________________
प्रतिपत्तिः-३, दीद०
२०७
'अविरलपत्ता' इति, अत्र हेतीप्रथमा ततोऽयमर्थ-यतोऽविरलपत्राअतोऽच्छिद्रपत्राः, अविरलपत्रा अपि कुतः? इत्याह-'अवातीनपत्राः' वातीनानि-वातोपहतानि वातेनपातितानीत्यर्थःनवातीनानि अवातीनानिपत्राणियेषां ते तथा, किमुक्तं भवति?-नतत्रप्रबलो वातः खरपरुषो वाति येन पत्राणि त्रुटित्वा भूमौ निपतन्ति, ततोऽवातीनपत्रत्वादविरलपत्रा इति, अच्छिद्रपत्रा इत्यत्र प्रथमव्याख्यानपक्षमधिकृत्य हेतुमाह
___'अणईइपत्ता' न विद्यते ईतिः-गड्डरिकादिरूपा येषां तान्यनीतीनि जरठानि पाण्डूनि पत्राणियेभ्यस्ते निर्द्धतजरठपाण्डुपत्राः, किमुक्तं भवति?-यानि वृक्षस्थानिजरठानिपाण्डूनि पत्राणि तानि वातेन नि यनिर्दूय भूमौ पात्यन्ते भूमेरपिच प्रायो निर्दूय नि यान्यत्रापसार्यन्त इति, 'नवहरियभिसंतपतंधयारगंभीरदरसणिज्जा' इति नवेन-प्रत्यग्रेण हरितेन-नीलेन भासमानेन-स्निग्धत्वचादीप्यमानेन पत्रभारेण-दलसञ्चयेनयोजातोऽन्धकारस्तेन गम्भीरा-अलब्धमध्यभागाः सन्तोदर्शनीया नवहरितभासमानपत्रान्धकारगम्भीरदर्शनीयाः, तथा उपविनिर्गतैःनिरन्तरविनिर्गतर्नवतरुणपल्लवैः तथा कोमलैः-मनोज्ञैरुज्वलैः-शुद्धैश्चलभि-ईषत्कम्पमानैः किशलयैः-अवस्थाविशेषोपेतैः पल्लवविशेषैः तथा सुकुमारैः प्रवालैः-पालवाङ्कुरैः शोभितानि वराङ्कुराणि-वराङ्कुरोपेतानि अग्रशिखराणि येषांतेउपविनिर्गतवतरुणपत्रपल्लवकोमलोज्ज्वलचलत्किशलयसुकुमारप्रवालशोभितवराङ्कुराग्रशिखराः, इहाकुरप्रवालयोःकालकृतावस्थाविशेषाद्विशेषो भावनीयः। 'निचं कुसुमिया निच्चं मउलिया निचं लवइया निच्चं वइया निच्चं गोच्छिया निचं जमलिया निचं जुयलिया निचं विणमिया निच्चं पणमिया निचं कुसुमियमउलियलवइयथवइयगुलइय- गोच्छियजमलियजुगलियवगमियपणमियसुविभत्तप(पि)डिमंजरिवडंसगधरा' इति पूर्ववत्, तथा शुकवर्हिणमदनशलाकाकोकिलकोरकभिङ्गारककोंडलजीवंजीवकनन्दीमुखकपिलपिङ्गलाक्षका-रण्डवचक्रवाककलहंससारसाख्यानामनेकेषांशकुनगणानां मिथुनैः-स्त्रीपुंसयुग्मैर्विचरितं- इतस्ततो गतं यच्च शब्दोन्नतिकम् उन्नतशब्दकं मधुरस्वरं च नादितं-लपितं येषुतेतथा, अतएव सुरमम्याः-सुष्टुरमणीयाः, अत्रशुकाः-कीराःबर्हिणो-मयूरा मदनशलाकाशारिका कोकिला-ऽपि चक्रवाककलहंससारसा:-प्रतीताः, शेषास्तु जीवविशेषा लोकतो वेदितव्याः।
तथा संपिण्डिताः-एकत्र पिण्डीभूता हप्ता-मदोन्मत्ततया दामाता भ्रमरमधुकरीणां पहकराः-साताः, 'पहकरओरोहसंघाया' इति देशीनाममालावचनात्, यत्रतेसंपिण्डितहप्तमधुकरभ्रमरमधुकरीपहकराः, तथा परिलीयमानाः-अन्यत आगत्यागत्य श्रयन्तो मत्ताः षट्पदाः कुसुमासवलोलाः-किअल्कपानलम्पटामधुरंगुमगुमायमानाः गुअन्तश्च-शब्दविशेषंचविदधाना देशभागेषु तस्मिन् तस्मिन् देशभागे येषां ते परिलीयमानमत्तषटपदकुसुमासवलोलमधुरगुमगुमायमानगुञ्जन्तदेशभागाः,गमकत्वादेवमपि समासः, ततोभूयः पूर्वपदेन सह विशेषणसमासः, तथाऽभ्यन्तराणि-अभ्यन्तरवर्तीनिपुष्पाणिफलानिच पुष्पफलानि येषांतेतथा, 'बाहिरपत्तच्छन्ना' इति बहिपत्रैश्छन्ना-व्याप्ता बहिपत्रछन्नाः, तथा पत्रैश्च पुष्पैश्च 'अवच्छत्रपरिच्छन्ना' अत्यन्तमाच्छादिताः।
तथा 'नीरोगाः रोगवर्जिताः ‘अकण्टकाः' कण्टकरहिताः, नैतेषु मध्येबबूलकादिवृक्षाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org