________________
१३०
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/नै०-२/१०४ इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरतियाणं कति समुग्घाता पन्नता?, गोयमा ! चत्तारिसमुग्घातापन्नत्ता, तंजहा वेदनासमुग्याए कसायसमुग्घाए मारणेतियसमुग्घाएवेउब्धियसमुग्धाए, एवं जाव अहेसत्तमाए॥
वृ. 'रयणे' त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कीशाः पुद्गला उच्छ्वासतया परिणमन्ति ?, भगवानाह-गौतम ! ये पुद्गला अनिष्टा अकान्ता अप्रिया अशुभा अमनोज्ञा अमनआपाः,अमीषांपदानांव्याख्यानंप्राग्वत्, तेतेषां रत्नप्रभापृथिवीनैरयिकाणामुच्छ्वासतया परिणमन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदघःसप्तम्याम् ।
साम्प्रतमाहारप्रतिपादनार्थमाह-'रयणे'त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कीशाः पुद्गला आहारतया परिणमन्ति?, भगवानाह-गौतम ! ये पुद्गला अनिष्टा अकान्ता अप्रियाअशुभाअमनोज्ञाअमनआपास्ते तेषामाहारतया परिमणमन्ति, एवं प्रतिपृथिवितावद्वक्तव्यं यावदधःसप्तम्याम् । इह पुस्तकेषु बहुधाऽन्यथापाठो ६श्यते, अत एव वाचनाभेदोऽपि समग्रोदयितुंन शक्यते, केवलंबहुषुपुस्तकेषुयोऽविसंवादीपाठस्तत्प्रतिपत्यर्थंसुगमान्यप्यक्षराणि संस्कारमात्रेण विव्रियन्तेऽन्यथा सर्वमेतदुत्तानार्थं सूत्रमिति।
सम्प्रति लेश्याप्रतिपादनार्थमाह-रयणे'त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त! कति लेश्याः प्रज्ञप्ताः?, भगवानाह-गौतम! कापोतलेश्या प्रज्ञप्ता, एवं शर्कराप्रभानेरयिकाणामपि, नवरं तेषां कापोतलेश्या सङ्क्लिष्टतरा वेदितव्या, वालुकाप्रमानैरयिकाणां द्वे लेश्ये, तद्यथानीललेश्याचकापोतलेश्याच, तत्रतेबहुता येकापोतलेश्याः, उपरितनप्रस्तटवर्त्तिनां नारकाणां कापोतलेश्याकत्वात् तेषां चातिभूयस्कत्वात्, ते स्तोकतरा ये नीललेश्याकाः, पङ्कप्रभापृथिवीनैरयिकाणामेका नीललेश्या, सा च तृतीयपृथिवीगतनीललेश्याऽपेक्षयाऽविशुद्धतरा, धूमप्रमापृथिवीनैरयिकाणां द्वे लेश्ये, तद्यथा-कृष्णलेश्या च नीललेश्या च, तत्र ते बहुतरा ये नीललेश्याकाः,ते स्तोकतरायेकृष्णलेश्याकाः,भावनाऽत्रापिप्राग्वत्, तमःप्रभापृथिवीनैरयिकाणां कृष्णलेश्या, साच पञ्चमपृथिवीगतकृष्णलेश्याऽपेक्षयाऽविशुद्धतरा, अधःसप्तमपृथिवीनरयिकाणामका परमकृष्णलेश्या, उक्तं च व्याख्याप्रज्ञप्ती॥७॥ “काऊ दोसु तइयाऐ मीसिया नीलिया चउत्थीए ।
___ पंचमियाए मीसा कण्हा तत्तो परमकण्हा ।।" सम्प्रति सम्यग्दृष्टित्वादिविशेषप्रतिपादनार्थमाह--‘रयणे त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्तः किं सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिथ्यादृष्टयोवा?, भगवानाह-गौतम! सम्यग्दृष्टयोऽपि मिथ्याष्टयोऽपि सम्यग्मिथ्याध्ष्टयोऽपि, एवं पृथिव्यां पृथिव्यां तावद्वाच्यं यावत्तमस्तमायाम् ।
सम्प्रति ज्ञान्यज्ञानिचिन्तां कुर्वनाह-‘रयणे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त! किं ज्ञानिनोऽज्ञानिनः?, भगवानाह-गौतम ! ज्ञानिनोऽपि अज्ञानिनोऽपि, सम्यग्दृशां ज्ञानित्वान्मिथ्याशामज्ञानित्वात्, तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, अपर्याप्तावस्थायामपि तेषामवधिज्ञानसम्भवात्, संज्ञिपञ्चेन्द्रियेभ्यस्तेषामुत्पादात्, त्रिज्ञानित्वमेव भावयति, तद्यथाआभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः, येऽज्ञानिनस्ते 'अत्येगइया' इति अस्तीतिनिपातोऽत्र बहुवचनगर्भ सन्त्येकका द्वयज्ञानिनः सन्त्येककास्त्रयज्ञानिनः, तत्र येऽसंज्ञिपञ्चे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org