________________
प्रतिपत्तिः - ३, नै० उद्देशकः २
१३१
न्द्रियेभ्य उत्पद्यन्ते तेषामपर्याप्तावस्थायां विभङ्गासम्भवाद् द्वयज्ञानिनः, शेषकालं तु तेषामपि त्र्यज्ञानिता, संज्ञिपञ्चेन्द्रियेभ्य उत्पन्नानां तु सर्वकालमपि त्र्यज्ञानितैव, अपर्याप्तावस्थायामपि तेषां विभङ्गभावात्, तत्र ये द्वयज्ञानिनस्ते मत्यज्ञानिनः, ये त्र्यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च | 'सक्कर पभापुढवी 'त्यादि, शर्कराप्रभापृथिवीनैरयिका भदन्त ! किं ज्ञानिनोऽज्ञानिनः ?, भगवानाह - गौतम ! ज्ञानिनोऽप्यज्ञानिनोऽपि तत्रापि सम्यग्ध्शां मिथ्याध्शां च भावात्, तत्र ये ज्ञानिनस्ते नियात्रिज्ञानिनः, तद्यथा - आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च, येऽज्ञानिनस्ते नियमात्यज्ञानिनः, संज्ञिपञ्चेन्द्रियेभ्य एव तत्रोत्पादात्, त्र्यज्ञानित्वमेव दर्शयतीति, तद्यथा - मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एवं शेषास्वपि पृथिवीषु वक्तव्यं, तत्रापि संज्ञिपञ्चेन्द्रियेभ्य एवोत्पादात् ॥ सम्प्रति योगप्रतिपादनार्थमाह
'रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! किं मनोयोगिनो वाग्योगिनः काययोगिनः ?, भगवानाह - गौतम ! त्रिविधा अपि एवं प्रतिपृथिवि तावद् यावदधः सप्तम्याम् अधुना साकारांनाकारोपयोगचिन्तां कुर्वन्नाह - 'रयणेत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! किं साकारोपयुक्ता अनाकारोपयुक्ताः ?, भगवानाह - साकारोपयुक्ता अपि अनाकारोपयुक्ता अपि एवं तावद्यावदधः सप्तभ्याम् ॥ अधुना समुद्घातचिन्तां करोति- 'रयणे त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कति समुद्घाताः प्रज्ञप्ताः ?, भगवानाह - गौतम ! चत्वारः समुद्घाताः प्रज्ञप्ताः, तद्यथा-वेदनासमुद्घातः कषायसमुद्घातो मारणान्तिकसमुद्घातो वैक्रियसमुद्घातश्च, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधः सप्तम्याम् । सम्प्रति क्षुत्पिपासे चिन्तयतिमू. (१०५) इमीसे णं भंते! रयणप्पभा० पु० नेरतिया केरिसयंखुहप्पिवासं पचणुब्भवमागा विहरति ?, गोयमा ! एगमेगस्स णं रयणप्पभापुढविनेरतियस्स असब्भावपट्टवणाए सव्वोदधी वा सव्वपोग्गले वा आसगंसि पक्खिवेज नो चेव णं से रयणप्प० पु० नेरतिए तित्ते वा सिता वितण्हे वा सिता, एरिसया णं गोयमा ! रयणप्पभाए नेरतिया खुधप्पिवासं पचणुब्भवमाणा विहरति, एवं जाव अधेसत्तमाए ।
इमीसे णं भंते! रयणप्पभाए पु० नेरतिया किं एकत्तं पभू विउव्वित्तए पुहुत्तंपि पभू विउव्वित्तए ?, गोयमा ! एगत्तंपि पभू पुहुत्तंपि पभू विउवित्तए, एगत्तं विउव्वेमाणा एगं महं मोग्गररूवं वा एवं मुसुंढिकरवत्त असिसत्तीहलगतामुसलचक्कणारायकुंततोमरसूललउडभिंडमाला य जाव भिंडमालरूवं वा पुहुत्तं विउव्वेमाणा भोग्गररूवाणि वा जाव भिंडमालरूवाणि वा ताई संखेजाइं नो असंखेज्जाई संबद्धाइं नो असंबद्धाई सरिसाइं नो असरिसाई विउव्वंति, विउव्वित्ता अन्नमन्नस्स कार्य अभिहणमाणा अभिहणमाणा वेयणं उदीरेति उज्जलं विउलं पगाढं कक्कसं कडुयं फरुसं निदुरं चंडं तिव्वं दुक्खं दुग्गं दुरहियासं, एवं जाव धूमप्पभाए पुढवीए ।
छडुसत्तमासु णं पुढवीसु नेरइया बहू महंताई लोहियकुंथूरूवाइं वइरामइतुं डाइं गोमयकीडसमाणाइं विउव्वंति, विउव्वित्ता अन्नमन्नस्स कायं समतुरंगेमाणा खायमाणा खायमाणा सयपोरागकिमिया विव चालेमाणा २ अंतो अंतो अणुप्पविसमाणा २ वेदणं उदीरंति उज्जलं जाव दुरहियासं । इमीसे णं भंते! रयणप्प० पु० नेरइया किं सीतवेदणं वेइंति उसिणवेदणं वेइंति सीउसिणवेदणं वेदेति ?, गोयमा ! नो सीयं वेदणं वेदेति उसिणं वेदणं वेदेति नो सीतोसिणं, [ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org