________________
२११
प्रतिपत्तिः-३, दीव० सुवर्णस्ययः कषपट्टके निघर्षस वरकनकनिघर्ष, वरपुरुषो-वासुदेवस्तस्यवसनंवरपुरुषवसनं, तद्धि किल पीतेव भवतीति तदुपादनम्, अ(सोल्लकीकुसुमं लोकतोऽवसेयं 'चम्पककुसुमं' सुवर्णचम्पककुसुमं 'कूष्माण्डीकुसुमं' पुष्पफलीकुसुमं कोरण्टकः-पुष्पजातिविशेषस्तस्य दाम कोरण्टकदामतडवडाआउली तस्याः कुसुमं तडवडाकुसुमंघोषातकीकुसुमं सुवर्णयूथिकाकुसुमं चप्रतीतंसुहरिण्यका-वनस्पतिविशेषस्तस्याः कुसुमं सुहरिण्यकाकुसुमंबीयको-वृक्षः प्रतीतस्तस्य कुसुमंबीयककुसुमं पीताशोकपीतकणवीरपीतबन्धुजीवाः प्रतीताः भवे एयारूवे' इत्यादिप्राग्वत् 'तत्थ णमित्यादि, तत्रतेषां मणीनांतृणानांचमध्ये येते शुक्ला मणयस्तृणानिचतेषामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा
सेजहानामए' इत्यादि, सयथानाम-'आप' रत्नविशेषः शङ्खचन्द्रकुमुदोदकरजोदधिधनक्षीरपूरक्रञ्चावलिहारावलिहंसावलिबलाकावलयः प्रतीताः 'चन्द्रावली' तडाकादिषु जलमध्यप्रतिबिम्बितचन्द्रपङ्कित सारइयबलाहगेइवा' इति शारदिकः-शरत्कालभावी बलाहको-मेघः 'धंतधोयरुप्पपट्टेइ वे'ति, ध्मातः-अग्निसंपर्केण निर्मलीकृतो धौतो-भूतिखरण्टितहस्तसन्मार्जनेनातिनिशितीकृतोयो रूप्यपट्टो-रजतपत्रंस मातधौतरूप्यपट्टः, अन्ये तुव्याचक्षतेमातेन-अग्नसंयोगेन यो धौतः-शोधितो रूप्यपट्टः स मातरूप्यपट्टः, शालिपिष्टराशिशालिक्षोदपुनः कुन्दपुष्पराशि कुमुदराशिश्चप्रतीतः, 'सुकुकछेवाडियाइवा' इति छेवाडी नामवल्लादिफलिका, साच कचिद्देशविशेषे शुष्का सती शुक्ला भवति ततस्तदुपादानं, पेहुणमिंजियाइ वा' इति पेहुणं-मयूरपिच्छं तन्मध्यवर्तिनी मिञा पेहुणमिमिका सा चातिशुक्लेति तदुपन्यासः, बिसं-पद्मिनीकन्दः मृमालं पद्मतन्तुः, गजदन्तलवङ्गदलपुण्डरीकदलश्वेतकणवीरश्वेतबन्धुजीवाः प्रतीताः, 'भवेयास्ववे' इत्यादि प्राग्वत् ॥ तदेवमुक्तं वर्णस्वरूपं, सम्प्रति गन्धस्वरूपप्रतिपादनार्थमाह-'तेसिणंमणीणं तणाण य इत्यादि, तेषां मणीनां तृणानांच कीशो गन्धः प्रज्ञप्तः?, भगवानाह--
___ 'से जहा नाम ए' इत्यादि, प्राकृतत्वात् 'से' इति बहुवचनार्थ, ते यथा नाम गन्धा अभिनिश्रवन्तीति सम्बन्धः, कोष्ठं-गन्धद्रव्यंतस्यपुटाः कोष्ठपुटास्तेषां, वाशब्दाः सर्वत्रापसमुच्चये, इहैकस्य पटस्य नताशो गन्ध आयाति द्रव्यस्याल्पत्वात ततो बहवचनं,तगरमपिगन्धद्रव्यम, “एलाः' प्रतीताः 'चोयगं' गन्धद्रव्यं चम्पकदमनककुमचन्दनोशीरमरुबकजातीयूथिकामल्लिकास्नानमल्लिकाकेतकीपाटलानवमालिकावासकर्पूराणि प्रतितानि नवरमुशीरं-वीरणीमूलं स्नानमल्लिका-स्नानयोग्योमल्लिकाविशेषः एतेषामनुवाते-आघ्रायकविवक्षितपुरुषाणामनुकूले वाते वातिसति उद्भिद्यमानानाम्' उद्घाटयमानानां, चशब्दः सर्वत्रापिसमुच्चये, निर्भिद्यमानानां' नितरां-अतिशयेन भिद्यमानानां 'कोट्टिजमाणाण वा' इति, इह पुटैः परिमितानि यानि कोष्ठादिगन्धद्रव्याणितान्यपि परिमेये परिमाणोपचारात्कोष्ठपुटानीत्युच्यन्तेतेषां 'कुट्टयमानानाम्' उदूखले कुट्टयमानानां रुविजमाणाणवा' इति श्लक्ष्णखण्डीक्रियमाणानाम्, एतच्च विशेषणद्वयं कोठादिद्रव्याणामवसेयं, तेषामेव प्रायः कुट्टनश्लक्ष्णखण्डीकरणसम्भवात्, न तु यूथिकादीनाम्
___'उक्किरिज्जमाणाणवा' इति क्षुरिकादिभिकोष्ठादिपुटानांकोष्ठादिद्रव्याणांवा उत्कीर्यमाणानां 'विक्खरिज्जमाणाम वा' इति 'विकीर्यमाणानाम्' इतस्ततो विप्रकीर्यमाणानां परिभुजमाणाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org