________________
प्रतिपत्तिः-१,
१३ जे वण्णपरिणया ते पंचविहा पन्नत्ता, तंजहा- कालवण्णपरिणता नीलवण्णपरिणता इत्यादि तावद् यावत् 'सेत्तं रूविअजीवाभिगमे, सेत्तं अजीवाभिगमे।।
मू. (६) से किंतंजीवाभिगमे?, जीवाभिगमे दुविहे पन्नते, तंजहा-संसारसमावण्णगजीवाभिगमे य असंसारमावण्णगजीवाभिगमे य।
वृ.संसरणं संसारो-नारकतिर्यङ्नरामरभवभ्रमणलक्षणस्तंसम्यग् एकीभावेनापन्नाःप्राप्ताः संसारसमापन्नाः-संसारवर्तिनस्तेचतेजीवाश्च तेषामभिगमः संसारसमापन्नजीवाभिगमः, तथा न संसारोऽसंसाः-संसारप्रिपक्षभूतो मोक्ष इत्यर्थः तं समापना असंसारसमापन्नास्ते च ते जीवाश्च तेषामभिगमोऽसंसारसमापन्नजीवाभिगमः,चशब्दी उभयेषामपिजीवानांजीवत्वं प्रति तुल्यकक्षतासूचकी, तेन ये विध्यातप्रदीपकल्पं निर्वाणमभ्युपगतवन्तः येच नवानामात्मगुणानामत्यन्तोच्छेदेनते निरस्ता द्रष्टव्याः, तथाभूतमोक्षाभ्युपगमे तदर्थं प्रेक्षावतां प्रवृत्यनुपपत्तेः, न खलुसचेतनःस्ववधायकण्ठ कुठारिकांव्यापारयति, दुःखितोऽपिहिजीवन् कदाचिद्भद्रमाप्नुयात् भृतेन तु निर्मूलमपि हस्तिताः सम्पद् इति, इह केवलान् अजीवान् जीवांश्चानुच्चार्याभिगमशब्दसंलितप्रश्नोऽभिगमव्यतिरेकेण प्रतिपत्तेरसन्मवतस्तेषामभिगमगम्यताधर्मख्यापनार्थ तेन 'सदेवेद'मित्यादिसदद्वैधपोह उक्तोवेदितव्यः, सदद्वैताद्यभ्युपगमेऽभिगमगम्यतारूपधर्मायोगतः प्रतिपत्तेरेवासम्भात्।
मू. (७) से किंतं असंसारसमावण्णगजीवाभिगमे?, २ दुविहे पन्नत्ते, तंजहा-अनंतर-ि सद्धासंसार-समावण्णगजीवाभिगमे य परंपरसिद्धासंसारसमावण्णगजीवाभिगमे य।
से किंतंअनंतरसिद्धासंसारसमावण्णगजीवाभिगमे?, २ पन्नरसविहे पन्नत्ते, तंजहातित्थसिद्धा जाव अनेगसिद्धा, सेत्तं अनंतरसिद्धा से किं तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे ?, २ अणेगविहे पण्णत्ते, तंजहा-पढम-समयसिद्धा दुसमय सिद्धा जाव अणंतसमयसिद्धा, से तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे, सेतं असंसारसमावण्णगजीवाभिगमे।
वृ. तत्राल्पवक्तव्यत्वात्प्रथमतोऽसंसारसमापन्नजीवाभिगमसूत्म्-‘से किं तं असंसारसमावन्नजीवाभिगमे ?, २ दुविहे पं०, तं०-अनंतरसिद्धअसंसारसमावनजवाभिगमे परंपरसिद्धअसंसारसमावनजीवाभिगमे य' इत्यादि तावद्वाच्यं यावदुपसंहारवाक्यं 'सेत्तं असंसारसमापन्न-जीवाभिगमे अस्य व्याख्यानं प्रज्ञापनाटीकातो वेदितव्यं, तत्र सविस्तरमुक्तत्वात्।
सम्प्रति संसारसमापन्नजीवाभिगममभिधित्सुस्तप्रश्नसूत्रमाह
मू. (८) से किंतं संसारसमावन्नजीवाभिगमे?, संसारसमावण्णएसुणं जीवेसुइमाओ नव पडिवत्तीओ एवमाहिजंति, तं०-एगे एवमाहंसु-दुविहा संसारसमावण्णगा जीवा पं०।
एगे एवमाहंसु-तिविहा संसारसमावण्णगा जीवा पं० / एगे एवमाहंसु-चउब्विहा संसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-पंचविहा संसारसमावण्णगाजीवा पं० -
एतेणं अभिलावेणं जाव दसविहा संसारसमावण्णगा जीवा पन्नता।
वृ. 'सूरिराह-संसारसमापन्नेषु णमिति वाक्यालङ्गारे जीवेषु 'इमाः' वक्ष्यमाणलक्षणा 'नव प्रतिपत्तयो' द्विप्रत्यवतारमादौ कृत्वा दशप्रत्यवतारं यावद् ये नव प्रत्यवतारास्तद्रूपाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org