________________
प्रतिपत्तिः ३, नै० उद्देशकः २
-
१३५
व्यतिरेकेण चान्यत् सर्वमपि भूम्यादि खादिराङ्गारादपि महाप्रतप्तमतस्ते उष्णवेदनामनुभवन्ति, नापि शीतोष्णां वेदनां वेदयन्ते, शीतोष्णस्वभावतया वेदनाया नरकेषु मूलतोऽप्यसम्भवात् ।
एवं शर्कराप्रभावालुकाप्रभानैरयिका अपि वक्तव्याः, पङ्गप्रभापृथिवीनैरयिकपृच्छायाम् भगवानाह - गौतम! शीतीमपि वेदनां वेदयन्ते नरकावासभेदेनोष्णामपि वेदनां वेदयन्ते नकरावासभेदेनैव, न तु शीतोष्णां, तत्र ते बहुतरा ये उष्णां वेदनां वेदयन्ते, प्रभूततराणां शीतयोनित्वात्, ते स्तोकतरा ये शीतां वेदनां वेदयन्ते, अल्पतराणामुष्णयोनित्वात्, एवं धूमप्रभायामपि वक्तव्यं, नवरं ते बहुतरा ये शीतवेदनां वेदयन्ते, बहुनामुष्णयोनित्वात्, ते स्तोकतरा ये उष्णवेदनां वेदयन्ते, अल्पतराणां शीतयोनित्वात् । तमः प्रभापृथिवीनैरयिकपृच्छायां भगवानाह - गौतम ! शीतां वेदना वेदयन्ते नोष्णां नापि शीतोष्णां, तत्रत्यानां सर्वेषामुष्णयोनित्वात्, योनिस्थानव्यतिरेकेण चान्यस्य सर्वस्यापि नरकभूम्याहेर्महाहिमानीप्रख्यत्वात् एवं तमस्तमाप्रभापृथिवीनैरयिका अपि वक्तव्या; नवरं परमां शीतवेदनां वेदयन्ते इति वक्तव्यं, तमः प्रभापृथिवीतः तमस्तमप्रभापृथिव्यां शीतवेदनाया अतिप्रबलत्वात् ।
सम्प्रति भवानुभवप्रतिपादनार्थमाह- 'रयणेत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! कीशं नरकभवं प्रत्यनुभवतः प्रत्येकं वेदयमानाः 'विहरन्ति' अवतिष्ठन्ते ?, भगवानाह - गौतम ! रत्नप्रभा पृथिवीनैरयिका 'नित्यं' सर्वकालं क्षेत्रस्वभावजमहानिबिडान्धकारदर्शनतो भीताः, सर्वत उपजातशङ्कत्वात्, तथा 'नित्यं' सर्वकालं स्वत एवाग्रेऽपि 'त्रस्ताः' परमाधार्मिकदेवपरस्परोदीरितदुःखसंपातभयानसमुपपन्नाः, तथा 'नित्यं' सर्वकालं परमाधार्मिकैः परस्परं वा 'त्रासिताः' त्रासंग्राहिताः, तथा 'नित्यमुद्विग्नाः ' यथोक्तरूपदुःखानुभवतस्तद्गतावासराङ्मुखचित्ताः, तथा 'नित्यं' सर्वकालम् 'उपप्लुताः' उपप्लवेनोपेता न तु मनागपि रतिमासादयन्ति, एवं 'नित्यं' सर्वकालं परममशुभम् 'अतुलम्' अशुभत्वेनानन्यसदृशम् 'अनुबद्धम्' अशुभत्वेन निरन्तरमुपचितं निरयभवं 'प्रत्यनुभवन्तः ' प्रत्येकं वेदयमाना विहरन्ति ।
एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधः सप्तमी, अस्यां चाधः सप्तम्यां क्रूरकर्माणः पुरुषा उत्पद्यन्ते नान्ये, तथा चास्यैवार्थस्य प्रदर्शनार्थं पञ्च पुरुषान् उपन्यस्यति--'अहेसत्तमाए ण' मित्यादि, अधः सप्तम्यां पृथिव्यामप्रतिष्ठाने नरके 'इमे' अनन्तरं वक्ष्माणस्वरूपाः पञ्च पुरुषान् उपन्यस्यति -- 'अहेसत्तमाए ण' मित्यादि, अधः सप्तम्यां पृथिव्यामप्रतिष्ठाने नरके 'इमे' अनन्तरं वक्ष्यमाणस्वरूपाः पञ्च महापुरुषाः 'अनुत्तरैः' सर्वोत्तमप्रकर्षप्राप्तैः 'दण्डसमादानैः' समादीयते कर्म्म एभिरिति समादानानि --कर्मोपादानहेतवः दण्डा एव मनोदण्डादयः प्राणव्यपरोपणाध्यवसायरूपाः समादानानि दण्डसमादानानि तैः कालमासे कालं कृत्वोत्पन्नाः ।
तद्यथा - रामो जामदग्निसुतः पर्शुराम इत्यर्थः, दाढादालः छातीसुतः, वसू राजा उपरिचरः, स हि देवताऽधिष्ठिताकाशस्फटिकसिंहासनोपविष्टः सन्नाकाशस्फटिकमयस्य सिंहासनस्यादर्शनतो लोकेष्वेवं प्रसिद्धिमगमत--सत्यवादी किलैष वसुराजा न प्राणात्ययेऽप्यलीकं भाषते ततः सत्त्वावर्जितदेवताकृतप्रातिहार्य एवमुपर्याकाशेचरतीति स चान्यदा हिंस्रवेदार्थप्ररूपकस्य पर्वतस्य पक्षमभिगृह्य सम्यग्ध्ष्टेर्नारदस्य पक्षमनभिगृह्णन्नलीकवादित्वात्प्रकुपितदेवताचपेटाहतः सिंहासनात्परिभ्रष्टो रौद्राध्यामभिरूढः सप्तमपृथिव्यामप्रतिष्ठाननरकमयासीत्, सुभूमोऽष्टमश्चक्रवर्ती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org