________________
प्रतिपत्तिः - ३, नै० उद्देशकः २
१३७
यावदेकाहं वा द्वयहं वा यावदुत्कर्षतोऽर्द्धमासं संहन्यात्, ततो णमिति वाक्यालङ्कारे 'तम्' अयस्पिण्डं शीतं, स च शीतो बहिर्मनाग्मात्रेणापि स्यादत आह
'शीतीभूतं ' सर्वात्मना शीतत्वेन परिणतं अयमयेन संदंशकेन गृहीत्वा 'असद्भावस्थापनया' असद्भावकल्पनया नैतदभूत् न भवति भविष्यति वा केवलमसद्भूतमिदं कल्प्यत इति, उष्णवेदनेषु नरकेषु प्रक्षिपेत्, प्रक्षिप्य च स पुरुषोणमिति वाक्यालङ्कारे 'उम्मिसियनिमिसियंतरेण' उन्मिषितनिमिषितान्तरेण यावताऽन्तरेण - यावता व्यवधानेन उन्मेषनिमेषौ क्रियेते तावदन्तरप्रमाणेन कालेनातिक्रान्तेन पुनरपि प्रत्युद्धरिष्यामीतिकृत्वा यावद् द्रष्टुं प्रवर्त्तते तावत् 'प्रवितरमेव' प्रस्फुटितमेव, यदिवा 'प्रविलीनमेव' नवनीतमिव सर्वथा गलितमेव, यदिवा 'प्रविध्वस्तमेव' सर्वथा भस्मसाद्भूतमेव पश्येत्, न पुनः शक्नुयाद् अचिरात्तं अप्रस्फुटितं अविलीनं वा अविध्वस्तं वा पुनरपि प्रत्युद्धर्तुम्, एवंरूपा नाम तत्रोष्णवेदना ।।
•
अस्यैवार्थस्य स्पष्टतरभावनार्थं द्दष्टान्तान्तरमाह - 'से जहानामए' इत्यादि, 'से' सकलजनप्रसिद्धो यथेति दृष्टान्तत्वोपदर्शने वाशब्दो विकल्पने, अयं वा दृष्टान्तो विवक्षितार्थप्रतिपत्तये बोद्धव्य इति विकल्पनभावना, 'मत्तः' मदकलितः 'मातङ्गः' हस्ती, इह मातङ्गोऽन्त्यजोऽपि संभवति ततस्तदाशङ्काव्युदासार्थं नानादेशजविनेयजनानुग्रहाय (वा) पर्यायद्वयमाह - 'द्विपः' द्वाभ्यां मुखेन करेण चेत्यर्थः पिबतीति द्विपः, 'मूलविभुजादय' इति कप्रत्ययः, कीजीर्यतीति कुञ्जरः, यदिवा कुत्रे - वनगहने रमति-रतिमाबध्नातीति कुञ्जरः षष्टिर्हायनाः संवत्सरा यस्य स षष्टिहायनः 'प्रथमशरत्कालसमये' कार्त्तिकमाससमये, इह प्राय ऋतव सूर्यर्त्तवो गृह्यन्ते ते चाषाठादयो द्विद्विमासप्रमाणाः, प्रवचने च क्रमेणैवंनामानः, तद्यथा- प्रथमः प्रावृट् द्वितीयो वर्षारात्रः तृतीयः शरत् चतुर्थो हेमन्तः पञ्चमो वसन्तः षष्ठो ग्रीष्मः, तथा चाह पादलिप्तसूरि"पाउस वासारत्तो, सरओ हेमंत वसन्त गिम्हो य । एए खलु छप्पि रिऊ, जिनवरदिट्ठा मए सिठ्ठा ।"
|| 9 ||
ततः प्रथमशरत्कालसमयः कार्त्तिकसमय इति विवृत्तम्, आह च मूलटीकाकृत्“प्रथमशरत्- कार्त्तिकमासः" तस्मिन् वाशब्दो विकल्पने 'चरमनिदाघकालसमये वा' चरमनिदाघकालसमयो - ज्येष्ठमासपर्यन्तस्तस्मिन्, वाशब्दो विकल्पने, 'उष्णाभिहतः' सूर्यखरकिरणप्रतापाभिभूतः, अत एवोष्णैः सूर्यकिरणैः सर्वतः प्रतप्ताङ्गतया शोषभावतस्तृषाभिहतः, तत्रापि पानीयगवेषणार्थमितस्ततः स्वेच्छया परिभ्रमतः कथञ्चिद्दवाग्निप्रत्यासत्तौ गमनतो दवाग्निज्वालाभिहतः अत एव 'आतुरः' कचिदपि स्वास्थ्यमलभमानः सन् आकुलः, सर्वाङ्गपरितापसम्भवेन गलतालुशोषभावात् शुषितः, कचित् 'झिज्जिए' इति पाठस्तत्र क्षितः ' क्षीणशरीर इति व्याख्येयम्, असाधारणतृड्वेदनासमुच्छलनात्पिपासितः ।
अत एव दुर्बलः शारीरमानसावष्टम्भरहितत्वात्, 'क्लान्तः' ग्लानिमुपगतः 'क्लमू ग्लानी' इति वचनात्, एकां महतीं 'पुष्करिणी' पुष्कराण्यस्यां विद्यन्ते इति पुष्करिणी तां, किंविशिष्टामित्याह - 'चतुष्कोणां' चत्वारः कोणा - अश्रयो यस्याः सा तथा तां, समं विषमोन्नतिवर्जितं सुखावतारं तीरं - तटं यस्याः सा समतीरा ताम्, आनुपूव्येर्ण-नीचैनींचैनभावरूपेण न त्वेकहेलयैव क्वचिद्गर्त्तारूपा काचिदुन्नतिरूपा इति भावः, सुष्ठु - अतिशयेन यो जातो वप्रः -केदारो जलस्थानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org