________________
२०८
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१६४
सन्तीति भावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, तथा स्निग्धानि फलानि येषां ते स्निग्धफलाः, तथा प्रत्यासनैनानाविधैः-नानाप्रकारैर्गुच्छः-वृन्ताकीप्रभृतिभिर्गुल्मैःनवमालिकादिभिर्मण्डपैःद्राक्षामण्डपकैरुपशोभिता नानाविधगुच्छगुल्ममण्डपकशोभिताः, तथा विचित्रैः-नानाप्रकारैः शुभैः-मङ्गलभूतैः केतुभः-ध्वजैर्बहुलाव्याप्ता विचित्रशुभकेतुबहुलाः ।
तथा 'वाविपुक्खरिणीदीहियासु य निवेसिपरम्मजालघरगा' वाप्यः-चतुरम्नाकारास्ता एव वृत्ताः पुष्करिण्यः यदिवा पुष्कराणि विद्यन्ते यासुताः पुष्करिण्यः दीर्धिका-ऋजुसारिण्यः वापीपुष्करिणीषु दीर्धिकासु च सुष्ठु निवेशितानि रम्याणि जालगृहकाणि येषु ते वापीपुष्करिणीदीर्धिकासुनिवेशितरम्यजालगृहकानि, तथा पिण्डिता सती निर्हारिमादूरे विनिर्गच्छन्ती पिण्डिमनीहारिमा तां सुगन्धि-सुद्गन्धिकां शुभसुरभिभ्यो गन्धानेभ्यः सकाशान्मनोहरा शुभसुरभिमनोहरा तां च 'महया' इति प्राकृतत्वाद्वितीयार्थे तृतीया महतीमित्यर्थ, गन्धध्राणिं यावद्भिर्गन्धपुद्गलैर्गन्धविषये धामिरुपजायते तावती गन्धपुद्गलसंहतिरुपचाराद् गन्धध्राणिरित्युच्यते तां निरन्तरं मुञ्चन्तः।
तथा 'सुहसेउकेउबहुला' इति शुभाः-प्रधानाः सेतवो-मार्गा आलवालपाल्यो वा केतवो-ध्वजा बहुला-अनेकरूपायेषांते तथा, 'अनेगरहजाणजुग्गसिबियसंदमाणिपडिमोयणा' इति, तथा रथा द्विविधाः-क्रीडारथाः सङ्ग्रामरथाश्च, यानानि सामान्यतः, शेषाणि वाहनानि, युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानानि शिबिकाःकूटाकारेणाच्छादिता जपानविशेषाः स्यन्दमानिकाः-पुरुषप्रमाणा जम्पानविशेषाः, अनेकेषां रथादीनामधो विस्तीर्णत्वात् प्रतिमोचनं येषु ते तथा, 'पासाइया' इत्यादि पदचतुष्टयं प्राग्वत् ।
____ 'तस्सणं वनसंडस्से'त्यादि, तस्यणमितिपूर्ववद्वनषण्डस्य अन्तः' मध्य बहुसमः सन् रमणीयो बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, किंविशिष्ट ? इत्याह- ‘से जहा नामए' इत्यादि, 'तत्' सकललोकप्रसिद्धं यथेति दृष्टान्तोपदर्शने नामेति शष्यामन्त्रणे 'ए' इति वाक्यालङ्कारे 'आलिंगपुक्खरेइवा' इतिआलिङ्गो-मुरजो वाद्यविशेषस्तस्य पुष्करं-चर्मपुटकंतकिलात्यन्तसममितितेनोपमा क्रियते, इतिशब्दाः सर्वेऽपि स्वस्वोपमाभूतवस्तुपरिसमाप्तिद्योतकाः वाशब्दाः समुच्चयेमृदङ्गो लोकप्रतीतोमर्दलस्तस्य पुष्करंमृदङ्गपुष्करं परिपूर्ण-पानीयेन भृतंतडागं-सरस्तस्य तलं-उपरितनो भागः सरस्तलं 'करतलं' प्रतीतं, चन्द्रमण्डलं च यद्यपि तत्ववृत्या उत्तानीकृतकपित्थाकारपीठप्रासादापेक्षया वृत्तालेखमिति तद्गतो दृश्यमानो भागोन समतलस्तथाऽपि प्रतिभासते समतल इति तदुपादानम्, आदर्शमण्डलं सुप्रसिद्धम् ।
'उरमचम्मेइवे'त्यादि, अत्रसर्वत्रापि अनेगसंकुकीलगसहस्सवितते' इति विशेषणयोगः, उरभ्रः-ऊरणः वृषभवराहसिंहव्याघ्रछगलाः प्रतीताःद्वीपी-चित्रकः, एतेषांप्रत्येकंचने अनेकैः शप्रमाणैः कीलकसहनेः-महद्भिः कीलकैरताडितंप्रायोमध्यक्षामं भवतिनसमतलं तथारूपतडाकासम्भवात् अतः शङ्खग्रहणं, विततं-विततीकृतं ताडितमिति भावः, यथाऽत्यन्तं बहुसमं भवति तथा तस्यापि वनषण्डस्यान्तर्बहुसमो भूमिभागः, पुनः कथम्भूतः ? इत्याह
'नानाविहपंचवन्नेहिंमणीहिंतणेहि य उवसोभिए' इति योगः, नानाविधा-जातिभेदान्नानाप्रकारा ये पञ्चवर्णा मणयस्तृणानि च तैरुपशोभितः, कथम्भूतैर्मणिभि? इत्याह-'आवडे'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org