________________
१५७
प्रतिपत्तिः -३, ति०-उद्देशकः २ स्थिति-रन्तर्मुहूर्तवक्तव्या॥सम्प्रति स्थितिनिरूपणाप्रस्तावान्नैरयिकादीनांचतुर्विंशतिदण्डकक्रमेण स्थिति निरूपयितुकाम आह- ‘नेरइयाणं भंते !' इत्यादि, नैरयिकाणां भदन्त ! कियन्तं कालं स्थिति प्रज्ञप्ता?, इत्येवं प्रज्ञापनागतस्थितिपदानुसारेण चतुर्विंशतिदण्डकक्रमेण तावद्वक्तव्यं यावत्सर्वार्थसिद्धविमान- देवानां स्थितिनिरूपणा, इह तु ग्रन्थगौरवभयान लिख्यते । तदेवं भवस्थितिनिरूपणा कृता, सम्प्रति कायस्थितनिरूपणार्थमाह
'जीवेणंभंते!' इत्यादि, अथ कायस्थितिरिति कः शब्दार्थ?, उच्यते, कायो नामजीवस्य विवक्षितः सामान्यरूपो विशेषरूपो वा पर्यायविशेषस्तस्मिन् स्थिति कायस्थिति, किमुक्तं भवति? -यस्य वस्तुनो येन पर्यायेण-जीवत्वलक्षणेन पृथिवीकायादित्वलक्षणेन वाऽऽदिश्यते व्यवच्छेदेन यद्भवनं सा कायस्थिति, तत्र जीव इति “जीव प्राणधारणे" जीवति-प्राणान् धारयतीतिजीवः, प्राणाश्च द्विधाःद्रव्यप्राणा भावप्राणाश्च, तत्र द्रव्यप्राणा आयुःप्रभृतयः, उक्तञ्च॥१॥ “पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिश्वासमथान्यदायुः ।
प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ।।" भावप्राणाज्ञानादयः यैर्मुक्तोऽपिजीवतीतिव्यपदिश्यते, उक्तञ्च-“ज्ञानादयस्तुभावप्राणा मुक्तोऽपिजीवति स तैहीं"ति, इह च विशेषानुपादानादुभयेषामपि ग्रहणंणमिति वाक्यालङ्कारे भदन्त! जीवइति-जीवनपर्यायविशिष्टः कालतः कालमधिकृत्य कियचिरंभवति?, भगवानाहसर्वाद्धां, संसार्यवस्थायां द्रव्यभावप्राणानधिकृत्य मुक्त्यवस्थायां भावप्राणानधिकृत्य सर्वत्रापि जीवनस्य विद्यमानत्वात्, अथवाजीवइतिनएकःप्रतिनियतोजीवोविवक्ष्यतेकिन्तु जीवसामान्यं, ततः प्राणधारणलक्षणजीवनाभ्युपगमेऽपि न कश्चिद्दोषः, तथाहि
“जीवेणं भंते!' इत्यादि, जीवो णमिति पूर्ववद् भदन्त ! जीव इति-जीवन्निति प्राणान् धारयन्नित्यर्थकालतः कियचिरं भवति?, भगवानाह-गौतम! सर्वाद्धां, जीवसामान्यस्यानाद्यनन्तत्वात्, न चैतद् व्याख्यानं स्वमनीषिकाविजृम्भितं, यत उक्तं मूलटीकायां-"जीवे णं भंते इत्यादि, एषाओधकायस्थिति सामान्यजीवोपेक्षिणीति सर्वाद्धया निर्वचनम्" एवं च पृथिवीकायादिष्वप्यदोषः, एवत्सामान्यस्यसर्वदैव भावादिति । एवं गतीन्द्रियकायादिद्वारैर्यथा प्रज्ञापनायामटादशे कायस्थितिनामके पदे कायस्थितिरुक्ता तथाऽत्र सर्वं निरवशेषं वक्तव्यं यथा उपरि तत्पदगतं न किमपि तिष्ठति, गतीन्द्रियकायादिद्वारसङ्ग्राहके चेमे गाथे-- ॥१॥ “गइ इंदिए य काए जोगे वेए कसाय लेसा य ।
सम्मत्तनाणदंसणसंजयउवओगआहारे॥ ॥२॥ भासगपरित्तपजत्तसुहुम सण्णी भवऽस्थि चरिमेय।
एएसिं तु पयाणं कायठिई होइ नायव्वा ॥ सूत्रपाठस्तु लेशतो दयति-"नेरइया णं भंते ! नेरइयत्ति कालतो केवच्चिरं होइ ?, गोयमा ! जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाइं । तिरिक्खजोणिए णं भंते ! तिरिक्खजोणियत्तिकालतो केवच्चिर होइ ?, गोयमा! जहन्नेणं अंतोमुत्तमुक्कोसेणमनंतं कालं अनंताउस्सप्पिणीओसप्पिणीओकालतोखेत्ततोअनंतालोगा असंखेज़ापुग्गलपरियट्टा आवलियाए असंखेज्जइभागों" इत्यादि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org