SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५८ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/ति०-२/१३५ सम्प्रति सामान्यपृथिवीकायादिगतकायस्थितिनिरूपणार्थमाह-'पुढविक्काइएणंभते!' इत्यादि, पृथिवीकायिको भदन्त !, सामान्यरूपोऽतएवजातोवेकवचनंन व्यक्तयेकत्वेपृथिवीकाय इति कालतः कियच्चिरं भवति?, भगवानाह-गौतम ! सर्वाद्धां, पृथिवीकायामान्यस्य सर्वदैव भावात् । एवमतेजोवायुवनस्पतित्रसकायसूत्राण्यपि भावनीयानि ॥ सम्प्रति विवक्षिते काले जघन्यपदे उत्कृष्टपदेवाकियन्तोऽभिनवा उत्पद्यमानाः पृथिवीकायिकादयः? इत्येतन्निरूपणार्थमाह मू.(१३६) पडुप्पन्नपुढविकाइया णं भंते ! केवतिकालस्स निल्लेवा सिता?, गोयमा ! जहन्नपदे असंखेजहिं उस्सपिणिओसप्पिणीहिं उक्कोसपए असंखेजाहिं उस्सप्पिणीओसप्पिणीहिं, जहन्नपदातो उक्कोसपए असंखेज्जगुणा, एवं जाव पडुप्पन्नवाउक्काइया। पडुप्पन्नवणप्फइकाइयाणंभंते! केवतिकालस्स निल्लेवासिता?, गोयमा! पडुप्पत्रवण जहन्नपदे अपदा उक्कोसपदे अपदा, पडुप्पन्नवणप्फतिकाइयाणं णत्थि निल्लेवणा। पडुप्पन्नतसकाइयाणं पुच्छा, जहन्नपदे सागरोवमसतपुहुत्तस्स उक्कोसपदे सागरोवमसतपुहुत्तस्स, जहन्नपदा उक्कोसपदे विसेसाहिया॥ वृ. 'पडुप्पन्नपुढविक्काइया णं भंते ! केवइकालस्स निल्लेवा सिया' इत्यादि, प्रत्युत्पन्नपृथिवीकायिकाः-तत्कालमुत्पद्यमानाः पृथिवीकायिका भदन्त ! 'केवइकालस्स'त्ति तृतीयार्थे षष्ठी कालेन निर्लेपाः स्यु?, प्रतिसमयमेकैकापहारेणापहियमाणाः कियता कालेन सर्व एव निष्ठामुपयान्तीति भावः, भगवानाह-गौतम ! जघन्यपदे यदा सर्वस्तोका भवन्ति तदेत्यर्थः, असल्येयाभिरुत्सर्पिण्यवसर्पिणीभिरुत्कृष्टपदेऽपि यदा सर्वबहवो भवन्ति तदाऽपीति भावः असङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिनवरंजघन्यपदादुत्कृष्टपदिनोऽसङ्घयेयगुणाः । एवमप्तेजोवायुसूत्राण्यपि भावनीयानि । वनस्पतिसूत्रमाह-'पडुप्पन्ने'त्यादि, प्रत्युत्पन्नवनस्पतिकायिका मदन्त! कियता कालेन निर्लेपः स्यु?, भगवानाह-गौतम! प्रत्युत्पन्नवनस्पतिकायिका जघन्यपेऽपदा-इयता कालेनापहियन्ते इत्येततपदविरहिता अनन्तानन्तत्वात्, उत्कृष्टपदेऽप्यपदा, अनन्तानन्तया निर्लेपनाऽ-सम्भवात्, तथा चाह-'पडुप्पन्नवणस्सइकाइयाणं नत्यि निल्लेवणा' इति सुगम, नवरमनन्तानन्त- त्वादिति हेतुपदं स्वयमभ्यह्यम् । ___ 'पडुप्पन्नतसकाइयाण'मित्यादि, प्रत्युत्पन्नत्रसकायिका भदन्त ! कियता कालेन निर्लेपाः स्युः?, भगवानाह-गौतम ! जघन्यपदे सागरोपमशतपृथक्त्वस्य-तृतीयार्थे षष्ठी प्राकृतत्वात् सागरोपमशतपृथक्त्वेन, उत्कृष्टपदेऽपि सागरोपमशतपृथक्त्वेन नवरं जघन्यपदादुत्कृष्टपदं विशेषाधिकमवसेयं । इदं च सर्वमुच्यमानं विशुद्धलेश्यसत्वमभि प्राप्तं यथाऽवस्थिततया सम्यगवभासते नान्यथेत्यविशुद्धविशुद्धलेश्यविषयं किञ्चिद्विवक्षुराह मू. (१३७) अविसुद्धलेस्सेणंभंते! अनगारे असमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अनगारं जाणइ पासइ ?, गोयमा ! नो इणढे समढे । अविसुद्धलेस्से णं भंते ! अनगारे असमोहएणं अप्पाणएणविसुद्धलेस्संदेवं देविं अनगारंजाणाइ पासइ?, गोयमा! नोइणढे समढे। अविसुद्धलेस्से अनगारे समोहएणं अप्पाणेणं अविसुधलेस्सं देवं देविं अनगारं जाणति पासति?, गोयमा ! नो इणढे समटे । अविसुद्धलेस्से अनगारे समोहतेणं अपाणेणं विसुद्धलेस्सं देवं देविं अनगारं जाणति पासति?, नो तिणढे समढे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy