________________
१७२
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/म०/१४६ णात्यानांशष्कुलीकर्णमनुष्याणां शष्कुलीकर्णद्वीपो नाम द्वीपःप्रज्ञप्तः, आयामविष्कम्भपरिधिपरिमाणं हयकर्णद्वीपवत्, पद्मवरवेदिकावनषण्डमनुष्यादिस्वरूपंच समस्तमेकुरकद्वीपवत् ।
___ एवमेतेनाभिलापेनामीषांहयकर्णादीनांचतुर्णा द्वीपानांपरतोयथाक्रमंपूर्वोत्तरादिविदिक्षु पञ्च योजनशतानि लवणसमुद्रमवगाह्या पञ्चयोजनशतायामविष्कम्भा एकाशीत्यधिकपञ्चदशयोजनशतपरिक्षेपाः पद्मवरवेदिकावनषण्डमण्डितबाह्यप्रदेशाजम्बूद्वीपवेदिकान्तात्पञ्चयोजनशतप्रमाणान्तरा आदर्शमुखमेण्ढमुखायोमुखगोमुखनामानश्चत्वारो द्वीपा वक्तव्याः, तद्यथाहयकर्णस्यपरतआदर्शमुखोगजकर्णस्यपरतो मेण्ढमुखोगोकर्णस्य परतोऽयोमुखःशष्कुलीकर्णस्य परतो गोमुखः । एतेषामप्यादर्शमुखादीनांचतुर्णा द्वीपानांपरतो भूयोऽपियथाक्रमंपूर्वोत्तरादिविदिक्षु प्रत्येकं लवणसमुद्रं षट् षड् योजनशतान्यवगाह्य षडयोजनशतायामविष्कम्भाः सप्तनवत्यधिकाष्टादशयोजनशतपरिक्षेपाः पद्मवरवेदिकावनषण्डमण्डितपरिसरा जम्बूद्वीपवेदिकान्तात् षड्योजनशतप्रमाणान्तराअश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखनामानश्चत्वारो द्वीपावक्तव्याः, तद्यथा-आदर्शमुखस्य परतोऽश्वमुखः, मेण्ढमुखस्य परतो हस्तिमुखः, अयोमुखस्य परतः सिंहमुखः, गोमुखस्य परतो व्याघ्रमुखः ।
एतेषामश्वमुखादीनां चतुर्णा द्वीपानां परतो यथाक्रमंपूर्वोत्तरादिविदिक्षु प्रत्येकं सप्त सप्त योजनशतानि लवणसमुद्रमवगाह्य सप्तयोजनशतायामविष्कम्भास्रयोदशाधिकद्वाविंशतियोजनशतपरिरयाः पद्मवरवेदिकावनषण्डसमवगूढाः जम्बूद्वीपवेदिकान्तात्सप्तयोजनशतप्रमाणान्तरा अश्वकर्णहरिकर्णाकर्णकर्णप्रावरणनामानश्चत्वारो द्वीपाबोध्याः, तद्यथा-अश्वमुखस्यपरतोऽश्वकर्ण हस्तिमुखस्य परतो हरिकर्ण सिंहमुखस्य परतोऽकर्ण व्याघ्रमुखस्य परतः कर्णप्रावरणः, तत एतेषामप्यश्वकर्णादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकमष्टो अष्टौ योजनशतानि लवणसमुद्रमवगाह्याष्टयोजनशतायामविष्कम्भा एकोनत्रिंशदधिकपञ्चविंशतियोजनशतपरिक्षेपाः पद्मवरवेदिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिकान्तादष्टयोजनशतप्रमाणान्तरा उल्कामुखमेघमुखविद्युन्मुखविद्युद्दन्ताभिधानाश्चत्वारो द्वीपा वक्तव्याः
तद्यथा-अश्वकर्णस्य परत उल्कामुखः हरिकर्णस्य परतो मेघमुखः अकर्णस्य परतो विद्युन्मुखः कर्णप्रावरणस्य परतो विद्युद्दन्तः, एतेषामप्युल्कामुखादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं नव नव योजनशतानि लवणसमुद्रमवगाह्य नवनवयोजनशतायामविष्कम्भाः पञ्चचत्वारिंशदधिकाष्टाविंशतियोजनशतपरिक्षेपाः पद्मवरवेदिकावनखण्डसमवगूढाजम्बूद्वीपवेदिकान्तात् नवयोजनशतप्रमाणान्तरा घनदन्तलष्टदन्तगूढदन्तशुधदन्तनामानश्चत्वारो द्वीपाः, तद्यथा-उल्कामुखस्य परतो घनदन्तः मेघमुखस्य परतो लष्टदन्तः विद्युन्मुखस्य परता गूढदन्तः विद्युद्दन्तस्य परतः शुद्धदन्तः ।
एतेषामेव द्वीपानानवगादायमविष्कम्भपरिरयपरिमाणसङ्ग्रद्दगाथाषट्कमाह॥१॥ “पढमंमि तिनि उसया सेसाण सउत्तरा नव उ जाय।
ओगाहं विखंभं दीवाणं परिरयं वोच्छं। ॥२॥ पढमचउक्कपरिरया बीयचउक्कस्स परिरओ अहिओ।
सोलेहि तिहि उ जोयणसएहिं एमेव सेसाणं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org