________________
२०६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१६४ भ्रान्तोऽपि भवति यथामरुमरीचिकासुजलावभासः ततो नावभासमात्रोपदर्शनेन यथाऽवस्थितं वस्तुस्वरूपमुक्तं वर्णितं भवति किन्तु यथास्वरूपप्रतिपादनेन ततः कृष्णत्वादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुरस्सरं विशेषणान्तरमाह
'किण्हे किण्हच्छाये' इत्यादि, कृष्णो वनखण्डः, कुतः? इत्याह-कृष्णच्छायः, निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मितिवचनाद्धेतौ प्रथमा, ततोऽयमर्थ-यस्मात् कृष्णा छाया-आकारःसर्वाविसंवादितयातस्यतस्मात्कृष्णः, एतदुक्तं भवति-सर्वाविसंवादितया तत्र कृष्ण आकार उपलभ्यते, नच भ्रान्तावभाससंपादितसत्ताकः सर्वाविसंवादी भवति, ततस्तत्ववृत्या सकृष्णोन भ्रान्तावभसमात्रव्यवस्थापित इति, एवं नीलोनीलच्छाय इत्यापिभावनीयं, नवरं शीतः शीतच्छाय इत्यत्रछायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः ।।
'घणकडियइच्छाए' इतिइह शरीरस्य मध्यभागेकटिस्ततोऽन्यस्यापिमध्यभागः कटिरिव कटिरित्युच्यते, कटिस्तटमिवकटितटंघना-अन्यान्यशाखाप्रशाखानुप्रवेशतोनिबिडा कटितटेमध्यभागे छाया यस्य स घनकटितटच्छयाः, मध्यभागे निबिडतरच्छाय इत्यर्थः, क्वचित्पाठः 'घनकडियकडच्छाए' इति, तत्रायमर्थ-कटः सातोऽस्येति कटितः कटान्तरेणोपरि आवृत इत्यर्थ कटितश्चासौ कटश्च कटितकटः घना-निबिडा कटितकटस्येवाधोभूमी छाया यस्य स घनकटिकटच्छायः अत एव रम्यो-रमणीयः, तथा महान्-जलभारावनतः प्रावृट्कालभावी मेघनिकुरम्बो-मेघसमूहस्तं भूतो-गुणैः प्राप्तो महामेघनिकुरम्बभूतः महामेघवृन्दोपम इत्यर्थः । ___तेणंपायवा' इत्यादि, 'ते' वनषण्डान्तर्गताः पादपा मूलवन्तः' मूलानिप्रभूतानि दूरावगाढानि च सन्त्यषामिति मूलवन्तः, कन्द एषामस्तीति कन्दवन्तः, एवं स्कन्धवन्तस्त्वग्वन्तः शालावन्तःप्रवालवन्तः पत्रवन्तःपुष्पवन्तः फलवन्तो बीजदन्त इत्यपि भावनीयं, तत्र मूलानिप्रसिद्धानियानिकन्दस्याधःप्रसरन्तिकन्दास्तेषां मूलानामुपरिवर्तिनस्तेऽपिप्रतीताः, स्कन्धः-स्थुडं यतो मूलशाखाः प्रभवन्ति, त्वक्-छल्लीशाला-शाखा प्रवालः-पल्लवाङ्कुरः पत्रपुष्पफलबीजानि सुप्रसिद्धानि, सर्वत्रातिशायने कचिद्भम्रि वा मतुपप्रत्ययः ।
'अणुपुव्वसुजाइरुइलवट्टभावपरिणया' इति आनुपूर्व्या-मूलादिपरिपाटया सुष्टु जाता आनुपूर्वीसुजाता रुचिलाः--स्निग्धतया देदीप्यमानच्छविमन्तः, तथा वृत्तभावेन परिणता वृत्तभावपरिणताः, किमुक्तभवति? -एवं नाम सर्वासु दिक्षु विदिक्षुच शाखाभिप्रशाखाभिश्च प्रसृता यथा वर्तुलाः संजाता इति, आनुपूर्वीसुजाताश्च ते रुचिराश्च ते च ते वृत्तभावपरिणताश्च आनुपूर्वीसुजातरुचिरवृत्तभावपरिणताः, तथा ते पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते वाऽस्य स्त्रत्वमिति एगखंधी इतिपाठः, तथाऽनेकाभिशाखाभिप्रशाखाभिश्चमध्यभागेविटयो-विस्तारो येषां तेऽनेकशाखाप्रशाखाविटपाः, तथा तिर्यग्बाहुद्वयप्रसारणप्रमाणो व्यामः अनेकैनरव्यामैःपुरुषव्यामैः सुप्रसारितैरग्राह्यः-अप्रमेयोघनो-निबिडोविपुलो-विस्तीर्ण स्कन्धोयेषांते अनेकनरव्यामसुप्रसारिताग्राह्यधनविपुलवृत्तस्कन्धाः, तथाऽच्छिद्राणिपत्राणि येषांतेअच्छिद्रपत्राः, किमुक्तं भवति? -न तेषां पत्रेष वातदोषतः कालदोषतो वा गड्डरिकादिरीतिरुप-जायते, न तेषु पत्रेषु छिद्राणि भवन्तीत्यच्छिद्रपत्राः, अथवा एवंनामान्योऽन्यंशाखाप्रशाकानु-प्रवेशात्पत्राणिपत्राणामुपरि जातानि येन मनागप्यपान्तरालरूपंछिद्रंनोपलक्ष्यत इति, तथा चाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org