________________
१३४
जीवाजीवाभिगमउपासूत्रम् ३/नै०-२/१०५
'रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! प्रत्येकं किम् ‘एकत्वम्' एवं रूपं विकुर्वितुं प्रभवः उत 'पृथक्त्वं' पृथक्त्वशब्दो बहुवाची, आह च कर्मप्रकृतिसङ्ग्रहणिचूर्णिकारोऽपि-''पुहुत्तशब्दो बहुत्तवाई" इति, प्रभूतानि रूपाणिविकुर्वितुंप्रभवः ?, 'विकुर्वविक्रयायाम्' इत्यागमप्रसिद्धो धातुरस्ति यस्य विकुर्वाण इति प्रयोगस्ततो विकुर्वितुमित्युक्तं, भगवानाह-एकत्वमपि प्रभवो विकुर्वितुं पृथक्त्वमपि प्रभवो विकुर्वितुं, तत्रैकं रूपं विकुर्वतो मुद्गररूपं वा मुद्गरः-प्रतीतः मुषण्ढिरूपं वा मुषण्डि-प्रहरणविशेषः, करपत्ररूपं वा असिरूपं वा शक्तिरूपं वा हलरूपं वा गदारूपं वा मुशलरूपं वा चक्ररूपं वा नाराचरूपं वा कुन्तरूपं वा तोमररूपं वा शूलरूपं वा लकुटरूपं वा भिण्डमालरूपं वा विकुर्वन्ति, करपत्रादयः प्रतीताः, भिण्डमालः-शस्त्रजातिविशेषः, अत्र सङ्ग्रहणिगाथा कचित्पुस्तकेषु॥१॥ "मुग्गरमुसुंढिकरकयअसिसत्तिहलं गयामुसलचक्क ।
नारायकुंततोमरसूललउडभिंडिमाला य॥" गतार्था, नवरं 'करकय'त्ति क्रकचं करपत्रमित्यर्थः, पृथक्त्वं विकुर्वन्तो मुद्गररूपाणि वा यावत् भिण्डमालरूपाणि वा, तान्यपि सशानि, 'नोऽसद्दशानि' असमानरूपाणि, तथा “सङ्ग्येयानि' परिमितानि न ‘असङ्खयेयानि' सङ्ख्यातीतानि, विसशकरणेऽसङ्ग्येयकरणे वा शक्त्यभावात्, तथा 'संबद्धानि' स्वात्मनः शरीरसंलग्नानि 'नासंबद्धानि' नस्वशरीरात्पृथग्भूतानि, स्वशरीरात्पृथग्भूतकरणे शक्त्यभावात्, विकुर्वन्ति, विकुर्वित्वाऽ- न्योऽन्यस्य कायमभिघ्नन्तो वेदनामुदीरयन्ति, किंविशिष्टामित्याह
'उज्ज्वलां' दुःखरूपतया जाज्वल्यमानां सुखलेशेनयकलङ्कितामिति भावः, 'विपुलां' सकलशरीरव्यापितया विस्तीरणां 'प्रगाढा प्रकर्षेणमर्मप्रदेशव्यापितयाऽतीवसमवगाढां कर्कशामिव कर्कशां, किमुक्तं भवति ?-यथा कर्कशः पाषाणसंघर्ष शरीररस्य खण्डानि त्रोटयति एवमात्मप्रदेशान् त्रोटयन्तीव या वेदनोपायते सा कर्कशा तां, कटुकामिव कटुकां पित्तप्रकोपपरिकलितवपुषो रोहिणीं-कटुद्रव्यमिवोपभुज्यमानमतिशयेनाप्रीतिजनिकामिति भावः, तथा 'परुषां' मनसोऽतीव रौक्ष्यजनिकां निष्ठुराम्' अशक्यप्रतीकारतया दुर्भेदां चण्डा' रूद्रां रौद्राध्यवसायहेतुत्वात् ‘तीव्राम्' अतिशायिनी 'दुःखां' दुःखरूपां 'दुर्गा' दुलझयामत एव दुरधिसह्याम्, एवंपृथिव्यांतावद्वक्तव्यं यावत्पञ्चम्याम्। छट्ठसत्तमीसुण मित्यादि, षष्ठसप्तम्योः पुनः पृथिव्या' रयिकाः बहूनि महान्ति गोमयकीट-प्रमाणत्वात्, 'लोहितकुन्थुरूपाणि' आरक्तकुन्थुरूपाणि वज्रमयतुण्डानि, गोमयकीटसमानानि विकुर्वन्ति, विकुर्वित्वा अन्योऽन्यस्य' परस्परस्य 'कार्य' शरीरंसमतुरङ्गा इवाचरन्तः समतुरङ्गाय-माणाः, अश्वाइवान्योऽन्यमारुहन्त इत्यर्थः, 'खायमाणा स्वार्थमाणा' भक्षयन्तो २ ऽन्तरन्तः 'अनुप्रवेशयन्तः' अनुप्रविशन्तः 'सयपोरागकिमिया इव' शतपर्वकृमय इव इक्षुपर्वकृमय इव 'चालेमाणा २ शरीरस्य मध्यभागेन संचरन्तः संचरन्तो वेदनामुदीरयन्त्युज्वलामित्यादि प्राग्वत् । सम्प्रति क्षेत्रस्वभावजां वेदनां प्रतिपादयति
‘रयणे त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! किं शीतां वेदनां वेयन्ते उष्णां वेदनां वेदयन्ते शीतोष्णां वा ?, भगवानाह-गौतम ! न शीतां वेदनां वेदयन्ते किन्तु उष्णां वेदनां वेदयन्ते, ते हि शीतयोनिका योनिस्थानां केवलहिमानीप्रख्यशीतप्रदेशात्मकत्वात्, योनिस्थान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org