________________
१९९
प्रतिपत्ति:- ३, दीव०
एका पद्मवरवेदिका प्रज्ञता मया शेषैश्च तीर्थकृद्भिः, सा चोर्ध्वमुच्चैस्त्वेनार्द्धयोजनं द्वे गव्यूते पञ्च धनुःशतानि विष्कम्भेन 'जगतीसमिया' इति जगत्याः समा-समाना जगतीसमा सैव जगतीसमिका 'परिक्षेपेण' परिरयेण यावान् जगत्या मध्यभागे परिरयस्तावान् तस्या अपि परिरय इति भावः, 'सर्वरत्नमयी' सामस्त्येन रत्नात्मिका 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं पाठतोऽर्थतश्च प्राग्वत् ।
'तीसे ण' मित्यादि, तस्या णमिति पूर्ववत् पद्मवरवेदिकायाः 'अयं' वक्ष्यमाणः 'एतद्रूपः' एवंस्वरूपः ‘वर्णावासः' वर्ण श्लाघा यथावस्थितस्वरूपकीर्त्तनं तस्यावासो - निवासो ग्रन्थपद्धतिरूपो वर्णावासो वर्णकनिवेश इत्यर्थः ' प्रज्ञप्तः' प्ररूपितः, तद्यथेत्यादिना तदेव दर्शयति- 'वइरामया 'नेम्पा' इति नेमा नाम पद्मवरवेदिकाया भूमिभागादूर्द्ध निष्कामन्तः प्रदेशास्ते सर्वे 'वज्रमयाः' वज्ररत्नमयाः, वज्रशब्दस्य दीर्घत्वं प्राकृतत्वात्, एवमन्यत्रापि द्रष्टव्यं, रिष्ठमयानि प्रतिष्ठानानिमूलपादाः 'वेरुलियमया खंभा' इति वैडूर्यरत्नमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि लोहिताक्षरनात्मिकाः सूचयः फलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीयास्ते सर्वे 'वइरानया संधी' वज्रमयाः सन्धयः- सन्धिमेलाः फलकानां, किमुक्तं भवति ?
वज्ररत्नापूरिताः फलकानां सन्धयः 'नानामणिमया कलेवरा' इति नानामणिमयानि कलेवराणि - मनुष्यशरीराणि नानामणिमयाः कलेवरसङ्काटा - मनुष्यशरीरयुग्मानि नानामणिमयानि रूपाणि-रूपकाणि नानामणिमया रूपसङ्घाटाः- रूपयुग्मानि 'अङ्कामया पक्खा पक्खबाहातो य' इति अङ्को --रत्नविशेषस्तन्मयाः पक्षास्तदेकदेशाः पक्षबाहवोऽपि तदेकदेशभूता एवाङ्मयाः, आह च मूलटीकाकारः- “अङ्गमयाः पक्षास्तदेकदेशभूताः, एवं पक्षबाहवोऽपि द्रष्टव्या" इति, 'जोईरसामया वंसा वंसकवेल्लुया य' इति ज्योतीरसं नाम रत्नं तन्मया वंशाः- महान्तः पृष्ठवंशाः 'वंशकवा' इति महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्यमाना वंशाः कवेल्लुकानि प्रतीतानि 'रययामईओ पट्टियाओ' इति रजतमय्यः पट्टिका वंशानामुपरि कम्बास्थानीयाः 'जायरूवमईओ ओहाडणीओ' जातरूपं - सुवर्णविशेषस्तन्मय्यः 'ओहाडणीओ' अवघाटिन्यः आच्छादन हेतुकम्बोपरिस्थाप्यमान- महाप्रमाणकिलिञ्चस्थानीयाः, 'वइरामईओ उवरिं पुंछणीओ' इति 'वज्रमय्यो' वज्ररत्नात्मिका अवघाटनीनामुपरि पुञ्छ्न्यः - निविडतरच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः, उक्तं च मूलटीकाकारेण -
"ओहाडणी हीरग्गहणं महत् क्षुल्लकं तु पुञ्छनी इति, 'सव्वसेए रययामए सा णं छाणे' इति, सर्वश्वेतं रजतमयं पुञ्छनीनामुपरि कवेल्लुकानामध आच्छादनम् || 'साण'मित्यादि, 'सा' एवंस्वरूपा णमिति वाक्यालङ्कारे पद्मवरवेदिका तत्र तत्र प्रदेसे एकैकेन 'हेमजालेन' सर्वात्मना हेममयेन लम्बमानेन दामसमूहेन एकैकेन 'गवाक्षजालेन' गवाक्षाकृतिरत्नविशेषदामसमूहेन एकैकेन 'किङ्किणीजालेन' किङ्किण्यः- क्षुद्रघण्टिकाः एकैकेन घण्टाजालेन, किङ्किण्यपेक्षया किञ्चिन्महत्यो घण्टा घण्टाः, तथा एकैकेन 'मुक्ताजालेन' मुक्ताफलमयेन दामसमूहेन एकैकेन 'मणिजालेन' मणिमयेन दामसमूहेन एकैकेन 'कनकजालेन' कनकं पीतरूपः सुवर्णविशेषस्तन्मयेन दामसमूहेन एकैकेन 'मणिजालेन' मणिमयेन दामसमूहेन एकैकेन 'कनकजालेन' कनकं पीतरूपः सुवर्णविशेषस्तन्मयेन दामसमूहेन एकैकेन रत्नजालेन एकैकेन रत्नजालेन एकैकेन (वर) पद्म
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International