SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १२ जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/४ मृगयन्ते, आकाशत्वमात्रस्योभयत्रा तुल्यत्वात्, विशेषणमन्तरेणच वैशिष्टयायोगात, कारणान्तरं धर्माधर्मास्तिकायभावाभावावेव नापरमिति स्थितम्, अन्यच्च-तावन्मात्रस्याकाशखण्डस्य स स्वभावोनपरस्येत्यपिकुतःप्रमाणात्परिकल्प्यते?,आगमप्रमाणादिति चेत्तथाहि-तावत्येवाकाशखण्डे जीवानां च पुद्गलानां च गतिस्थितिमतां गतिस्थिती तत्र तत्र व्यावण्येर्ते न परत इति, यद्येवंतागमप्रामाण्य-बलादेव धर्माधर्मास्तिकायावपिगतिस्थितिनिबन्धनमिष्येयातांकिमाकाशखण्डस्य निर्मूल-स्वभावान्तरपरिकल्पनाऽऽयासेनेति कृतं प्रसङ्गेन । अथामीषामित्थंक्रमोपन्यासे किं प्रयोजनम् ?, उच्यते, इह धर्मास्तिकाय इति पदं मङ्गलभूतम्, आदी धर्मशब्दान्वितत्वात्, पदार्थप्ररूपणा च सम्प्रत्युक्षिप् वर्तते, ततो मङ्गलार्थमादौ धर्मास्तिकायस्योपादानां, धर्मास्तिकायप्रतिपक्षभूतश्चाधर्मास्तिकाय इति तदनन्तरमधर्मास्तिकायस्य, द्वयोरपिचानयोराधारभूतमाकाशमिति तदनन्तरमाकाशास्तिकायस्य,ततः पुनरजीवासाधम्यादद्धासमयस्य, अथवा इह धर्माधर्मास्तिकायौ विभून भवतः, तद्विभुत्वेन तत्सामर्थ्यतो जीवपुद्गलानामस्खलितप्रचारप्रवृत्तेर्लोकव्यवस्थाऽनुपपत्तेः, अस्तिच लोकालोकव्यवस्था, तत एतावविभू सन्तौ यत्र क्षेत्रे समवगाढौ तावामामो लेकः, शेषस्त्वलोक इति सिद्धम्, उक्तंच॥१॥ “धर्माधर्मविभुत्वात्सर्वत्र च जीवपुद्गलविचारात्। नालोकः कश्चित्स्यान च संमतमेतदार्याणाम् ।। ॥२॥ तस्माद्धर्माधर्माववगाढी व्याप्य लोकखं सर्वम् । एवं हि परिच्छिन्नः सिद्धयति लोकस्तदविभुत्वात् ।। तत एवं लोकालोकव्यवस्थाहेतू धर्माधर्मास्तिकायावित्यनयोरादावुपादानं, तत्रापि माङ्गलिकत्वात्प्रथमतोधर्मास्तिकायस्य, तत्प्रतिपक्षत्वात्ततोऽधर्मास्तिकायस्य, ततोलोकालोकव्यापित्वादाकाशास्तिकायस्य, तदनन्तरं लोके समयासमयक्षेत्रव्यवस्थाकारित्वादद्धासमयस्य, एवमागमानुसारेणान्यदपियुक्त्यनुपा वक्तव्यमित्यलंप्रसङ्गेन, प्रकृतं प्रस्तुमः, अत्रोपसंहारवाक्यं'सेत्तं अरूविअजीवाभिगमे। मू. (५) से किंतंरूविअजीवाभिगमे?, रूविअजीवाभिगमे चउब्बिहे पन्नते, तंजहा-खंधा स्वंधदेसा खंधप्पएसा परमाणुपोग्गला, ते समासतो पंचविहा पन्नत्ता, तंजहा-वण्णपरिणया गंधक रस० फास० संठाणपरिणया, एवं ते ५ जहा पण्णवणाए, सेत्तं रूविअजीवाभिगमे, सेत्तं अजीवाभिगमे। वृ.अतऊर्ध्वमिदं सूत्रम्-'सेकिंतंरूविअजीवाभिगमे?, रूविअजीवाभिगमेचउब्बिहे पन्नत्ते, तं०-खंधाखंधदेसा खंधपएसा परमाणुपुग्गला' इह स्कन्धाइत्यत्र बहुवचनं पुद्गलस्कन्धानामनन्तत्वख्यापनार्थं, तथाचोक्तम्-“दव्वतोणं पुग्गलस्थिकाएणंअनन्ते" इत्यादि, स्कन्धदेशाः' स्कन्धानामेव स्कन्धत्वपरिणाममजहतां बुद्धिपरिकल्पिता द्वयादिप्रदेशात्मका विभागाः, अत्रापि बहुवचनमनन्तप्रदेशिककेषु स्कन्धेषु स्कन्धदेशानन्तत्वसम्भावनार्थं, 'स्कन्धप्रदेशाः' स्कन्धानां स्कन्धत्वपरिणाममजहतां प्रकृष्ट देशाः-निर्विभागाभागाः परमाणव इत्यर्थः, 'परमाणुपुद्गलाः' स्कन्धत्वपरिणामरहिताः केवलाः परमाणवः । अत ऊर्ध्वं सूत्रमिदम्-'ते समासतो पंचविधा पन्नत्ता, तंजहा-वण्णपरिणया गंधपरिणता रसपरिणता फासपरिणता संठाणपरिणता, तत्थणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy