________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/०२/१०५
हिमपुञ्जानि वा, सूत्रे नपुसकनिर्देशः प्राकृतत्वात्, हिमपटलानि वा हिमकूटानि वा, एतान्येव पदानि नानादेशजविनेयानुग्रहाय पर्यायै व्याचष्टे
'सीयाणि वा सीयपुंजाणिवा' इत्यादि, तानि पश्येत्, दृष्ट्वा तान्यवगाहेत, अवगाह्य 'शीत-मपि' नरकजनितं शीतत्वमपि प्रविनयेत्, ततः सुखासिकाभावतस्तृषमपि क्षुधमपि ज्वरमपि नरकवेदनीयनरकसंपर्कसमुत्थं जाडयमपि प्रविनयेत्, ततः शीतत्वादिदोषापगमतोऽनुत्तरं स्वास्थ्यं लभमानो निद्रायेत वा प्रचलायेत वा स्मृतिं वा रतिं वा धृतिं वा लभेत, ततो नरकगजाड्यापगमाद् उष्णः, स च बहिप्रदेशमात्रतोऽपि स्यात्तत आह- 'उष्णीभूतः' अन्तरपि नरकगतजाड्यापगमात् जातोत्साह इत्यर्थः, स एवंभूतः सन् यथास्वसुखं संक्रमन् सातसौख्यबहुलो विहरेत्, एवमुक्ते गो०- 'भवेयारवे सिया ?' इत्यादि प्राग्वत् । सम्प्रति नैरयिकाणां स्थितिप्रतिपादनार्थमाह
१४०
मू. (१०६) इमीसे णं भंते! रयणप्प० पु० नेरतियाणं केवतियं कालं ठिती पन्नत्ता ?, गोयमा ! जहण्णेवि उक्कसेणवि ठिती भाणितव्या जाव अधेसत्तमाए ।
बृ. 'रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कियन्तं कालं स्थिति प्रज्ञप्ता ?, भगवानाह - गौतम ! जघन्येन दश वर्षसहस्राणि उत्कर्षतः सागरोपमं, एवं शर्कराप्रभापृथिवीनैरयिकाणां जघन्यत एकं सागरोपममुत्कर्षतस्त्रीणि सागरोपमाणि, वालुकाप्रभापृथिवीनैरयिकाणां जघन्यतस्त्रीणि सागरोपमाणि उत्कर्षतः सप्त, पङ्कप्रभापृथिवीनैरयिकाणां जधन्यतः सप्त सागरोपमाणि उत्कर्षतो दश, धूमप्रभापृथिवीनैरयिकाणां जघन्यतो दश सागरोपमाणि उत्कर्षतः सप्तदश, तमः प्रभापृथिवीनैरयिकाणां जघन्यतः सप्तदश सागरोपमाणि उत्कर्षतो द्वाविंशति, तमस्तमः प्रभायां जघन्यतो द्वाविंशतिसागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत् ।
क्वचित् 'जहा पन्नवणाए ठिइपदे' इत्यतिदेशः सोऽप्येवमेवार्थतो भावनीयः, तदेवं प्रतिपृथिवी स्थितिपरिमाणमुक्तं, यदा तु प्रतिप्रस्तटं स्थितिपरिमाणं चिन्त्यते तदैवमवगन्तव्यम् - रत्नप्रभायां प्रथमे प्रस्तटे जघन्या स्थितिर्दशवर्षसहस्ाणि उत्कृष्टा नवति द्वितीये प्रस्तटे एषैव शतगुणिती जघन्या उत्कृष्टा च वेदितव्या, तद्यथा - जघन्या दशवर्ष लक्षा उत्कृष्टा नवतिवर्षलक्षाः तृतीये प्रस्तटे जघन्यतो नवतिवर्षलक्षा उत्कृष्ता पूर्वकोटी, चतुर्थे जघन्या पूर्वकोटी उत्कृष्टा सागरोपमस्य दशमो भागः, पञ्चमे जघन्या सागरोपमस्यैको दशभाग उत्कृष्टा द्वौ दशभागौ, षष्ठे जघन्या सागरोपमस्य द्वौ दशभागादुत्कृष्टा त्रयः, सप्तमे जघन्या त्रयः सागरोपमस्य दशभागा उत्कृष्टाश्चत्वारः, अष्टमे जघन्या चत्वारः सागरोप- मस्य दशभागा उत्कृष्टा पश्ञ्च, नवमे जघन्या पश्च सागरोपमस्य दशभागा उत्कृष्टा षट्, दशमे जघ- न्या षट् सागरोपमस्य दसभागा उत्कृष्टा सप्त, एकादषे जघन्या सप्त उत्कृष्टाऽष्टौ द्वादशे जघन्याऽष्टौ उत्कृष्टा नव, त्रयोदशेजघन्या नव सागरोपमस्य दशभागा उत्कृष्ट दश, परिपूर्णमेकं सागरोपममिति भावः
1
शर्कराप्रभायां प्रथमे प्रस्तटे प्रस्तटे जघन्या एकं सागरोपमं उत्कृष्टा एकं सागरोपमं द्वौ च सागरोपमस्यैकादशभागौ, द्वितीये प्रस्तटे जघन्या एकं सागरोपमं द्वौ सागरोपमस्यैकादशभागौ उत्कृष्टा एकं सागरोपमं चत्वारः सागरोपमस्यैकादशभागाः, तृतीये जघन्या एकं सागरोपमं चत्वारः सागरोपमस्यैकादशभागा उत्कृष्टा एकं सागरोपमं षट् सागरोपमस्यैकादशभागाः, चतुर्थे जघन्या एकं सागरोपमं अष्टौ सागरोपमस्यैकादशभागाः उत्कृष्टा एकं सागरोपमं दश सागरोपमस्यैकादश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org