________________
२१२
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१६४
वा' परिभोगायोपभुज्यमानानां, कवचित्पाठः 'परिभाएजमाणाणदा' इति, तत्र परिभाज्यमानानां' पार्श्ववर्तिभ्यो मनाग २ दीयमानानां 'भंडाओ भंडं साहरिजमाणाण वा' इति 'भाण्डात्' स्थानादेकस्माद् अन्यद् भाण्डं-भाजनान्तरं संह्रियमाणानाम् 'उदाराः' स्फाराः, ते चामनोज्ञा अपिस्युरतआह-'मनोज्ञाः' मनोऽनुकूलाः, तच्च मनोज्ञत्वंकुतः? इत्याह-'मनोहराः' मनोहरन्तिआत्मवशंनयन्तीतिमनोहराः, यतस्ततोमनोहरत्वंकुतः? इत्याह-घ्राणमनोनिवृतिकराः, एवंभूताः 'सर्वतः' सर्वासुदिक्षु समन्ततः' सामस्त्येन गन्धाः अभिनिस्रवन्ति' जिघ्रतामभिमुखं निस्सरन्ति, एवमुक्ते शिष्यः पृच्छति-'भवे एयारूवे' इत्यादि प्राग्वत् ॥ तेषां मणीनां तृणानां च कीशः स्पर्श प्रज्ञप्तः?, भगवानाह-गौतम ! ‘से जहा नाम ए' इत्यादि, तद्यथा
'अजिनकं चर्ममयं वस्त्र रूतं च प्रतीतं 'बूरः' वनस्पतिविशेषः 'नवनीतं' म्रक्षणं हंसगर्भतूली शिरीषकुसुमनिचयश्चप्रतीतः 'बालकुमुदपतरासीइवे'तिबालानि-अचिरकालजातानि यानि कुमुदपत्राणि तेषां राशि कुमुदपत्रराशि, कवचित् बालकुसुमपत्रराशिरिति पाठः, भवे एयारवें' इत्यादिप्राग्वत्। 'तेसिणंभंते!' इत्यादि, तेषांभदन्त!तृणानांपूर्वापरदक्षिणोत्तरागवैतिः 'मन्दायं मन्दायमिति मन्दं मन्दम् ‘एजितानां' कम्पितानां 'व्येजितानां' विशेषतः कम्पितानाम्, एतदेव पर्यायशब्देन व्याचष्टे-कम्पितानां तथा 'चालितानाम्' इतस्ततो विक्षिप्तानाम्, एतदेव पर्यायेण व्याचष्टे स्पन्दितानां तथा 'संघट्टितानां' परस्परं गर्षयुक्तानां, कथं घट्टिताः ? इत्याह--'क्षोभिताना' स्वस्थानाच्चालितानां, स्वस्थानान्चालनमपिकुतः? इत्याह-'उदीरितानाम्' उयाबल्येनेरितानां--प्रेरितानां, कीद्दशः शब्दः प्रज्ञप्तः ?
भगवानाह-'गोयमे' त्यादि, गौतम! सयथानामकः-शिबिकाया वा स्पन्दमानिकायां वारथस्य वा, तत्र शिबिका-जम्पानविशे,रूपा उपरिच्छादिता कोष्ठाकारा, तथा दीर्घो-जम्पानविशेषः पुरुषस्य स्वप्रमाणावकाशदायी स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पाटितयोः क्षुद्रहेमघण्टिकादिचलनवशतोवेदितव्यः, रथश्चेह सङ्गामरथः प्रत्येयो, नक्रीडारथः, तस्यग्रेतनविशेषणानामसंभवात्, तस्य च फलकवेदिकायस्मिन्काले (यः) पुरुषस्तदपेक्षया कटिप्रमाणाऽवसेया, तस्य च रथस्य विशेषणान्यभिधत्ते
"सच्छत्तस्से'त्यादि, सच्छत्रस्य सध्वजस्य 'सघण्टाकस्य उभयपाविलम्बिमहाप्रमाणघण्टोपेतस्य सपताकस्य सह तोरणवरं-प्रधानं तोरणं यस्य स सतोरणवरस्तस्य सह नन्दिघोषो द्वादशतूर्यनिनादोयस्यसयसनन्दिघोषस्तस्य, तथा सहकिङ्किणीभि-क्षुरघण्टाभिर्वर्तन्त इति सकिङ्किणीकानि यानि हेमजालानि हेममयदामसमूहास्तैः सर्वासुदिक्षु पर्यन्तेषु-बहिप्रदेशेषु परिक्षिप्तो-व्याप्तः सकिङ्किणीकहेमजालपर्यन्तपरिक्षिप्तस्तस्य, तथा हैमवतं-हिमवत्पर्वतभावि चित्रविचित्रं-मनोहारिचित्रोपेतं तैनिशं तिनिशदारुसम्बन्धि कनकनियुक्तं-कनकविच्छुरितं दारु-काष्ठं यस्य स हैमवतचित्रविचित्रतैनिशकनकनियुक्तदारुस्तस्य, सूत्रे च द्वितीयककारः स्वार्थिकः पूर्वस्य च दीर्घ प्राकृतत्वात्, तथा सुष्टु-अतिशयेन सम्यक् पिनद्धमरकमण्डलं धूश्च यस्य स सुपिनद्धारकमण्डलधूष्कस्तस्य।।
तथा कालायसेन-लोहेन सुष्टु-अतिशयेन कृतं नेमेः-बाह्यपरिधेर्यन्त्रस्य च-अरकोपरि फलकचक्रवालस्य कर्म यस्मिन् स कालायससुकृतनेमियन्त्रका तस्य, तथा आकीर्णा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org