SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १४ जीवाजीवाभिगमउपाङ्गसूत्रम् १/७ प्रतिपादनानिसंवित्तयइतियावत् ‘एवं वक्ष्यमाणया रीत्याऽऽख्यायन्तेपूर्वसूरिभि,इहप्रतिपत्याख्यानेन प्रणालिकयाऽर्थाख्यानं द्रष्टव्यं,प्रतिपत्तिभावेऽपिशब्दादर्थे प्रवृत्तिकरणात, तेन यदुच्यते शब्दाद्वैतवादिभिः-'शब्दमानं विश्व'मिति, पदपास्तं द्रष्टव्यं, तदपासनेचेयमुपपत्ति-एकान्तकस्वरूपे वस्तु-न्यभिदानद्वयासम्भवात् भिन्नप्रवृत्तिनिमित्ताभावात्, ततश्च शब्दमात्रमित्येव स्यात न विश्वमिति, प्रणालिकयाऽभिधानमेवोपदर्शयति, तद्यथा-एके आचार्या एवमाख्यातवन्तः-द्विविधाः संसारसमापना जीवाः प्रज्ञप्ताः। एके आचार्या एवमाख्यातवन्तः-त्रिविधाः संसारसमापन्ना जीवाः, एवं यावद्दशविधा इति, इह एके इतिन पृथग्मतावलम्बिनोदर्शनान्तरीयाइव केचिदन्ये आचार्या, किन्तुयएव पूर्व द्विप्रत्यवतारविवक्षायां वर्तमाना एवमुक्तवन्तः यथा द्विविधाः संसारसमापन्नाजीवाइतित एव त्रिप्रत्यवतारविवक्षायांवर्तमानाः, द्विप्रत्यवतारविवक्षामपेक्ष्य त्रिप्रत्यवतारविवक्षायाअन्यत्वात्, विवक्षावतां तु कथञ्चिद् भेदादन्य इति वेदितव्याः, अत एव प्रतिपत्तय इति परमार्थतोऽनुयोगद्वाराणीति प्रतिपत्तव्यम् । इङहय एव द्विविधास्त एव त्रिविधास्त एव चतुर्विधा यावद्दशविधा इति तेषामनेकस्वभाव- तायां तत्तद्धर्मभेदेन तथा तताऽभिधानता युज्यते, नान्यथा, एकान्तकस्वभावतायां तेषां वैचित्र्यायोगतस्तथा तथाऽभिधानप्रवृत्तेरसम्भवात्, एवं सति। ॥१॥ "अष्टविकल्पं दैवं तिर्यग्योनं च पञ्चधा भवति । मानुष्यं चैकविधं समासतो भौतिकः सर्ग॥” इति । वाड्धात्रमेव, अधिष्ठातृजीवानामेकरूपत्वाभ्युपगमेन तथारूपवैचित्र्यासम्भवादिति, एवमन्येऽपि प्रवादास्तथा तथा वस्तुवैचित्र्यप्रतिपादनपरा निरस्ता द्रष्टव्याः, सर्वथैकस्वभाववाभ्युपगतौ वैचित्र्यायोगात्। सम्प्रत्येता एवप्रतिपत्तीः क्रमेणव्याचिख्यासुःप्रथमतआद्यांप्रतिपत्ति विभावयिषुरिदमाह मू. (९) तत्थ(ग) जेएवमाहंसु 'दुविहासंसारसमावण्णगाजीवा पं०' ते एवमाहंसु-तं०तसा चेव थावरा चेव ।। वृ. 'तत्र' तेषु नवसु प्रतिपत्तिषु मध्ये ये द्विप्रत्यवतारविवक्षायां वर्तमाना एवं व्याख्यातवन्तः-द्विविधाः संसारसमापनका जीवाः प्रज्ञप्ता इति ते ‘णम्' इ वाक्यालकारे ‘एवं' वक्ष्यमाणरीत्याद्विविधत्वभावनार्थमाख्यातवन्तः, 'तद्यथे त्युपन्यस्तद्वैविध्योपदर्शनार्थः, साश्चैव स्थावराश्चैव,तत्र त्रसन्ति-उष्णाधभितप्ताः सन्तो विवक्षितस्थानादुर्द्विजन्ति गच्छन्ति च छायाद्यासेवनार्थं स्थानान्त- रमिति त्रसाः, अनया च व्युत्पत्त्या त्रसास्त्रसनामकर्मोदयवरत्तिन एव परिगृह्यन्ते, न शेषाः, अथ शेषैरपीह प्रयोजनं, तेषामप्यने वक्ष्यमाणत्वात् । तत एवं व्युत्पत्तिः-त्रसन्ति-अभिसन्धिपूर्वकमनभिसन्धिपूर्वकं वा ऊध्र्वमस्तिर्यक् चलन्तीति त्रसाः-तेजोवायवो द्वीन्द्रियादयश्च, उष्णाद्यभितापेऽपि तत्स्थानपरिहारासमर्थाः सन्तस्तिष्ठन्तीत्येवंशीलाःस्थावरा:--पृथिव्यादयः, चशब्दौ स्वगतानेकभेदसमुखयार्थी, एक्काराववधारणार्थी, अत एव संसारसमापनका जीवाः, एतद्वयतिरेकेण संसारिणामभावात्। तत्राल्पवक्तव्यत्वात्प्रथमतः स्थावरानभिधित्सुस्तपत्रसूत्रमाहमू. (१०) से किं तं धावरा?, २तिविहा पन्नत्ता, तंजहा-पुढविकाइया १ आउक्काइया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy