु सम्यकपरिगृहीतस्य, तथा 'सरसयबततीसतोणमंडियस्स' इति शराणां शतं प्रत्येकं येषु तानि शरशतानि तानि च तानि द्वात्रिंशत्तोणानि च -बामाश्रयाः शरशतद्वात्रिंशत्तोणानि तैर्मण्डितः शरशतद्वात्रिंशत्तोणमण्डितः, किमुक्तं भवति ? - एवं नाम तानि द्वात्रिंशच्छरशतधृतानि तूणानि रथस्य सर्वतः पर्यन्तेष्ववलम्बितानि यथा तानि तस्य सङ्ग्रामायोपकल्पितस्यातीव मण्डनाय भवन्तीति, तथा कङ्कटं - कवचं सह कङ्कटं यस्य स सकङ्कटः सकङ्कटोऽवतंसः - शेखरो यस्य स सकङ्कटावतंसस्तस्य, तथा सह चापं येषां ते सचापा ये शरा यानि च कुन्तभल्लिमुषण्ढिप्रभृतीनि नानाप्रकाराणि यानि च कवचखेटकप्रमुखाणि आवरणानि तैर्भृतः - परिपूर्ण, तथा योधानां युद्धं तन्निमित्तं सद्यः प्रगुणभूतो यः स योधयुद्धसज्जः, ततः पूर्वपदेन सह विशेषणसमासः ।
तस्येत्यंभूतस्य राजाङ्गणे अन्तःपुरे वा रम्ये वा मणिकुट्टिमतले मणिबद्धभूमितले अभिक्ष्णमभीक्ष्णं मणिको (कु) ट्टिमतलप्रदेशे राजाङ्गणप्रदेशे वा 'अभिघट्टिजमाणस्से'त अभिघट्टयमानस्य वेगन गच्छतो ये उदारा- मनोज्ञाः कर्णमनोनिर्वृतिकराः सर्वतः समन्तात् शब्दा अभिनिसरन्ति 'भवे एयारूवे सिया' इति 'स्याद्' कथञ्चिद् भवेद् एतद्रूपस्तेषां मणीनां तृणानां च शब्दः ?, भगवानाह - नायमर्थः समर्थः, पुनरपि गोतमः प्राह - स यथा नामकः - प्रातः सन्ध्यायां देवतायाः पुरतो या वादनायोपस्थाप्यते सा किल मङ्गलपाठिका तालाभावे च वाद्यते इति वितालेतालाभावे भवतीति वैतालिकी तस्या वैतालिक्या - वीणाया 'उत्तरामन्दा मुच्छियाए' इति मूर्छनं सा संजाताऽस्या इति मूर्च्छिता उत्तरमन्दया- उत्तरमन्दाभिधानया मूर्च्छनया - गान्धारस्वरान्तर्गतया सप्तम्या मूर्च्छिता उत्तरमन्दामूर्च्छिता ।
119 11
किमुक्तं भवति ? - गान्धारस्वरस्य सप्त मूर्च्छना भवन्ति, तद्यथा“नंदी य खुट्टिमा पूरिमा य चोत्थी अ सुद्धगंधारा । उत्तरगन्धारावि य हवई सा पंचमी गुच्छा || सुहुमुत्तर आयामा छट्टी सा नियमसो उ बोद्धव्वा । उत्तरमंदा यता हवई सा सत्तमी मुच्छा ॥
॥२॥
--
अथ किंस्वरूपा मूर्च्छनाः ?, उच्यते, गान्धारादिस्वरूपमाचनेन गायतोऽतिमधुरा अन्यान्यस्वरविशेषा यान् कुर्वन्नास्तां श्रोतॄन् मूर्च्छितान् करोति किन्तु स्वयमपि मूर्च्छित इव तान् करोति, यदिवा स्वयमपि साक्षान्मूर्च्छा करोति, तथा चोक्तम्
119 11
“अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भणिया । कत्तावि मुच्छितो इव कुणए मुच्छं व सोवेति ॥”
गान्धारस्वारान्तर्गतानां च मूर्च्छनानां मध्ये सप्तमी उत्तरमन्दाभिदाना मूर्च्छना किलातिनकर्षप्राप्ता ततस्तदुत्पादनया च मुख्यवृत्या वादयिता मूर्च्छितो भवति, परमभेदोपचारात् वीणाऽपि मूर्च्छितेत्युक्ता, साऽपि यद्यङ्के सप्रतिष्ठिता न भवति ततो न मूर्च्छनाप्रकर्ष विदधाति तत आहअङ्के-स्त्रियाः पुरुषस्य वा उत्सङ्गे सुप्रतिष्ठितायाः, तथा कुशलेनवादननिपुणेन नरेण पुरुषेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org