________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १६४
कमनीयतरका एव, अत एव 'मनोज्ञतरकाः' मनसा ज्ञायन्ते - अनुकूलतया स्वप्रवृत्तिविषयीक्रियन्त इति मनोज्ञा - मनोऽनुकूलास्ततः प्रकर्षविवक्षायां तरपप्रत्ययः, तत्र मनोज्ञतरमपि किञ्चिन्मध्यमं भवति ततः सर्वोत्कर्षप्रतिपानार्थमाह- 'मनआपतरका एव' द्रष्टृणां मनांसि आप्नुवन्ति प्राप्नुवन्ति आत्मवशतां नयन्तीति मनआपास्ततः प्रकर्षविवक्षायां तरपप्रत्ययः, प्राकृतत्वाच्च पकारस्य मकारे मणामतरा इति भवति तथा 'तत्थ ण' मित्यादि, तत्र तेषां मणीनां तृणानां च मध्ये ये ते नीला मणयस्तृणानि च तेषामयमेतद्रूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा
२१०
'से जहा नाम ए' इत्यादि, स यथा नाम - 'भृङ्गः' कीटविशेषः पक्ष्मलः शृङ्गपत्रं - तस्यैव भृङ्गाभिधानस्य कीटविशेषस्य पक्ष्म 'शुकः' कीरः 'शुकपिच्छं' शुकस्य पत्रं 'चाषः' पक्षिविशेषः 'चाषपिच्छं' चाषपक्ष: 'नीली' प्रतिता 'नीलीभेदः' नीलीच्छेदः 'नीलीगुलिया' नीलीगुटिका 'श्यामाकः ' धान्यविशेषः 'उच्चंतगे वा' इति 'उच्चन्तगः' दन्तरागः 'वनराजी' प्रतिता हलधरोबलदेवस्तस्य वसनं हलधरवसनं तच किल नीलं भवति, सदैव तथास्वभावतया हलधरस्य नीलवस्त्रपरिधानात्, मयूरग्रीवापारापतग्रीवाऽतसीकुसुमबाणकुसुमानि प्रतीतानि, अत ऊर्द्ध क्वचित् 'इंदनीलेइ वा महानीलेइ वा मरगतेइ वा' तत्र इन्द्रनीलमहानीलमरकता रत्नविशेषाः प्रतीताः, अञ्जनकेशिका - वनस्पतिविशेषस्तस्याः कुसुममञ्जनकेशिकाकुसुमं 'नीलोत्पलं' कुवलयं नीलाशोकनीलकणवीरनीलबन्धुजीवा अशोकादिवृक्षविशेषाः, 'भवे एयारूवे' इत्यादि प्राग्वद् व्याख्येयम् । तथा 'तत्थ ण' मित्यादि, तत्र तेषां मणीनां मध्ये ये ते लोहिता मणयस्तृणानि च तेषामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-
'से जहा नाम ए' इत्यादि, स यथा नाम शशकरुधिरमुरभ्र- ऊरणस्तस्य रुधिरं वराहः - शूकरस्तस्य रुधिरं मनुष्यरुधिरं महिषरुधिरं च प्रतीतं, एतानि हि किल शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, 'बालेन्द्रगोपकः' सद्योजात इन्द्रगोपकः, स हि प्रवृद्धः सन्नीषत्पाण्डुरक्तो भवति ततो बालग्रहणम्, इन्द्रगोपकः --प्रथमप्रावृट्कालभावी कीटविशेषः 'बालदिवाकरः' प्रथममुद्गच्छन् सूर्य 'सन्ध्याभ्ररागः ' वर्षासु सन्ध्यासमयभावी अभ्ररागः गुञ्जालोकप्रतीता तस्या अर्द्ध रागो गुआर्द्धरांगः, गुञ्जाया हि अर्द्धमतिरक्तं भवति अर्द्धमतिकृष्णं ततोगुआर्द्धग्रहणं, जपाकुसुमकिंशुककुसुमपारिजातकुसुमजात्यहिङ्गुलकाः - प्रतीताः 'सिलाप्रवालं' प्रवालनामा रत्नविशेषः प्रवालाङ्कुरः तस्यैव रत्नविशेषस्य प्रवालाभिधस्याङ्करः, स हि प्रथमोद्गतत्वेनात्यन्तरक्तो भवति ततस्तदुपादानं, लोहिताक्षमणिर्नाम रत्नविशेषः, लाक्षारस कृमिरागरक्तकम्बलचीनपिष्टराशिरक्तोत्पलरक्ताशोकरक्तकणवीररक्तबन्धुजीवाः प्रतीताः 'भवे एयारूवे' इत्यादि प्राग्वत् ॥ 'तत्य ण' मित्यादि, तत्र तेषां मणीनां तृणानां च मध्य ये हरिद्रा मणयस्तृणानि च तेषामयमेतद्रूपो 'वर्णावासः' वर्णकविशेषः प्रज्ञप्तः, तद्यथा
'से जहा नाम ए' इत्यादि, स यथा नाम - चम्पकः सामान्यतः सुवर्णचम्पको वृक्षः 'चम्पकच्छल्ली' सुवर्णचम्पकत्वक् ‘चम्पकभेदः' सुवर्णचम्पकच्छेदः 'हरिद्रा' प्रतीता 'हरिद्राभेदः ' हरिद्राच्छेदः 'हरिद्रागुलिका' हरिद्रासारनिर्वर्त्तिता गुलिका 'हरितालिका' पृथ्वीविकाररूपा प्रतीता 'हरितालिकाभेदः' हरितालिकाच्छेदः 'हरितालिकागुलिका' हरितालिकासारनिर्वर्त्तिता गुटिका 'चिकुरः' रागद्रव्यविशेषः 'चिकुराङ्गरागः' चिकुरसंयोगनिमित्तो वस्त्रदी रागः, वरकनकस्यात्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org