________________
प्रतिपत्तिः - ३, नै० उद्देशकः २
१३९
योरत्र विशेषो वर्णादिकृतो वेदितव्यः, इष्टकापाक इति वा कुम्भकारापाक इति वा कवेल्लुकापाक इति वा लोहकाराम्बरीष इति वा, अम्बरीषः --कोष्टकः, यत्रवाडचुल्ली इवेति, यन्त्रम् - इक्षुपीडनयन्त्रं तठप्रधानः पाटको यन्त्रपाटकः तत्र चुल्ली यत्रेक्षुरसः पच्यते, इत्थम्भूतानि यानि मनुष्यलोके स्थानानि 'तप्तानि' वह्निसंपर्कतस्तप्तीभूतानि तानि च कानिचिद् अयआकरप्रभृतीनि कदाचिदुष्णस्पर्शमात्राण्यपि संभवन्ति ततो विशेषप्रतिपानार्थमाह
'समजोईभूयाइ' प्राकृततत्वात्समशब्दस्य पूर्वनिपातः, 'ज्योतिसमभूतानि' साक्षादग्निवर्णानि जातानीति भावः, एतदेवोपमया स्पष्टयति- 'फुल्लकिंशुकसमानानि' प्रफुल्पलाशकुसुमकल्पानि 'उक्कासहस्साइ' इति ये मूलाग्नितो वित्रुटय वित्रुटयाग्निकणाः प्रसर्पन्ति ते उल्का इत्यच्यन्ते तासां सहस्राणि उल्कासहस्राणि मुञ्चन्ति ज्वालासहाणि विनिर्मुञ्चन्ति अङ्गारसहस्राणि प्रविक्षरन्ति 'अन्तरन्तहूयमानानि' अतिशयेन जाज्वल्यमानानि, कचित् 'अंतो अंतो सुहुयहुयासणा" इति पाठः ।
'अन्तरन्तः सुहुतहुताशनानि' सुष्ठु हुतो हुताशनो येषु तानि तथा तिष्ठन्ति तानि पश्येत् दृष्ट्वा चवगाहेत, अवगाह्यच 'उष्णमपि' नरकोष्णवेदनाजनितं बहिशरीरस्य परितापमपि प्रचिनयेत्, नरकगतादुष्णस्पर्शादय आकरादिषूष्णस्पर्शस्यातीव मन्दत्वात् एवं च सुखासिकाभावतस्तृषामपि क्षुधमपि दाहमपि अन्तःशरीरसमुत्थं प्रविनयेत्, तथा च सति तृडादिदोषापगमतो निद्रायेत वा प्रचलायेत वा स्मृतिं वा रतिं वा धृतिं वा उपलभेत, ततः शीतः शीतीभूतः सन् 'संकसन संकसन' संक्रमन् संक्रमन् सातसौख्यबहुलो विहरेत्, अमीषां पदानामर्थ प्राग्वद्भावनीयः
एतावत्युक्ते भगवान् गौतमः पृच्छति--'भवे एयारूवे सिया ?' 'स्यात्' संभाव्यते एतद् यथा भवेद् उष्णवेदनीयेषु नरकेषु एतद्रूपा उष्णवेदना ?, भगवानाह - गौतम ! नायमर्थ समर्थो यदुष्णवेदनीयेषु नरकेषु नैरयिका इति अनन्तरं प्रतिपादितस्वरूपाया उष्णवेदनायाः अनिष्टतरिकामेव अप्रियतरिकामेव अमनोज्ञतरिकामेव अमन आपतरिकामेव वेदनां 'प्रत्यनुभवन्तः' प्रत्येकं वेदयमाना विहरन्ति ।
सम्प्रति शीतवेदनीयेषु नरकेषु शीतवेदना स्वरूपं प्रतिपादयति- 'सीयवेयणिज्जेसु ण' मित्यादि, शीतवेदनीयेषु भदन्त ! निरयेषु नैरयिकाः कीदृशीं शीतवेदनां प्रत्यनुभवन्तो विहरन्ति ?, स यथानामकः कर्मकरदारकः स्यात् तरुण इत्यादिविशेषणकदम्बकं प्राग्वत्तावद् यावत्संहन्यात् नवरमुत्कर्षतो मासमित्यत्र ब्रूयात्, ततः 'सः' कर्म्मकरदारकः 'तम्' अयस्पिण्डमुष्णं स चोष्णी बाह्यप्रदेशमात्रापेक्षयाऽपि स्यादत आह- 'उष्णीभूतं' सर्वात्मनाऽग्निवर्णीभूतमिति भावः, अयोमयेन संदंशकेन गृहीत्वाऽ सद्भावप्रस्थापनया शीतवेदनीयेषु नरकेषु प्रक्षिपेत्, ततः 'स' पुरुषः 'तम्' अयस्पिण्डमित्यादि प्राग्वत्तावद्वक्तव्यं यावद्विहरत, तच्चैवम्
'से णं तं उम्मिसियनिमिसियंतरेण पुनरवि पनुद्धरिस्सामित्तिकट्टु पविरायमेव पासेज्जा पविलीणमेव पासेज्जा पविद्धत्थमेव पासेज्जा नो चेव णं संचाएइ अविरायं अविलीणं अविद्धत्यं पुनरवि पचद्धरित्तए से जहानामए मत्तमायंगे जाव सायासोक्खबहुलेयावि विहरइत्ति' 'एवामेवे'त्यादि, अनेनैवाधिकृत ध्ष्टान्तोक्तेन प्रकारेण गौतम ! असद्भावप्रस्थापनया शीतवेदनीयेभ्यो नरकेभ्योऽनन्तरमुद्वृत्तः सन् यानीमानि मनुष्यलोके स्थानानि भवन्ति, तद्यथा - हिमानि वा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International