________________
१३८
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/नै०-२/१०५ तत्र गम्भीरम्-अलब्धस्ताधं शीतलं जल यस्यां सा आनुपूर्व्यसुजातवानगम्भीरशीतजलला ताम् ___ संछण्णपत्तभिसमुणाल'मितिसंछन्नानि जलेनान्तरितानि पत्रबिसमृणालानियस्यांसा संछनपत्रबिसमृणालाताम्, इह विसमृणालसाहचर्यात्पत्राणि-पद्मिनीपत्राणि द्रष्टव्यानि, बिसानिकन्दाः मृणालानि-पद्मनालाः, तथा बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रैः केसरैः-केसरप्रधानैः फुल्लैः-विकसितैरुपचिताबहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहम्रपत्रकेसरफुल्लोपचितातां, तथा षट्पदैः-अमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि यस्याः सा षटपदपरिभुज्यमानकमला तां, तथाऽच्छेन-स्वरूपतः स्फटिकवच्छुद्धेन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णातां । तथापडिहत्था अतिरेकताअतिप्रभूता इत्यर्थः भ्रमन्तो मत्स्यकच्छपा यस्यां सा पडिहत्यभ्रमन्मत्स्यकच्छपा, तताअनेकैः शकुनिगणमिथुनकैः गणशब्दस्य प्राकृतत्वादस्थानेऽप्युपनिपातः, शकुनिमिथुनकैर्विचरितैः-इतस्ततः स्वेच्छया प्रवृत्तैः शब्दोन्नतिकम्उन्नतशब्दं मधुरस्वरं नादितं यस्यां सा अनेकशकुनिगणमिथुनकविचरितशब्दोन्नतिकमधुरस्वरनादिता, ततः पूर्वपदेन विशेषणसमासः, तां दृष्ट्वाऽवगाहेत, अवगाह्य च उष्णमपि परिदाहमपि शरीरस्य तत्र प्रविनयेत्' प्रकर्षणसर्वात्मनास्फोटयेत्, तथा क्षुधामपि प्रविनयेत् प्रत्यासन्नतटवर्तिशल्लक्यादिकिसलयभक्षणात्, तृषमपिप्रविनयेत्जलपानात्, ज्वरमपिपरिसंतापसमुत्थंप्रविनयेत् परिदाधक्षुत्पिपासाऽपगमात्, एवंसकलादादिदोषापगमतः सुखासिकाभावेन निद्रायेतप्रचलायेत, तत्र अनिद्रावान् निद्रावान् भवतीति च्यर्थविवक्षायां निद्रादिभ्यो धर्मिणि क्यबिति कर्मणि क्यप्प्रत्ययः,एवंप्रचलाशब्दादपि निद्रादेराकृतिगणत्वात, निद्राप्रचलयोस्त्वयंविशेषः-सुखप्रबोधा स्वापावस्था निद्रा, ऊर्द्धस्थितस्यापि या पुनश्चैतन्यमस्फुटीकुर्वती समुपजायते निद्रा सा प्रचला, एवं च क्षणमात्रनिद्रालाभतोऽतिस्वस्थीभूतः। _ 'स्मृतिं वा' पूर्वानुभूतस्मरणं रतिं वा तदवस्थाऽऽसक्तिरूपां 'धृति वा' चित्तस्वास्थ्य 'भतिवा' सम्यगीहापोहरूपाम् ‘उपलभेत प्राप्नुयात्, ततः 'शीतः बाह्यशरीरप्रदेशशीतीभावात्, 'शीतीभूतः' शरीरान्तरपि निवृतीभूतः सन् 'संकसमाणे' इति सम्-एकीभावेन कसन्-गच्छ् 'सातसौख्यबहुलश्चापि' सातम्-आहादस्तप्रधानं सख्यं सातसौख्यं न त्वभिमानमात्रजनितमालादविरहितं सातसौख्येनबहुलो-व्याप्तः सातसौख्यबहुलश्चापि 'विहरेत्' स्वेच्छया परिभ्रमेत्
"एवमेव' अनेनैवानन्तरोदितदृष्टान्तप्रकारेण हेगौतम! 'असद्भावप्रस्थापनया' असद्भावकल्पनया नेदं वक्ष्यमाणमभूत् केवलं नरकगतोष्णवेदनायाथाम्यप्रतिपत्तयेऽसत्कल्प्यत इति भावः, उष्णवेदनेभ्यो नरकेभ्यो नैरयिकोऽनन्तरमुद्वतितो विनिर्गतः सन् ‘यानि इमानि प्रत्यक्षत उपलभ्यमानानि इह मनुष्यलोके स्थानानि भवन्ति, तद्यथा-"गोलियालिंगाणि वा, सोडियालिंगाणि वा, भिंडियालिंगाणि वा, एते अनेराश्रयविशेषाः, अन्ये तु देशभेदनीत्या पिष्टपाचनकाग्यादिभेदेनैतेषां स्वरूपं कथयन्ति, तदप्यविरुद्ध मेवेति, तैलाग्निरिति वा तुषाग्निरिति वा बुसा० वानडा० वा, नड:-तृणविशेषः । अयागराणीतिवा' आर्षत्वानपुंसकनिर्देशःअयआकरा इतिवा, येषु निरन्तरं महामूषा-स्वयोदलं प्रक्षिप्याऽय उत्पाटयते तेअयआकराः, एवं ताम्राकरा इति वात्रप्वाकराइति वासीसकाकराइतिवारूप्या० सुवर्णा हिरण्याकराइतिवा, सुवर्णहिरण्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org