________________
२००
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १६३ जालेन सर्वरत्नमयपद्मात्मकेन दामसमूहेन 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सर्वासु विदिक्षु परिक्षिप्ता, एतानि च दामसमूहरूपाणि हेमजालादीनि जालानि लम्बमानान वेदितव्यानि, तथा चाह
'ते णं जाला' इत्यादि, तानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, प्राकृते हि लिङ्गमनियतमिति, णमिति पूर्ववत् हेमजालादीनि कचित् दामा इति पाठः तत्र ता हेमजालादिरूपा दामान इति व्याख्येयं, 'तवणिजलंबूसगा' तपनीयम् - आरक्तं सुवर्णं तन्मयो लम्बूसगो-दाम्नामग्रिमभागे मण्डनविशेषो येषां तानि तपनीयलम्बूसकानि 'सुवण्णपयरगमंडिया' इति पार्श्वतः सामस्त्येन सुवर्णप्रतरकेण - सुवर्णपत्रकेण मण्डितानि सुवर्ण प्रतरकमण्डितानि, 'नानामणिरयणविविहहारद्धहारउवसोभियसमुदया' इति नानारूपाणां मणीनां रत्नानां च ये विविधा - विचित्रवर्णा हाराअष्टादशसरिका अर्द्धहारा - नवसरिकास्तैरुपशोभितः समुदायो येषां तानि ।
तथा 'ईसिसनमन्नमसंपत्ता' इधि ईषत् मनाग् अन्योऽन्यं - परस्परमसंप्राप्तानिअसंलग्नानि पूर्वापरदक्षिणोत्तरागतैवतिः 'मंदायं मंदायं' इति मन्दं मन्दम् एज्यमानानिकम्प्यमानानि 'भृशाभीक्ष्णयाविच्छेदे द्वि प्राक्मबादेः' इत्यविच्छेदे द्विर्वचनं यथा पचति पचतीत्यत्र, एवमुत्तरत्रापि, ईषत्कम्पनवशादेव च प्रकर्षत इतस्ततो मनाक् चलनेन लम्बमानानि प्रलम्बमानानि, ततः परस्परसंपर्कवशतः 'पझंझमाणा पझंझमाणा' इति शब्दायमानानि शब्दायमानानि 'उदारेण' स्फारेण शब्देनेति योगः, स च स्फारशब्दो मनः प्रतिकूलोऽपि भवति तत आह- 'मनोज्ञेन' मनोऽनुकूलेन, तच मनोऽनुकूलत्वं लेशतोऽपि स्यादत आह- 'मनोहरेण' मनांसि श्रोतॄणां हरतिआत्मवशं नयतीति मनोहरः, 'लिहादे' राकृतिगणत्वादचप्रत्ययः, तेन, तदपि मनोहरत्वं कुतः ? इत्याहकर्णमनोनिर्वृतिकरेण - 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायोदर्शन' मिति वचनाद् ती तृतीया, ततोऽयमर्थः यतः श्रोतृकर्णयोर्मनसश्च निर्वृतिकरः- सुखोत्पादकस्ततो मनोहरस्तेन, इत्थम्भूतेन शब्देन तान् प्रत्यासन्नान् प्रदेशान् 'सर्वतः ' दिक्षु 'समन्ततः' विदिक्षु आपूरयन्ति शत्रन्तस्य शाविदं रूपं तत एव 'श्रिया' शोभयाऽतीव उपशोभमानानि उपशोभमानानि तिष्ठन्ति ।।
'तीसे ण' मित्यादि, तस्याः पद्मवरवेदिकायास्तत्र तत्र देशे २ 'तहिं तहिं' इति तस्यैव देशस्य तत्र तत्रैकदेशे, एतावता किमुक्तं भवति ? - -यत्र देशे एकस्तत्रान्येऽपि विद्यन्त इति, बहवे 'हयसंघाडा' हययुग्मानि सङ्काटशब्दो युग्मवाची यथा साधुसङ्घाट इत्यत्र, एवं गजनरकिंनरकिंपुरुष, महोरगगन्धर्ववृषभसङ्घाटा अपि वाच्याः एते च कथम्भूताः ? इत्याह- ' सव्वरयणामया' सर्वात्मना रत्नमयाः 'अच्छा' आकाशस्फटिकवदतिस्वच्छाः 'जाव पडिरूवा' इति यावत्करणात् 'सहा लण्हा घट्टा मठ्ठा' इत्यादिविशेषणकदम्बकपरिग्रहस्तच्च प्राग्वत् ।
*
एते च सर्वेऽपि हयसङ्घाटादयः सङ्घाटाः पुष्पावकीर्णका उक्ताः, सम्प्रत्येतेषामेव हयादीनां पङ्कयादिप्रतिपादनार्थमाह एवं पंतीओ वीहीओ एवं मिहुणगा' इति यथाऽमीषां हयादीनामष्टथनां सङ्खाटा उक्तास्तथा पङ्कयोऽपि वक्तव्या वीथयोऽपि मुथिनकानि च तानि चैवम्--'तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे देसे तहिं तहिं बहुया ओहयपंतीओ गयपंतीओ' इत्यादि, नवरमेकस्यां दिशि या श्रेणिसा पङ्क्तिरभिधीयते, उभयोरपि पार्श्वयोरेकैकश्रेणिभावेन यच्छ्रेणिद्वयं सा वीथी, एते च वीथीपङ्क्तिसङ्घाटा हयादीनां पुरुषाणामुक्ताः, साम्प्रतमेतेषामेव हयादीनां स्त्रीपुरुषयुग्मप्रतिपादनार्थं 'मिहुणाई' इत्युक्तम्, उक्तेनैव प्रकारेण हयादीनां मिथुनकानि स्त्रीपुरुषयुग्मरूपाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org